34021: समानकर्तृकयोः पूर्वकाले

Padacheda: समानकर्त्तृकयोः | S | 7 | 2 |

पूर्वकाले | S | 7 | 1 |

Sutrartha


Vasu English Summary

When two actions have the same agent, the affix क्त्वा comes after that verb which takes place in time anterior to that of the other (i.e. Absolutive in त्व refers to that action which precedes in time).

Vasu English Translation

When two actions have the same agent, the affix क्त्वा comes after that verb which takes place in time anterior to that of the other (i.e. Absolutive in त्व refers to that action which precedes in time). Thus भुक्त्वा व्रजति ‘having eaten he goes’; पीत्वा व्रजति ‘having drunk, he goes’.

The rule is not confined to the case of two verbs: thus, स्नात्वा, पीत्वा, भुक्त्वा, दत्वा व्रजति ‘having bathed, drunk, eaten and given, he goes’.

Why do we say ‘having the same agent’? When the agents are different, the gerund cannot be used, but the Locative Absolute construction will have to be used to express the same sense. Thus भुक्तवति ब्राह्मणो गच्छति देवदत्तः the ‘Brahmana having been fed, Devadatta goes’.

Why do we say ‘which denotes prior action’? For, if the actions are co-eval, the gerundial construction will not be employed. Thus व्रजति च जल्पति च ‘he goes and chatters’.

Vart:- The phrase आस्यं व्यादाय स्वपिति, सम्मील्य हसति ‘he sleeps, with his mouth open, and laughs with his mouth closed’, is valid, though the affix क्त्वा is not added to the verb denoting prior action.

