33045: आक्रोशेऽवन्योर्ग्रहः

Padacheda: आक्रोशे | S | 7 | 1 |

अव-न्योः | S | 7 | 2 |

ग्रहः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix घञ् comes after the root ग्रह् ‘to seize’ in composition with अव and नि when malediction is meant.

Vasu English Translation

The affix घञ् comes after the root ग्रह् ‘to seize’ in composition with अव and नि when malediction is meant. Though इनुण् is immediately, near, we take the anuvritti of घञ् (3.3.16), because we see that its anuvritti is possible.

The word आक्रोश means ‘cursing’. As अवग्राहो हन्त ते वृषलभूयात् ‘cursed be thou, O! sinner’. So also निग्राहस्ते भूयात् ।

Why ‘when meaning cursing’? Observe अवग्रहः पदस्य; निग्रहश्चोरस्य ।

Kashika

दृष्टानुवृत्तिसामर्थ्याद् घञनुवर्तते, नानन्तर इनुण्। अव नि इत्येतयोरुपपदयोर्ग्रहेर्धातोर्घञ् प्रत्ययो भवत्याक्रोशे गम्यमाने। आक्रोशः शपनम्। अवग्राहो हन्त ते वृषल भूयात्। निग्राहो हन्त ते वृषल भूयात्। आक्रोश इति किम्? अवग्रहः पदस्य। निग्रहश्चोरस्य॥

Siddhanta Kaumudi

अव नि एतयोर्ग्रहेर्घञ् स्यात् शापे । अवग्राहस्ते भूयात् । अभिभव इत्यर्थः । निग्राहस्ते भूयात् । बाध इत्यर्थः । आक्रोशे किम् । अवग्रहः पदस्य । निग्रहश्चोरस्य ॥

Tattvabodhini

आक्रोशेऽवन्योर्ग्रहः - आक्रोशे ।ग्रहवृदृ॑ इति — अपि प्राप्तेऽयमारम्भः । अवग्रहः पदस्येति । छेदविशेष इत्यर्थः । निग्रहो — निरोधः ।

Padamanjari

‘ग्रहवृदृनिश्चिगमश्च’ इत्यापि प्राप्तेऽयमारम्भः । दृष्टानुवृत्तिसामर्थ्यादिति । दृष्टमनुवृत्तिसामर्थ्यं यस्येति बहुव्रीहौ’द्व्येकयोः’ इतिवद्भावप्रत्ययमन्तरेणापि भावप्रधानो निर्देशो दृष्टानुवृत्तिसामर्थ्यत्वादित्यर्थः । यद्वा - अनुवृतौ सामर्त्यमनुवृत्तिसामर्थ्यम्, ततो दृष्टशब्देन कर्मधारयः । आक्रोशः शपनमिति । न क्षेपः, स्वभावतो घञन्तस्य शपनविषयत्वात् । शपनमुअनिष्टाशंसनम् । अवग्रहःउअभिभवः । निग्रहःउबाधः । हन्तशब्दः कोपं द्योतयति । अवग्रहःउपदस्य छेदः । निग्रहः निरोधः ॥

Nyaas

` ग्रहवृदृ` (3.3.58) इत्यादिना प्राप्ते वचनम्। दृष्टानुवृत्तिसाम्थ्र्यात् इति। प्रयोगोपस्थानेन घञोऽनुवृत्तिसामर्थ्य दृष्टम्, इनुणस्तु कल्पयितव्यम्। दृष्टसामर्थ्ययोश्च सन्निधौ दृष्टसामर्थ्यदग्रहणं न्याय्यम्। अतो घञेवानुवर्तत इत्येके। एवं तु ग्रहवृदृ (3.3.58) इत्यादावपि सूत्रे घञेवानुवर्तते, नाप्। तस्मादन्यथा व्याख्यायते - दृष्टमनुवृत्तिसामर्थ्यमधिकृतस्य यत्र तद्दृष्टानुवृत्तिसामर्थ्यम्, तत्र पुनः स्वरितत्वम्। ततो हि शास्त्रेऽधिकृतस्य शब्दस्यानुवृत्तौ सामर्थ्ये दृश्यते। तदेतदुक्तं भवति - घञ एव स्वरितत्वं प्रतिज्ञायते, नेनुणः। तस्मात् स्वरितत्वाद्घञेवानुवर्तते, नेनुणिति॥

Prakriyasarvasvam

अवनिपूर्वाद् ग्रहेः शापे द्योत्ये घञ् । अवग्राहो निग्राहश्चास्तु शत्रोः । अभिभवो वधश्चेत्यर्थः । आक्षेपमात्रे प्राह भट्टिः ॥

Sutra Prayogas

  • निग्राहो (भट्टिकाव्यम्): आक्रोशे ऽवन्योर्ग्रहः इति घञ्।