34032: वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्¶
Padacheda: वर्षप्रमाणे | S | 7 | 1 |
ऊलोपः | S | 1 | 1 |
च | S | 0 | 0 |
अस्य | S | 6 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix णमुल् comes after the verb पुर् ‘to fill’ when the word so formed expresses a measure of rainfall and optionally the long ऊ of this पुर् is elided.
Vasu English Translation¶
The affix णमुल् comes after the verb पुर् ‘to fill’ when the word so formed expresses a measure of rainfall and optionally the long ऊ of this पुर् is elided. Thus गोष्पदपूरं or गोष्पदप्रं वृष्टो देवः ‘it rained filling up small puddles (lit. the impression made by the foot of the cow on the soil)’. सीतापूरं or सीताप्रं वृष्टो देवः ‘it rained filling up all furrows’.
Why have we used the word अस्य ‘of this pur’ in the sutra ? The long ऊ of पूर् is to be elided, and not the long ऊ, if there be any, of the upapada. Thus मूषिकाबिलपूरं or मूषिकाबिलप्रं वृष्टो देवः । Here the long ऊ of मू is not shortened.
Bhashya¶
वर्षप्रमाणऊलोपश्चास्यान्यतरस्याम् (1193) (599 णमुल्प्रत्ययविधिसूत्रम्॥ 3 । 4 । 1 आदृ 11) (आक्षेपभाष्यम्)ऊलोपश्चास्यान्यतरस्यां ग्रहणं शक्यमकर्तुम्। (प्रत्याक्षेपभाष्यम्) कथं गोष्पदप्रं वृष्टो देव इति॥ (प्रत्याक्षेपसमाधानभाष्यम्) प्रातः पूरणकर्मा। तस्मादेष कः॥ (अनिष्टापत्तिभाष्यम्) यदि कः, विभक्तीनां श्रवणं प्राप्नोति॥ (इष्टापत्तिभाष्यम्) श्रूयन्त एवात्र विभक्तयः। तद्यथा - एकेन गोष्यदप्रेणेति॥ वर्षप्रमा॥ 32 ॥
Kashika¶
कर्मणीत्येव। पूरयतेर्धातोर्णमुल् प्रत्ययो भवति, ऊलोपश्चास्य पूरयतेरन्यतरस्यां भवति, समुदायेन चेद् वर्षस्य प्रमाणमियत्ता गम्यते। गोष्पदपूरं वृष्टो देवः। गोष्पदप्रं वृष्टो देवः। सीतापूरं वृष्टो देवः। सीताप्रं वृष्टो देवः। अस्यग्रहणं किमर्थम्? उपपदस्य मा भूत् — मूषिकाबिलपूरं वृष्टो देवः। मूषिकाबिलप्रम्॥
Siddhanta Kaumudi¶
कर्मण्युपपदे पूरेर्णमुल् स्यादूकारलोपश्च वा समुदायेन वर्षप्रमाणे गम्ये । गोष्पदपूरं वृष्टो देवः । गोष्पदप्रं वृष्टो देवः । अस्येति किम् । उपपदस्य मा भूत् । मूषिकाबिलप्रम् ॥
Tattvabodhini¶
वर्षप्रमाण ऊलोपश्चास्यान्यतरास्यम् - खात्वना । खनित्वेति ।उदितो वे॑ति वेट् ।
Padamanjari¶
