33103: गुरोश्च हलः¶
Padacheda: गुरोः | S | 5 | 1 |
च | S | 0 | 0 |
हलः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अ comes after a verb which has a prosodially heavy vowel and ends in a consonant when the word to be formed is feminine.
Vasu English Translation¶
The affix अ comes after a verb which has a prosodially heavy vowel and ends in a consonant when the word to be formed is feminine. This debars क्तिन् । Thus कुण्डा ‘an adulteress’; हुण्डा ‘a tigress’; ईहा ‘effort’; उहा ‘supplying an ellipsis’.
Why do we say ‘which has a prosodially heavy vowel’? Observe भक्ति devotion’. Why do we say ‘which ends in a consonant’? Observe नीति ‘polity’.
Kashika¶
हलन्तो यो धातुर्गुरुमान्, ततः स्त्रियामकारः प्रत्ययो भवति। क्तिनोऽपवादः। कुण्डा। हुण्डा। ईहा। ऊहा। गुरोरिति किम्? भक्तिः। हल इति किम्? नीतिः॥
Siddhanta Kaumudi¶
गुरुमतो हलन्तात् स्त्रियामकारः स्यात् । ईहा । ऊहा । गुरोः किम् । भक्तिः । हलः किम् । नीतिः ॥<!निष्ठायां सेट इति वक्तव्यम् !> (वार्तिकम्) ॥ नेह । आप्तिः । तितुत्र-(SK3163) इति नेट् । दीप्तिः ॥<!तितुत्रेष्वग्रहादीनामिति वाच्यम् !> (वार्तिकम्) ॥ निगृहीतिः । निपठितिः ॥
Laghu Siddhanta Kaumudi¶
गुरुमतो हलन्तात्स्त्रियामकारः प्रत्ययः स्यात्। ईहा॥
Tattvabodhini¶
गुरोश्च हलः - गुरोश्च । धातोरित्यनुत्यवृत्त्या हल इति धातोर्विशेषणात्तदन्तविधौ हलन्तो धातुर्लभ्यते । न चाऽयं गुरुरिति संभवति । अज्विषयो हि गुरुः, अतो मत्वर्थो लक्ष्यते । तदाह — गुरुमत इति । ननु विपरीतमस्तुगुर्वन्ताद्धल॑ इति, तादृशस्यापि धातोर्डुक्रीञित्यादेः सत्त्वादिति चेन्मैवम् ।चेष्टायामनध्वनि॑आशंसायां भूतवच्चे॑ति निर्देशेन विपरीतशङ्काया अप्रवृत्तेः ।
Padamanjari¶
प्रकृतस्य धातोर्हला विशेषणातदन्तविधिरित्याह - हलन्तो यो धातुरिति । अज्विशेषवाचिनो गुरुशब्दस्य हलन्ते धातौ न मुख्या वृत्तिः सम्भवतीति तद्वति तच्छब्दो विज्ञायत इत्याह - गुरुमानिति । विपर्ययस्तु न न भवति - गुर्वन्तो यो धातुर्हल्वानिति;’चेष्टायामनध्वनि’ ठाशंसायां भूतवच्चऽ इति निर्देशात् । कुण्डा, हुण्डेति ।’कुडि दाहे’ ,’हुडि संघाते’ ॥
Nyaas¶
धातोः (3.1.91) इत्यधिकाराद्गुरुग्रहणं हल्ग्रहणं च तस्यैव विशेषणं विज्ञायत इत्याह - `गुरुमान् हलन्तो यो धातुः इत्यादि। कथं पुनर्गुरोरित्युच्यमाने गुरुमान् धातुर्लभ्यते? सामर्थ्यात्। न हि हलन्तस्य धातोः कस्यचिद्गुरुसंज्ञा विहिता, उच्यते चेदं गुरोरिति, तत्र सामर्थ्याद्गुरुमान् धातुर्गुरुसंज्ञाकेनाभेदोपचारं कृत्वा गुरुशब्देनोक्त इति गम्यते। इष्यते ह्रभेदोपचाराद्विनापि मतुपा तद्वतोरभिधाम् - यथा - शुक्लः पट इति। अथ रुधादिभ्य एव यथा स्यात्, कुडिप्रभृतीभ्यो मा भूदित्येवमर्थो विपर्ययः कस्मान्न विज्ञायते गुर्वन्तो यो धातुर्हल्वान् इति? ज्ञापकात्, यदयं गत्यर्थकर्मणि द्वितीयाचतुथ्र्यौ चेष्टायामनध्वनि (2.3.12) इत्यप्रत्ययान्तस्य चेष्टाशब्दस्य शकि शङ्गायाम् (धातुपाठः-86) इति च शङ्काशब्दस्य निर्देशं करोति, ततो ज्ञायते - नात्र विपर्यय इति। विपर्यये हि न हि चेष्टेति गुर्वन्तः, नापि शङ्केति। कुण्डा इत्यादि। कुडि दाहे (धातुपाठः-270), हुडि सङ्घाते (धातुपाठः-269), ईह चेष्टायाम् (धातुपाठः-632) ऊह वितर्के (धातुपाठः-648) - इत्येषां रूपाणि॥
Prakriyasarvasvam¶
हलन्ताद् गुरुमतो धातोः अः स्यात् । स्पर्धा । ईक्षा । स्त्रीत्वाविवक्षया घञपीति वामनाद्याः । बाध बाधः । ऊहा ऊहः । आबादिभ्यो निष्ठायामनिड्भ्यः क्तिन् वाच्यः । आप्तिः । दीप्तिः । पूरी, पूतिः । शास इत् । शिष्टिः । नलोपः । स्रस्तिः । ध्वस्तिः । प्रशस्तिः । ‘प्रशंसावचनैश्च’ (२-१-६६) इत्युक्तेः प्रशंसापि । ‘चायेः क्तिनि नित्यं चिभावो वाच्यः’ । अपचितिः । एते व्याप्तौ दीप्त इति निष्ठायामनिट एव । राजभ्राजोस्तु बाहुलकात् क्तिनि व्रश्यादिषः । राष्टिः । भ्राष्टिः ।।
Vartika¶
निष्ठायां सेट इति वक्तव्यम् ।
Sutra Prayogas¶
अर्हाम् (किरातार्जुनीयम्): गुरोश्च हलः इत्यकार प्रत्ययः।
व्रीडम् (शिशुपालवधम्): गुरोश्च हलः इति स्त्रियामप्रत्ययः।
ह्रेषया (शिशुपालवधम्): गुरोश्च हलः इत्यप्रत्यये टाप्।
ख-धूपान् (भट्टिकाव्यम्): गुरोश्च हलः इति अकारः ।
भर्म (भट्टिकाव्यम्): गुरोश्च हलः इत्यकारः।
शिञ्जम् (भट्टिकाव्यम्): गुरोश्च हलः इत्याकारप्रत्ययः।
ईहास्वनिशमादरात् (भट्टिकाव्यम्): गुरोश्च इति अकारः।
जृम्भा-वान् (भट्टिकाव्यम्): गुरोश्च हलः इत्यकारः।