34049: सप्तम्यां चोपपीडरुधकर्षः¶
Padacheda: सप्तम्याम् | S | 7 | 1 |
च | S | 0 | 0 |
उप-पीड-रुध-कर्षः | S | 1 | 1 | 5
Sutrartha¶
Vasu English Summary¶
The affix णमुल् comes after the roots 1. पीड् ‘to press’ 2. रुद्ध् ‘to obstruct’ 3. कृष् ‘to draw’ when they are preceded by the preposition उप and when they are compounded with nouns ending with the Locative -7th case-affix.
Vasu English Translation¶
The affix णमुल् comes after the roots 1. पीड् ‘to press’ 2. रुद्ध् ‘to obstruct’ 3. कृष् ‘to draw’ when they are preceded by the preposition उप and when they are compounded with nouns ending with the Locative -7th case-affix. The phrase ‘3rd case-affix’ must be read into the sutra by virtue of the word च । Thus पार्श्वोपपीडं शेते ‘he sleeps pressing on his sides’. The compounding is optional (2.2.21); so we have in the alternative, पार्श्वयोरुपपीडम् or पार्श्वाभ्यामुपपीडम् ।
So also व्रजोपरोधम् (or व्रजे उपरोधम् or व्रजेनोपरोधम्) गाः स्थापयति ‘he stations the cows so that they are all in the fold’. पाण्युपकर्षं (or पाणावुपकर्षम् or पाणिनोपकर्षम्) धानाः सङ्गृह्णाति । It is Bhvadi कृष् here, and not Tudadi.
Kashika¶
उपशब्दः प्रत्येकमभिसंबध्यते। उपपूर्वभ्यः पीडरुधकर्षेभ्यः सप्तम्यन्त उपपदे, चकारात् तृतीयान्त उपपदे, णमुल् प्रत्ययो भवति। पार्श्वोपपीडं शेते। पार्श्वयोरुपपीडम्। पार्श्वाभ्यामुपपीडम्। व्रजोपरोधं गाः स्थापयति। व्रज उपरोधम्। व्रजेनोपरोधम्। पाण्युपकर्षं धानाः संगृह्णाति। पाणावुपकर्षम्। पाणिनोपकर्षम्। कर्षतेरिदं ग्रहणम्, न कृषतेः॥
Siddhanta Kaumudi¶
उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल् स्यात् । पार्श्वोपपीडं शेते । पार्श्वयोरुपपीडम् । पार्श्वाभ्यामुपपीडम् । व्रजोपरोधं गाः स्थापयति । व्रजेन व्रजे वा उपरोधम् । पाण्युपकर्षं धानाः संगृह्णाति । पाणावुपकर्षम् । पाणिनोपकर्षम् ॥
Tattvabodhini¶
सप्तम्यां चोपपीडरुधकर्षः - सप्तम्यां चो । उपपूर्वेभ्य इति । सूत्रे पीडादीनां समाहारद्वन्द्वं कृत्वा उपपूर्वः पीडरुधकर्ष इति उत्तरपदलोपी समास इति भावः । इह सौत्रं पुंस्त्वं, पञ्चम्यर्थे प्रथमेति च ज्ञेयम् । कर्षेति शपा निर्देशः, कृष विलेखने इत्यस्य गुणसहितस्योच्चारणात् । तत्फलं तुदादेव्र्युदासः । यद्यपि विलेखन एव सोऽपि पठते तथापि क्षेत्रविषयकविलेखन एव स प्रयुज्यते । पञ्चभिर्हलैः कर्षतीति दर्शनात् । एवं च तौदादकात् कृषेः क्त्वाप्रत्यय एव भवति, क्षेत्रे उपकृष्य, हलेनोपकृष्येति, न त्विह णमुलिति स्थितमाकरे ।
Padamanjari¶
उपशब्दः प्रत्येकमिति । पीडादीनां समाहारद्वन्द्वं कृत्वोपपूर्वः’पीडरुधकर्ष’ इत्युतरपदलोपी समासः । सौत्रः पुंल्लिंङ्गनिर्देशः । करणाधिकरणविवक्षाभेदेनोपपदेषु विभकर्तिदूयम् । कर्षतेरिति भौवादिकस्य, न कृषतेरिति; तौदादिकस्य शपा निर्देशात् । शपा निर्देशस्तु विहितगुणस्योच्चारणाद्विज्ञायते । सूत्रे तु पञ्चम्यर्थे प्रथमा, किञ्च स्याद्यदि तौदादिकस्य ग्रहणं स्यात्, यावतोभयोरपि विलेखनार्थत्वान्नार्थभेदो नापि रूपभेदः ? यद्याप्युभयोरपि विलेखने पाठः, तथापि तौदादिकस्य क्षेत्रविषये विलेखने वृत्तिः - पञ्चभिर्हलैः कृषतीति । तेन क्षेत्रे उपकृष्य हलेनोपकृष्येति तौदादिकात् क्त्वाप्रत्यय एव भवति, न णमुल् ॥
Nyaas¶
उपशब्दः प्रत्येकमभिसम्बध्यते इति। रुधिकषिभ्यामुपपूर्वाभ्यामेव यथा स्यात्। पार्(ाओपपीडम् इति। पीड अवगाहने (धातुपाठः-1544), चुरादिः। कर्षतेः इत्यादि। कृष विलेखने (धातुपाठः-990, 1286) भ्वादौ तुतादौ च पठते, तत्रेह भौवादिकस्य ग्रहणम्, न तौदादिकस्य; शपा निर्देशात्। शपा निर्देशस्तस्य कृतगुणस्योच्चारणाल्लभ्यते॥
Prakriyasarvasvam¶
उपपूर्वेभ्यः एभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल् । कण्ठोपपीडं गृह्णाति । व्रजोपरोधं गां दोग्धि । पात्रोपकर्षम् अपूपान् भुङ्क्ते । असमासे कण्ठे उपपीडम् । व्रजे उपरोधम् । पात्रे उपकर्षम् । तृतीयान्ते कुचोपपीडं श्लिष्यति । सेनोपरोधं रिपुं हन्ति । करोपकर्षम् उत्थापयति । असमासे कुचाभ्यां सेनया करेणेति । ‘धनुर्मुष्टिपीडं दधान’ इत्युपशब्दं विनाप्याह भट्टिः, ‘हस्तरोधं दधद् धनुरि’ति च । एषु क्त्वाप्यूह्यः ।।
Sutra Prayogas¶
स्तनोपपीडम् (किरातार्जुनीयम्): सप्तम्यां चोपपीडरुधकर्षः इति णमुल्।
स्तनोपपीडम् (किरातार्जुनीयम्): सप्तम्यां च इत्यादिना णमुल्प्रत्ययः।
हस्त-रोधं (भट्टिकाव्यम्): हस्तशब्दे तृतीयान्त उपपदे सप्तम्यां चोपपीड- रुधः- कर्पः इति णमुल्।
बाहूपपीडमाश्लिष्य (भट्टिकाव्यम्): सप्तम्यां चोपपीड इति चकारात् तृतीयान्त उपपदे णमुल्।