Bhashya

समानकर्तृकयोः पूर्वकाले (1182) (597 क्त्वाप्रत्ययविधिसूत्रम्॥ 3 । 4 । 1 आदृ 8) (आक्षेपभाष्यम्) इह कस्मान्न भवति पूर्वे भूङ्क्ते पश्चाद् व्रजतीति॥ (समाधानभाष्यम्) स्वशब्देनोक्तत्वान्न भवति॥ (आक्षेपभाष्यम्) न तर्हीदानीमिदं भवति - पूर्वे भुक्त्वा ततो व्रजतीति। (समाधानभाष्यम्) नैतत् क्रियापौर्वकाल्यम्। किं तर्हि?। कर्तृपौर्वकाल्यमेतत्। पूर्वे ह्यसौ भुक्त्वान्येभ्यो भोक्तृभ्यः ततः पश्चाद् व्रजति अन्येभ्यो व्रजितृभ्यः। (आक्षेपभाष्यम्) इह कस्मान्न भवति। आस्यते भोक्तुमिति। कुतः कस्मान्न भवति?। किमासेः आहो स्विद् भुजेः॥ (आक्षेपभाष्यम्) भुजेः कस्मान्न भवति, (समाधानभाष्यम्) अपूर्वकालत्वात्। (आक्षेपभाष्यम्) आसेस्तर्हि कस्मान्न भवति। (समाधानभाष्यम्) यस्मादत्र लड् भवति। (आक्षेपभाष्यम्) एतदत्र प्रष्टव्यं लडत्र कथं भवतीति। (समाधानभाष्यम्) लट् चात्र वासरूपेण भविष्यति। (5034 आक्षेपवार्तिकम्॥ 1 ॥) - समानकर्तृकयोरिति बहुष्वप्राप्तिः (द्विवचननिर्देशात्)- (भाष्यम्) समानकर्तृकयोरिति बहुषु क्त्वा न प्राप्नोति। स्नात्वा भुक्त्वा पीत्वा व्रजतीति॥ किं पुनः कारणं न सिध्यति?। द्विवचननिर्देशात्। द्विवचनेनायं निर्देशः क्रियते। तेन द्वयोरेव पौर्वकाल्ये स्याद् बहूनां न स्यात्॥ (5035 समाधानवार्तिकम्॥ 2 ॥) - सिद्धं तु क्रियाप्रधानत्वात्- (भाष्यम्) सिद्धमेतत्। कथम्?। क्रियाप्रधानत्वात्। क्रियाप्रधानोयं निर्देशः। नात्र निर्देशस्तन्त्रम्॥ (प्रश्नभाष्यम्) कथं पुनस्तेनैव निर्देशः क्रियते तच्चातन्त्रं स्यात्। तत्कारी च भवान् तद्द्वेषी च॥ (उत्तरभाष्यम्) नान्तरीयकत्वादत्र द्विवचनेन निर्देशः क्रियते। अवश्यं कयाचिद्विभक्त्या केनचिद्वचनेन निर्देशः कर्तव्यः। तद्यथा - कश्चिदन्नार्थीशालिकलापं सतुषं सपलालमाहरति नान्तरीयकत्वात्, स यावदादेयं तावदादाय तुषपालालान्युत्सृजति। तथा - कश्चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकानाहरति नान्तरीयकत्वात्स यावदादेयं तावदादाय शकलकण्टकान्युत्सृजति। एमिहापि नान्तरीयकत्वाद् द्विवचनेन निर्देशः क्रियते। न ह्यत्र निर्देशस्तन्त्रम्॥ (समाधानबाधकभाष्यम्) एवमपि लोकविज्ञानान्न सिध्यति। तद्यथा - लोके ब्राह्मणानां पूर्व आनीयतामित्युक्ते सर्वपूर्व आनीयते एवमिहापि सर्वपूर्वायाः क्रियायाः प्राप्नोति॥ (5063 समाधानवार्तिकम्॥ 3 ॥) - अनन्त्यवचनात्तु सिद्धम्- (भाष्यम्) समानकर्तृकयोरनन्त्यस्येति वक्तव्यम्- (आक्षेपभाष्यम्) सिध्यति सूत्रं तर्हि भिद्यते॥ (समाधानभाष्यम्) यथान्यासमेवास्तु। (दूषणस्मारणभाष्यम्) ननु चोक्तं समानकर्तृकयोरिति बहुष्वप्राप्तिः इति। (परिहारस्मारणभाष्यम्) परिहृतमेतत् - सिद्धं तु क्रियाप्रधानत्वाद् इति॥ (परिहारासंभावभाष्यम्) नैष दोषः। सर्वेषामत्र व्रजिक्रियां प्रति पौर्वकाल्यम्। स्नात्वा व्रजति भुक्त्वा व्रजति पीत्वा व्रजतीति। एवं च कृत्वा प्रयोगोऽप्यनियतो भवति। स्नात्वा भुक्त्वा पीत्वा व्रजति। पीत्वा भुक्त्वा स्नात्वा व्रजति॥ (5037 आक्षेपवार्तिकम्॥4 ॥) - व्यादाय स्वपितीत्युपसंख्यानमपूर्वकालत्वात्- (भाष्यम्) व्यादाय स्वपितीत्युपसंख्यानं कर्तव्यम्। किं पुनः कारणं न सिध्यति। अपूर्वकालत्वात्। पूर्वे ह्यसौ स्वपिति पश्चाद्व्याददाति। (5038 समाधानवार्तिकम्॥5 ॥) - न वा स्वप्नस्यापरकलात्वात्- (भाष्यम्) न वा वक्तव्यम्। किं कारणम्। स्वप्नस्यापरकालत्वात्। अपरकालः स्वप्नः अवश्यमसौ व्यादाय मुहूर्तमपि स्वपिति॥ समानकर्तृक॥ 21 ॥

Kashika

समानः कर्ता ययोर्धात्वर्थयोस्तत्र पूर्वकाले धात्वर्थे वर्तमानाद् धातोः क्त्वाप्रत्ययो भवति। शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वात् समानकर्तृकता। भुक्त्वा व्रजति। पीत्वा व्रजति। द्विवचनमतन्त्रम्। स्नात्वा पीत्वा भुक्त्वा दत्त्वा व्रजति। समानकर्तृकयोरिति किम्? भुक्तवति ब्राह्मणे व्रजति देवदत्तः। पूर्वकाल इति किम्? व्रजति च जल्पति च॥ आस्यं व्यादाय स्वपिति चक्षुः संमील्य हसतीत्युपसंख्यानम्, अपूर्वकालत्वात्॥

