41021: द्विगोः¶
Padacheda: द्विगोः | S | 5 | 1 |
Sutrartha¶
द्विगुसमासेन निर्मितात् ह्रस्व-अकारान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते ।
स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । **संख्यापूर्वो द्विगुः (2.1.52) इति सूत्रेण निर्दिष्टः यः द्विगुसमासः, तेन निर्मितात् ह्रस्व-अकारान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते** — इति अस्य सूत्रस्य अर्थः । संख्यापूर्वो द्विगुः (2.1.52) इति सूत्रेण निर्दिष्टः द्विगुसमासः त्रिप्रकारकः वर्तते — तद्धितार्थः द्विगुः, उत्तरपदद्विगुः, समाहारद्विगुः । एतेषाम् विषये विवरणम्, उदाहरणानि च अधः क्रमेण दत्तानि सन्ति — <hlb>1. तद्धितार्थद्विगुः</hlb> — यस्य द्विगुसमासस्य निर्माणे कश्चन तद्धितप्रत्ययः अपि आवश्यकः सः तद्धितार्थद्विगुसमासः । एतादृशस्य समासस्य अन्ते विद्यमानस्य तद्धितप्रत्ययस्य प्रायेण सर्वत्र अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इत्यनेन लुक् भवति । एतादृशे लुकि कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा, “द्वौ आढकौ पचति” अस्मिन् अर्थे द्विगोः ष्ठंश्च (5.1.54) इत्यनेन ठञ्-प्रत्यये कृते “द्वि + आढक + ठञ्” इति स्थिते, अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इति तद्धितसमासस्य लुकि कृते “द्वि + आढक” इत्यवस्थायाम् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति, येन “द्वि + आढक + ठञ् → द्व्याढकी” इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —
द्वौ आढकौ पचति सा
→ द्वि + आढक + ठञ् [**संख्यापूर्वो द्विगुः** (2.1.52) इति द्विगुसमासः । तत्र **द्विगोः ष्ठंश्च** (5.1.54) इति (चकारग्रहणसामर्थ्यात्) ठञ्-प्रत्ययः]
→ द्वि + आढक + ० [**अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इति तद्धितप्रत्ययस्य लुक्]
→ द्वि + आढक + ङीप् [स्त्रीत्वं द्योतयितुम् **द्विगोः** (4.1.21) इति ङीप्]
→ द्व्याढक + ई [**इको यणचि** (6.1.77) यणादेशः]
→ द्व्याढक् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ द्व्याढकी
एवमेव, “पञ्च पात्राणि अवहरति” इत्यत्र संख्यापूर्वो द्विगुः (2.1.52) इति द्विगुसमासः, ततः द्विगोः ष्ठंश्च (5.1.54) इत्यनेन ठञ्-प्रत्ययः, ततः अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इति तद्धितप्रत्ययस्य लुक्, ततश्च स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्यये कृते “पञ्चपात्रिकी” इति शब्दः सिद्ध्यति । <note> 1. तद्धितार्थद्विगुसमासे तद्धितप्रत्ययस्य लुकि कृते, ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्यये प्राप्ते; बहुषु स्थलेषु अयं ङीप्-प्रत्ययः निषिध्यते । एते अपवादाः अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (4.1.22), काण्डान्तात् क्षेत्रे (4.1.23) तथा च पुरुषात् प्रमाणेऽन्यतरस्याम् (4.1.24) इत्येतेषु त्रिषु सूत्रेषु पाठिताः सन्ति । 2. यदि तद्धितार्थद्विगुसमासस्य अन्ते विद्यमानस्य तद्धितप्रत्ययस्य लुक् न विधीयते, तर्हि तत्र स्त्रीत्वं द्योतयितुम् द्विगु-समासविशिष्टः स्त्रीप्रत्ययः नैव भवति, अपि तु अन्ते विद्यमानम् तद्धितप्रत्ययम् अनुसृत्य एव स्त्रीप्रत्ययः विधीयते । यथा, “द्वौ आढकौ पचति” इत्यस्मिन्नेव अर्थे द्विगोः ष्ठंश्च (5.1.54) इत्यनेन ख-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः एव विधीयते — “द्वि + आढक + ख (ईन) + टाप् → द्व्याढकीना” । </note> <hlb>2. समाहारद्विगुः</hlb> — समाहारस्य निर्देशार्थम् प्रयुक्तः द्विगुसमासः समाहारद्विगुः नाम्ना ज्ञायते । समाहारद्विगुसमासेन निर्मितं प्रातिपदिकम् स नपुंसकम् (2.4.17) इत्यनेन प्रायेण नपुंसकलिङ्गे एव भवति, अतः तत्र स्त्रीप्रत्ययस्य न कश्चन अवकाशः । परन्तु, यदि एतत् प्रातिपदिकम् अकारान्तम् अस्ति, तर्हि <!अकारान्तोदत्तरपदो द्विगुः स्त्रियां भाषते!> इति वार्त्तिकेन तस्य नित्यं स्त्रीलिङ्गे एव प्रयोगः इष्यते । अस्यां स्थितौ स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण तत्र ङीप्-प्रत्ययः भवति । यथा, “पञ्चानां पूलानां समाहारः” (a collection of five bundles / heaps) इत्यत्र “पञ्च + पूल” इति द्विगुसमासे कृते तत्र नित्यं स्त्रीलिङ्गमेव इष्यते, अतः ङीप्-प्रत्यये कृते “पञ्च + पूल + ङीप् → पञ्चपूली” इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —
