33042: संघे चानौत्तराधर्ये

Padacheda: संघे | S | 7 | 1 |

च | S | 0 | 0 |

अनौत्तराधर्ये | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix घञ् comes after the roots चि ‘to collect’ and क is the substitute of the initial च in the sense of ‘a multitude or assembly’ (of living beings possessing some common characteristics) but not merely a confused crowd of men.

Vasu English Translation

The affix घञ् comes after the roots चि ‘to collect’ and क is the substitute of the initial च in the sense of ‘a multitude or assembly’ (of living beings possessing some common characteristics) but not merely a confused crowd of men. The word सङ्घ means a collection or assembly of living beings. It is of two sorts:- either by collection of persons possessing common qualifications, or a mere confused crowd of men. The collection denoting a confused crowd is here excepted and by paryudasa negation the other is taken. Thus भिक्षुकनिकायः ‘the assembly of beggars’; ब्राह्मणनिकायः ‘the assembly of Brahmanas’; वैयाकरणनिकायाः ‘the assembly of Grammarians’.

But सूकरनिचयः ‘a herd of hogs’; because it is a mere collection. So also कृताकृतसमुच्चयः ‘the collection of what is done and not done’; प्रमाणसमुच्चयः ‘the collection of proofs’. Here there is no सङ्घ in either of the two senses, it not being a collection of living animals, the affix ghan is not employed.

Kashika

चेरित्येव। प्राणिनां समुदायः संघः। स च द्वाभ्यां प्रकाराभ्यां भवति। एकधर्मसमावेशेन, औत्तराधर्येण वा। तत्र औत्तराधर्यपर्युदासादितरो गृह्यते। संघे वाच्ये चिनोतेर्धातोर्घञ् प्रत्ययो भवति, आदेश्च कः। भिक्षुकनिकायः। ब्राह्मणनिकायः। वैयाकरणनिकायः। अनौत्तराधर्य इति किम्? सूकरनिचयः। प्राणिविषयत्वात् संघस्येह न भवति। कृताकृतसमुच्चयः। प्रमाणसमुच्चयः॥

Siddhanta Kaumudi

चेर्घञ् आदेश्च कः । भिक्षुनिकायः । प्राणिनां समूहः सङ्घः । अनौत्तराधर्ये किम् । सूकरनिचयः । सङ्घे किम् । ज्ञानकर्मसमुच्चयः ॥

Tattvabodhini

संघे चानौत्तराधर्ये - सङ्घे चानौत्तराधर्ये । उत्तरे चाधरे चोत्तराधरास्तेषां भाव औत्तराधर्यम् । सूकरेति । स्तनपानार्थंमुत्तराधरभावेन सूकराः शेरते तदैतत्प्रत्युदाहरणम् । यदा तु भिक्षुवत्पृथक्पृथगेवावतिष्ठन्ते तदेहापि घञ् ।

Padamanjari

प्राणिनां समुदायः सङ्घ इति ।’सङ्गोद्घौ गणप्रशंसयोः’ इति गणमात्रे निपातितोऽपि सङ्घशब्दः प्राणिनामेव समुदाये रूढ इति भावः । एकधर्मसमावेशेनेति । एकधर्मोऽनुगतः । औतराधर्येणेति । उतरे चाधरे चोतराधराः, तेषां भाव औतराधर्यम् । सूकरनिचय इति । स्तनपानाय यदोतराधरभावेन शेरते तदेदं प्रत्युदाहरणम्, यदा तु भिक्षुवत्पृथक्पृथगेव तिष्ठन्ति, तदेदमुदाहरणमेव भवति ॥

Nyaas

एकधर्मनिवेशेन इति। एकधर्मानुगमनेनेत्यर्थः॥

Prakriyasarvasvam

उत्तराधरभावरहितानामेकरूपाणां सङ्घे वाच्ये चेर्घञ् आदेः कश्च स्यात् । शाब्दिकनिकायः । बहुविधत्वे सूकरनिचयः ॥

Sutra Prayogas

  • प्रचयेषु (भट्टिकाव्यम्): सङ्घे चानौत्तराधर्ये इति घञकौ न भवतः प्राणिषु।

  • शत्रु-निकायानां (भट्टिकाव्यम्): संघे चानौत्तराधर्ये इति कर्मणि घञ् आदेश्च ककारः।

  • निकायाः (भट्टिकाव्यम्): संघे चानौत्तराधर्ये इति चिनोतेः घञ् ककारश्चादेशः।