Siddhanta Kaumudi

समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । क्त्वा तु अव्ययकृतो भावे । भुक्त्वा व्रजति । द्वित्वमतन्त्रम् । स्नात्वा भुक्त्वा पीत्वा व्रजति । अनुदात्त-(SK2428) इत्यनुनासिकलोपः । विष्णुं नत्वा स्तौति । स्वरत्यादेः श्र्युकः किति (SK2381) इति नित्यमिडभावः पूर्वविप्रतिषेधेन । स्वृत्वा । सूत्वा । धूत्वा ॥

Laghu Siddhanta Kaumudi

समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात्। भुक्त्वा व्रजति। द्वित्वमतन्त्रम्। भुक्त्वा पीत्वा व्रजति॥

Tattvabodhini

समानकर्तृकयोः पूर्वकाले - समानकर्तृक । इह धात्वधिकारेऽपि समानकर्तृकत्वं क्रिययोरेव सम्भवतीत्याशयेनाह — धात्वर्थयोरिति । निर्धारणे षष्ठी सप्तमी वा । धात्वर्थयोर्मध्ये पूर्वः कालो यस्य धात्वर्थस्य तस्मिन्विद्यमानादित्यर्थः । एवं च निर्धारणविभक्तिरेव पूर्वकाल इत्यस्य बहुव्रीहित्वद्योतिकेति फलितम् । क्त्वा स्यादिति । स च भावे,अव्ययकृत॑ इति वचनात् । भावोऽपि घञादाविव नेह सिद्धावस्थः, किन्तु साद्यावस्थः । स च धातुनैव लब्धः । क्वाप्रकृत्यर्थभूता क्रिया च क्रियान्तरं प्रति विशेषणं, धातुसंबन्धादिकारात् । संसर्गश्चेह सामानाधिकरण्यं , पूर्वोत्तरकालत्वं च । नत्र संसर्गविशेषतात्पर्यग्राहकः क्त्वाणमुलादयः । अत्र चसमानकर्तृकयो॑रिति सूत्रांशेन सामानाधिकरण्यमुपनिबद्धम्, दातूपात्तव्यापराश्रयस्य कर्तृतया तथा पर्यवसानादिति दिक् । द्वित्वमिति । नन्वमीषां ब्राआहृणानां पूर्वमानयेत्युक्ते मध्यमो नानायीते, तथेहापि बहुक्रियासमभिव्याहारे मध्यमक्रियावाचकात् क्त्वाप्रत्ययो न स्यादिति चेदत्राहुः — इहाप्याख्यातवाच्या क्रिया प्रधानं,तां प्राति क्त्वान्तोपस्थिताः क्रियाः सर्वा एव विशेषणं, न तु तासां परस्परसंबन्धः,गुणानां च परार्थत्वा॑दित न्यायात् । अतएव स्नात्वा पीत्वा भुक्त्वा व्रजतीत्याद्यनियमेन प्रयुज्यत इति ।स्वरतिसूती॑ त्यादिना विकल्पे प्राप्ते नित्यार्थमाह — स्वरत्यादेरिति ।

