33069: समुदोरजः पशुषु

Padacheda: सम्-उदोः | S | 7 | 2 |

अजः | S | 5 | 1 |

पशुषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

The affix अप् comes after the verb अज् ‘to go’ when the preposition सम् and उत् are in composition and the word so formed refers to beasts.

Vasu English Translation

The affix अप् comes after the verb अज् ‘to go’ when the preposition सम् and उत् are in composition and the word so formed refers to beasts. This debars घञ्. The root अज ‘means to go, to throw’. When preceded by सम्, it means ‘a collection’; and preceded by उत् it means ‘driving’. As समजः पशूनां ‘a herd of cattle’; उदजः पशूनां ‘driving forth of cattle’.

Why do we say ‘when applying to cattle’? Observe समाजो ब्राह्मणानां, उदाजः क्षत्रियाणां ।

Kashika

समुदोरुपपदयोरजतेर्धातोः पशुविषये धात्वर्थेऽप् प्रत्ययो भवति। घञोऽपवादः। अज गतिक्षेपणयोः इति पठ्यते। स संपूर्वः समुदाये वर्तते, उत्पूर्वश्च प्रेरणे। समजः पशूनाम्। समुदाय इत्यर्थः। उदजः पशूनाम्। प्रेरणमित्यर्थः। पशुष्विति किम्? समाजो ब्राह्मणानाम्। उदाजः क्षत्रियाणाम्॥

Siddhanta Kaumudi

संपूर्वोऽजिः समुदाये उत्पूर्वञ्च प्रेरणे तस्मात्पशुविषयकादप् स्यात् । अघञपोरित्युक्तेर्वीभावो न । समजः पशूनां सङ्घः । उदजः पशूनां प्रेरणम् । पशुषु किम् । समाजो ब्राह्मणानाम् । उदजः क्षत्रियाणाम् ॥

Prakriyasarvasvam

<karika>समुत्पूर्वादजेरप् स्याद् वाच्यं चेत् पशुगोचरम् । समजः स्याद् गवां सङ्घ उदजः प्रेरणं गवाम् ॥ १५४ ॥</karika> अन्यत्र समाजः सताम्, उदाजः काकानाम् । अघञपोरित्युक्त्याजेर्वीत्वाभावः ॥

Sutra Prayogas

  • समजेन (भट्टिकाव्यम्): समुदोरजः पशुषु इत्यप्।