33026: अवोदोर्नियः¶
Padacheda: अव-उदोः | S | 7 | 2 |
नियः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix घञ् comes after the verb नी ‘to lead’ when the prepositions अव and उत् are in composition.
Vasu English Translation¶
The affix घञ् comes after the verb नी ‘to lead’ when the prepositions अव and उत् are in composition. As अवनायः ‘throwing down’; उन्नायः ‘elevation’.
How do you explain उन्नयः in उन्नयः पदार्थानाम् ? Here the affix is ‘ach’ by (3.3.113).
Kashika¶
अव उद् इत्येतयोरुपपदयोर्नयतेर्धातोर्घञ् प्रत्ययो भवति। अवनायः। उन्नायः। कथमुन्नयः पदार्थानाम्? कृत्यल्युटो बहुलम् (३.३.११३) इत्यज् भविष्यति॥
Siddhanta Kaumudi¶
अवनायः अधो नयनम् । उन्नायः ऊर्ध्वनयनम् । कथमुन्नयः उत्प्रेक्षेति । बाहुलकात् ॥
Padamanjari¶
अधो नयनमवनायः, ऊर्ध्वं नयनमुन्नायः, उन्नयस्तु उत्प्रेक्षा ॥
Nyaas¶
उन्नायः इति। यरोऽनुनासिकेऽनुनासिको वा (8.4.45) इति वाऽनुनासिकः। कथमुन्नयः पदार्थानाम् इति। उच्छब्दोपपदत्वाद्धञात्र भवितव्यमित्यभिप्रायः॥
Prakriyasarvasvam¶
अवनायः । उन्नायः । उन्नयश्च बाहुलकात् ॥
Sutra Prayogas¶
उन्नायान् (भट्टिकाव्यम्): अवोदोर्नियः इति भावे घञ् ।