Padamanjari

क्रियापेक्षत्वात्कर्तृभावस्य धात्वधिकारेऽपि तदर्थस्यैव समानर्क्तृकत्वं विज्ञायते, न धातोरित्याह - समानः कर्ता ययोर्धात्वर्थयोरिति । कमानशब्दोऽयमेकवाची, तत्रेति निर्द्धारणे सप्तमीं दर्शयति । षष्ठ।लमपि न दोषः । सप्तमी त्वाश्रिता । पूर्वकाले धात्वर्थे वर्तमानादिति । प्राभाकरास्तु पूर्वप्रयुज्यमानादिति व्याचक्षते, अनुष्ठाने पौर्वकाल्यं नाद्रियन्ते; तद्भाष्यवार्तिकविरोधादुपेक्ष्यम् । उक्तं हि - आस्यं व्यादाय स्वपिति संमील्य हसतीत्युपसंख्यानमपूर्वकालत्वादिति । ननु च शक्तिः कारकम्, सा च प्रतिक्रियं भिद्यते, तत्कुतः समानकर्तृकत्वम् ? इत्यत आह - शक्तिशक्तिमतोरिति । इह समानकर्तृकयोरिति द्विवचननिर्देशः क्रियते, तेन द्वयोरेव पौर्वकाल्ये स्यात्, बहूनांन स्यात्, तत्राह - द्विवचनमतन्त्रमिति । अवश्यं येन केनचिद्ववचनेन निर्देशः कर्तव्यः, तत्र समानकर्तृकत्वस्य पूर्वकालत्वस्य च भेदाधिष्ठानत्वाद्भेदनिबन्धनयोर्व्दिवचनबहुवचनयोः प्रथमभावित्वाद् द्विवचनं प्रयुक्तम्, न त्वैततन्त्रमित्यर्थः । एवमपि लोकविज्ञानान्न सिद्ध्यति, तद्यथा लोके - अमीषां ब्राह्मणाअनां पूर्व आनीयताम् इत्युक्ते सर्वपूर्व एवानीयते, एवमिहापि सर्वपूर्वायाः क्रियायाः प्राप्नोति, तस्मादेवं वक्तव्यम् - सर्वेषामेवात्र व्रजि प्रति पौर्वकाल्यम्, स्नात्वा व्रजति भुक्त्वा व्रजति पीत्वा व्रजतीति । आख्यातवाच्या हि क्रिया विशेष्यत्कात्प्रधानम्, तेन तां प्रति सर्वासां विशेषणत्वात्परस्परेणासम्बन्धः, तदुक्तम् -‘गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्’ इति । एवं च कृत्वा प्रयोगोऽप्यनियतो भवति - स्नात्वा भुक्त्वा पीत्वा व्रजति, पीत्वा स्नात्वा भुक्त्वा व्रजतीति । भुक्तवति ब्राह्मण इति । ननु तुमर्थाधिकाराद्भावे क्त्वाप्रत्ययः, क्तवतुस्तु कर्तरि ? एवं तर्ह्यस्मिन्विषये भावे न भवतीति प्रत्युदाहरणत्वं वाच्यम्,’श्रीशैलशिखरं दृष्ट्वा सर्वपापैः प्रमुच्यते’ इत्येवमादीनां कर्तृभेदविषयाणां प्रयोगाणामसाधुत्वमेव । व्रजति जल्पति चेति । यौगपद्यादिह पूर्वकालता नास्ति । अपूर्वकालत्वादि । पूर्वं ह्यसौ स्वपिति पश्चाद्व्याददाति, यदैव हसति तदैव संमीलयति, न वा स्वप्नस्यापरकालत्वात्, अस्यं त्वसौ व्यादाय मुहूर्तमपि स्वपिति संमील्य च हसति, ततश्चोतरकालभाविस्त्वापहासाद्यपेक्षं पौर्वकाल्यं तदाश्रयश्च प्रत्ययः । इह कस्मान्न भवति - पूर्वं भुङ्क्ते, ततो व्रजतीति ? स्वशब्देनोक्तत्वात् ।’विभाषाग्रे’ इत्यनेनापि न भवति, किं कारणम् ? साधनपौर्वाकाल्यविषयाणामग्र्यादीनां तत्र ग्रहणम्, अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वा ततो व्रजतीति । इह तु व्रज्यपेक्षं भोजनस्य यत्पौर्वकाल्यं तत्र क्त्वाप्रत्ययश्चोद्यते, तत्पूर्वशब्देनोक्तम् । न च वचनसामर्थ्यादुक्तेऽपि प्रसङ्गः; साधनपौर्वकाल्यविषयेऽग्र्यादावुपपदे चरिताथेत्वात् । क्रियाविषयत्वाच्च कालव्यवहारस्य तद्द्वारकमेव साधनपौर्वकाल्यं द्रष्टव्यम् । उक्तं हि - क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका । इति । इहास्यते भोक्तुमिति वासरूपेण लड् भवति, यदा आसेः क्त्वा भवति तदा भुजेर्लडादय एव भवन्ति - आसित्वा भुङ्क्त इति, न तु तुमुन् ; अनभिधानात् । आसित्वा भोक्तुमित्युक्ते प्रक्रमत इत्यादीनां सम्बन्धः प्रतीयते ॥

