34051: प्रमाणे च¶
Padacheda: प्रमाणे | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix णमुल् comes after a root when a noun in the Instrumental -3rd case or Locative -7th case is in composition with it and when measure of length is intended.
Vasu English Translation¶
The affix णमुल् comes after a root when a noun in the Instrumental -3rd case or Locative -7th case is in composition with it and when measure of length is intended. The word प्रमाणं means ‘length or extension’. Thus द्वयङ्गुलोत्कर्षं ( द्वयङ्गुले उत्कर्षम् or द्वयङ्गुलेनोत्कर्षम्) खण्डिकां छिनत्ति ‘he cuts pieces of the length of two fingers’. See (2.2.21).
Kashika¶
तृतीयासप्तम्योरित्येव। प्रमाणमायामः, दैर्घ्यम्। प्रमाणे गम्यमाने तृतीयासप्तम्योरुपपदयोर्धातोर्णमुल् प्रत्ययो भवति। द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति। द्व्यङ्गुल उत्कर्षम्, द्व्यङ्गुलेनोत्कर्षम्। त्र्यङ्गुलोत्कर्षम्॥
Siddhanta Kaumudi¶
तृतीयासप्तम्योरित्येव । द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति । द्व्यङ्गुलेन द्व्यङ्गुले वोत्कर्षम् ॥
Tattvabodhini¶
प्रमाणे च - द्व्यङ्गुलोत्कर्षमिति । द्वयोरङ्गुल्योः समाहारो द्व्यङ्गुलम् ।तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः॑ इत्च् समासान्तः । द्व्यङ्गुलेनोत्कृष्य । परिच्छित्येत्यर्थः । स्वल्पः खण्डः खण्डिका । ह्रस्वः खण्डः खण्डिकेति मनोरमायामुक्तम् । यद्यपि ह्रस्वशब्दो वामनपर्यायतया चेतनेष्वेव प्रायेण प्रयुज्यते, अल्पे ह्रस्वे इति पृथक्सूत्रस्वारस्यात्, तथापि ह्रस्वदीर्घत्यादिनिर्देशादचेतनेष्वपि क्वचिद्भवतीत्याहुः ।
Nyaas¶
प्रमाणमायामः इति। आयामस्तु प्रमाणं स्यात् इति वचनात्। दैघ्र्यमिति प्रसिद्धतरार्थेन शब्दान्तरेण प्रमाणशब्दस्यैवार्थं स्पष्टीकरोति। द्व्यङ्गुलोत्कर्षम् इति। द्व्योरङ्गुल्योः समाहारो द्व्यङ्गुलम्, तत्पुरुषस्याङ्गुलेः (5.4.86) इत्यादिनाऽच्। तेन द्व्यङ्गुलेन खण्डिकाया देघ्र्यं परिच्छिद्यते॥
Prakriyasarvasvam¶
अस्मिन् द्योत्ये तृतीयासप्तम्योरुपपदयोः णमुल् । प्रादेशोत्कर्षं समिधं छिनत्ति । प्रादेश इति प्रादेशेनेति वा । तत्परिच्छिन्नतया छिनत्तीत्यर्थः ।।