पञ्चानां पूलानां समाहारः
→ पञ्च + पूल + ङीप् [**संख्यापूर्वो द्विगुः** (2.1.52) इति द्विगुः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक् । <!अकारान्तोदत्तरपदो द्विगुः स्त्रियां भाषते!> इति वार्त्तिकेन नित्यं स्त्रीलिङ्गे प्रयोगः, अतः स्त्रीत्वं द्योतयितुम् **द्विगोः** (4.1.21) इति ङीप्]
→ पञ्चन् + पूल् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ पञ्च + पूल् + ई [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः]
→ पञ्चपूली
एवमेव -
त्रयाणां लोकानां समाहारः = त्रि + लोक + ङीप् → “त्रिलोकी”
2. पञ्चानाम् अजानां समाहारः = पञ्चन् + अज + ङीप् → “पञ्चाजी” 2. अष्टानाम् अध्यायानां समाहारः = अष्टन् + अध्याय + ङीप् → “अष्टाध्यायी” 3. त्रयाणां पादानां समाहारः = त्रि + पाद + ङीप् → “त्रिपादी” 4. पञ्चानां खट्वानां समाहारः = पञ्चन् + खट्वा + ङीप् → “पञ्चखट्वी” । अत्र प्रक्रिया एतादृशी भवति —
पञ्चानां खट्वानां समाहारः
= पञ्चन् + खट्वा [**संख्यापूर्वो द्विगुः** (2.1.52) इति द्विगुः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ पञ्चन् + खट्व [**गोस्त्रियोरुपसर्जनस्य** (1.2.48) इत्यनेन स्त्रीप्रत्ययान्त-उपसर्जनस्य ह्रस्वादेशः]
→ पञ्चन् + खट्व + ङीप् [**स नपुंसकम्** (2.4.17) इत्यत्र निर्दिष्टेन <!आबन्तो वा!> इति वार्त्तिकेन विकल्पेन स्त्रीत्वम् । स्त्रीत्वपक्षे तस्य द्योतनार्थम् **द्विगोः** (4.1.21) इति ङीप्]
→ पञ्चन् + खट्व् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ पञ्च + खट्व् + ई [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः]
→ पञ्चखट्वी
<note> 1. “त्रयाणां फलानां समाहारः”, “त्रयाणाम् अनीकानां समाहारः” इत्यत्र यद्यपि वस्तुतः ङीप्-प्रत्ययः प्राप्नोति; तथापि अजाद्यतष्टाप् (4.1.4) इत्यत्र विद्यमाने अजादिगणे एतयोः ग्रहणं कृत्या एताभ्याम् टाप्-प्रत्ययः एव क्रियते, येन “त्रिफला”, “त्र्यनीका” इति टाबन्तशब्दौ सिद्ध्यतः । 2. “नवानां रात्रीणां समाहारः” इत्यत्र द्विगुसमासे कृते <!संख्यापूर्वं रात्रं क्लीबम्!> इति वार्त्तिकेन नित्यं नपुंसकलिङ्गे एव रूपं प्रयुज्यते, अतः तत्र स्त्रीप्रत्ययः न भवति, अपि तु “नवरात्रम्” इत्येव शब्दः सिद्ध्यति । </note> <hlb>3. उत्तरपदद्विगुः</hlb> — यः द्विगुसमासः नित्यम् बहुव्रीहिसमासस्य पूर्वपदरूपेण एव विधीयते (पृथग् रूपेण नैव प्रयुज्यते) सः उत्तरपदद्विगुसमासः नाम्ना ज्ञायते । एतादृशः द्विगुसमासः प्रातिपदिकस्य अन्ते नैव सम्भवति अतः तत्र प्रकृतसूत्रस्य प्रयोगः अपि न भवति । यथा “पञ्च गावः धनम् अस्य” इत्यत्र “पञ्च + गो” इति द्विगुसमासात् अनन्तरम् “धन” इति शब्दः उत्तपरदरूपेण प्रयुज्यते, येन “पञ्च + गो + धन → पञ्चगावधन” इति शब्दः सिद्ध्यति । अत्र स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रयोगः नैव सम्भवति यतः अत्र अन्ते द्विगुसमासः न विद्यते । अतः अत्र अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्यये कृते “पञ्चगावधना” इत्येव शब्दः सिद्ध्यति ।
Vasu English Summary¶
The affix ङीप् come in the feminine after a प्रातिपदिक (Nominal Stem) ending in अ , which is द्विगु समास (Numeral Determinative Compound).