Nyaas

धात्वधिकाराद्धात्वर्थस्यैव समानकर्त्तृकत्वं विज्ञायत इत्याह - समानः कर्ता ययोर्धात्वर्थयोःट इत्यादि। निर्धारणे चेयं षष्ठी। समानशब्दश्चायमेकवाची। ननु शक्ति कारकम्, अन्या च पूर्वकालक्रियायाः, तत्कुतः समानकर्त्तृकत्वं विज्ञायते? इत्याह - `शक्तिशक्तिमतोः इत्यादि। शक्तिः शक्तिमाँश्च शक्तिशक्तिमन्तौ। यश्च शक्त्याधारो या च शक्तिस्तयोरिह भेदो न विवक्षितः। तेन शक्त्याधार एक एव देवदत्तः कर्ता, स चोभयोरपि क्रिययोरेक एवेति युक्तं समानकर्त्तृकत्वम्। पीत्वा इति। पूर्ववदीत्वम्। इह समानकर्त्तृकयोः इति द्विर्वचनेन निर्देशः कृतः तेन द्वे एव क्रिये प्रत्युपस्थास्येते, न बह्व्यः, ततश्च द्वयोरेव क्रिययोः प्रत्युपस्थापितयोः स्यात्, न बह्वीषु? इत्याह - द्विवचनम् इत्यादि। क्रियाप्रधानत्वादस्य निर्देशस्य। नात्र द्विवचनं प्रधानम्; नान्तरीयकत्वात्। तेन द्विवचनेन निर्देशः कृतः। अवश्यं येन केनचिद्वचनेन निर्देशः कर्तव्यः, तस्मादतन्त्रत्वाद्द्विवचनस्य, बह्वीष्वपि क्रियासु भवत्येव।भुक्तवति ब्राआहृणे व्रजति सिति। अत्र भुजिक्रियाया ब्राआहृणः कर्ता, व्रजतिक्रियायास्तु देवदत्त इति समानकर्त्तृकत्वाभावः। व्रजति जल्पति च इति। यौगपद्यादिह क्रियायाः पूर्वकालता नास्ति।व्यादाय इति। ददातेव्र्याङपूर्वस्य रूपम्। सम्मील्य इति। मील स्मील क्ष्मील निमेषणे (धातुपाठः-517,519,520) इत्यस्य सम्पूर्वस्य हेतुमण्ण्यन्तस्य। किं पुनः कारणं न सिध्यीत्याह - `अपूर्वकालत्वात्ुपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - पूर्वयोगाच्चकायोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन मुखं व्यादाय स्वपितीत्यादौ पूर्वकालत्वाभावेऽपि भविष्यतीति॥

Prakriyasarvasvam

एककर्तृकयोः क्रिययोः पूर्वकालक्रियायां क्त्वा स्यात् । भुक्त्वा व्रजति कृष्णः । अव्ययकृत्त्वेन भावार्थत्वाद् भोजनेऽतीते व्रजतीत्यर्थः । भिन्नकर्तृके न । कृष्णेन भुक्ते रामो व्रजति । क्रियाबहुत्वेऽपि स्यात् । स्नात्वा भुक्त्वा भूषित्वा व्रजति ॥

Sutra Prayogas

  • व्याधं व्याधम (भट्टिकाव्यम्): समानकर्तृकयोः पूर्वकाले इति वर्तते।