गोष्पदपूरमिति । गोः पदं पूरयन्वृष्ट इत्यर्थः, वृषरेकर्मकत्वात्कर्तरि क्तः । अत्रापि’पूर्वकाले’ इति न सम्बन्धनीयमित्याहुः । सीतापूरमिति । सीताउलाङ्गलपद्धतिः । अस्यग्रहणं किमर्थमिति । सन्निधानादेव पूरयतेरूलोपो विज्ञास्यत इति प्रश्नः । उपपदस्य मा भूदिति । अस्येत्यनुच्यमाने वर्षप्रमाणवदूलोपोऽपि समुदायविषयो विज्ञायेत - प्रकृत्युपपदसमुदाये सन्निहितो य ऊकारस्तस्य लोप इति, ततश्चोपपदस्यापि स्यादिति भावः । ठूलोपश्चास्यान्यतरस्याम्ऽ इति शक्यमकर्तुम् । कथं गोष्पदप्रमिति ?’प्रापूरणे’ इत्यस्माद्धातोः ठातोऽनुपसर्गे कःऽ, क्रियाविशेषणत्वात्कर्मत्वनपुंसकत्वे, न रूपभेदः, नार्थभेदः, न स्वरभेदः । कप्रत्यये थाथादिसूत्रेणान्तोदातत्वम्; णमुल्यूलोपे कृते पूर्वस्य स्वरभाजोऽभावात्’लिति’ इत्यस्याप्रवृतौ प्रत्ययखरः, तस्य कृदुतरपदप्रकृतिस्वरेणावस्थानमित्यन्तोदातत्वमेव । ननु च णमुलि सति’कृन्मेजन्तः’ इत्यव्ययत्वाद्विभक्तीनां श्रवणं न भवति, तरपि च गोष्पदप्रतरपमिति भवति, कल्पबादौ च गोष्पदप्रकल्प इति भवति, अज्ञातादिषु चाव्ययत्वादकज्भवति, के तु सति सर्वमेतन्न सिद्ध्यति ? उच्यते; इष्यते तावद्विभक्तीनां श्रवणमेकेन गोष्पदप्रेणेति, तरबादिषु चोपन्यस्तानि रूपाणि नेष्यन्त एव । एतच्च भाष्ये ऊलोपप्रत्यख्यानादवसीयते । ननु च गोष्पदपूरमित्याद्यपि घञैव सिद्धम् ? न सिद्ध्यति, यदि तावत्करणे घञं विधाय तदन्तेन कर्मणि षष्ठयाः समासः क्रियते, ततस्थाथादिस्वरेणान्तोदातत्वं स्याद् । अथ भावे घञि व्यधिकरणपदो बहुव्रीहिः क्रियते - गोष्पदस्य पूरणमस्मिन्वर्ष इति, ततः पूर्वपदप्रकृतिखरप्रसङ्गः । गोष्पदपूरन्तराम्, गोष्पदपूरङ्कल्पमित्यादि च न सिद्ध्यति, तस्माद्’वर्षप्रमाणे’ इति वक्तव्यम् ॥
Nyaas¶
समुदायेन इति। प्रकृतिप्रत्ययोपपदसमुदायेन। एतेन वर्षप्रमाणस्य समुदायोपाधित्वं दर्शयति।अस्यग्रहणं किमर्थम् इति। प्रकृतत्वात् पूरयतेः, अस्येति वचनमन्तरेणापि तस्यैव लोपो विज्ञास्यत इत्यभिप्रायः। उपपदस्य मा भूत् इति। यद्यस्येति नोच्येत ततो यथा वर्षप्रमाणं समुदायोपाधिर्विज्ञायते, ऊलोपोऽपि तथा समुदायोपाधिर्विज्ञायेत। प्कृतिप्रत्ययोपपदस्य समुदायस्य य ऊकारान्तस्य लोपो भवतीति, ततश्चोपपदस्यापि स्यात्। तस्मात् मा भूदेष दोष इति अस्य इत्युच्यते॥
Prakriyasarvasvam¶
अस्मिन् द्योत्ये कर्मपूर्वात् पूरेर्णमुल् । ‘तस्य वा ऊलोपश्च स्यात् ॥ <karika>कूपप्रं वापिकापूरं वर्षति स्माद्य वारिदः । यावता पूयते कूपस्तावदित्यवगम्यते ॥ १७७ ॥</karika>
Sutra Prayogas¶
गोष्पदप्रं (भट्टिकाव्यम्): प्रमाणे इत्यादिना णमुल् ऊलोपश्च।