Vasu English Translation¶
The affix ङीप् come in the feminine after a प्रातिपदिक (Nominal Stem) ending in अ , which is द्विगु समास (Numeral Determinative Compound). Thus दशपूली, पञ्चपूली ॥ But we find त्रिफला ‘the three myrobalans’, because this is one of the words spoken of as ‘अज &c’ (4.1.4).
Kashika¶
द्विगुसंज्ञकात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति। पञ्चपूली। दशपूली। कथं त्रिफला ? अजादिषु दृश्यते ॥
Siddhanta Kaumudi¶
अदन्तात् द्विगोर्ङीप् स्यात् । त्रिलोकी । अजादित्वात्त्रिफला । त्र्यनीका सेना ॥
Laghu Siddhanta Kaumudi¶
अदन्ताद् द्विगोर्ङीप्स्यात् । त्रिलोकी । अजादित्वात्त्रिफला । त्र्यनीका सेना ॥
Balamanorama¶
द्विगोः - द्विगोः ।स्त्रिया॑मिति ‘अत’ इति ‘ङी’ बिति चानुवर्तते । तदाह-अदन्तादिति । त्रिलोकीति । त्रयाणां लोकानां समाहार इति विग्रहः ।तद्धितार्थोत्तरपदसमाहारे चे॑ति द्विगुसमासः ।अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः॑ इति स्त्रीत्वम् । त्रिलोकशब्दाट्टाबपवादो ङीप् ।यस्येति चे॑ति भावः । ननु त्रिफला त्र्यनीका इत्यत्रापि ङीप् प्राप्नोतीत्यत आह — अजादित्वात्रिफला त्र्यनीकेति ।भवती॑ति शेषः । त्रयाणां फलानां समाहार इति, त्रयाणामनीकानामिति च विग्रहे ‘तद्धितार्थ’ इति द्विगुः । ‘अकारान्तोत्तरपदः’ इति स्त्रीत्वम्, ‘द्विगोः’ इति ङीपं बाधित्वाऽजादित्वाट्टाबिति भावः । अनीकशब्द ऐन्द्रवायवाग्रत्वे शुकाग्रत्वे आग्रयणाग्रत्वे च वर्तते इति त्र्यनीकाधिकरणे मीमांसकाः । अपरिमाण । ‘द्विगोः’ इति ङीबिति चानुवर्तते । प्रातिपदिकादित्यधिकृतमपरिमाणादिभिर्विशेष्यते । तदन्तविधिः ।
Nyaas¶
पञ्चपूली इति। पञ्चानां पूलानां समाहार इति। तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इति समाहारद्विगुः। अकारान्तोदत्तरपदो द्विगुः स्त्रियां भाष्यते (वा। 156) इति स्त्रीलिङ्गता।त्रिफला इति। त्रयाणां फलानां समाहार इति। पूर्ववद् द्विगुः॥
Praudhamanorama¶
त्र्यनीकेति। त्रयाणामनीकानां समाहारः, अत्राजादेराकृतिगणत्वात् टाबिति त्र्यनीकाधिकरणे मीमांसकाः।
Prakriyasarvasvam¶
अदन्ताद् द्विगोः स्त्रियां ङीप् स्यात् । ‘अकारान्तोत्तरपदो द्विगुः स्त्रियाम् (वा० २-४-१७) इति द्विगोः क्लीबत्वबाधः । त्रिलोकी । धुर ‘ऋक्पूः—’ (५-४-७४) इत्यप्रत्यये कृते ङीप् । द्विधुरी । त्रिधुरी । ‘आबन्तो वा स्त्रियाम्’ । (वा० २-४-१७) पञ्चानां मालानां समाहार इत्यत्र समाहारस्यैव विभक्तिभेदाद् ‘एकविभक्ति च—’ (१-२-४४) इति मालाशब्दस्योपसर्जनत्वादह्रस्वः । एवम- दन्ताद् ङीप् । पञ्चमाली, पञ्चमालम् । ‘अनो नलोपश्च वा च स्त्रियाम् (वा० २-४-१७) । स्त्रीत्वे ङीप् । पञ्चकर्मी, पञ्चकर्मम् । पञ्चतक्षी, पञ्चतक्षम् । पात्रादौ स्त्रीत्वं न । पञ्चपात्रम् । चतुर्युगम । त्रिभुवनम् । पञ्चगवम् । त्रिपथम् । पञ्चराजम् । त्रिपुरं च केचित् । आकृतिगणश्चायम् ।
Sutra Prayogas¶
पञ्चवट्यां (रघुवंशम्): द्विगोः इति ङीप्।