33016: पदरुजविशस्पृशो घञ्

Padacheda: पद-रुज-विश-स्पृशः | S | 5 | 1 |

घञ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix घञ् comes after the roots 1. पद् ‘to pace’ 2. रुज् ‘to pain 3. विश् ‘to enter’ 4. स्पृश् ‘to touch’.

Vasu English Translation

The affix घञ् comes after the roots 1. पद् ‘to pace’ 2. रुज् ‘to pain 3. विश् ‘to enter’ 4. स्पृश् ‘to touch’. The anuvritti of ‘future’ does not extend to this sutra. The affixes hereinafter taught come in all the tenses.

As पद + घञ् = पादः ‘foot’; रुज् + घञ् = रोगः ‘disease’; so, वेशः ‘entrance’.

Vart:- The verb स्पृश् takes घञ् when the sense is that of ‘distress’; as स्पर्शः ‘disease’ or ‘warmth’. The word स्पर्श meaning ‘touch’ is formed by adding the affix अच्, under rule (3.1.134); as स्पर्शो देवदत्तः । There is difference in accent between these two words.

Bhashya

पदरुजविशस्पृशो घञ्ञ् (999) (542 घञ्ञ्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 आ.11) (4011 वार्तिकम्॥ 1 ॥) - स्पृश उपतापे- (भाष्यम्) स्पृश उपतापे इति वक्तव्यम्। इह मा भूत् - कम्बलस्पर्श इति पदरु॥ 16 ॥

Kashika

भविष्यतीति निवृत्तम्। इत उत्तरं त्रिष्वपि कालेषु प्रत्ययाः। पदादिभ्यो धातुभ्यो घञ् प्रत्ययो भवति। पद्यतेऽसौ पादः। रुजत्यसौ रोगः। विशत्यसौ वेशः॥ स्पृश उपताप इति वक्तव्यम्॥ स्पृशतीति स्पर्श उपतापः। ततोऽन्यत्र पचाद्यच् भवति। स्प॒र्शो देवदत्तः। स्वरे विशेषः॥

Siddhanta Kaumudi

भविष्यतीति निवृत्तम् । पद्यतेऽसौ पादः । रुजतीति रोगः । विशतीति वेशः । स्पृशतीति स्पर्शः ॥

Tattvabodhini

पदरुजविशस्पृशो घञ् - पदरुज । पद्यतेऽसाविति । करणस्य कर्तृविवक्षाऽत्र बोध्या । पद्यते गच्छति येनेति फलितोऽर्थः ।

Padamanjari

पद्यतेऽसाविति । करणस्यात्र कर्तृत्वेन विवक्षा । पदमित्येततु’खनो घ च’ इत्यत्र साधयिष्यते । रोग इति ।’चजोः कु घिण्ण्यतोः’ इति कुत्वम् । स्पृश उपतापे इति । उपतापःउरोगः ॥

Nyaas

पदेर्ण्वृल्तृचोरपवादो घञ् विधीयते, रुजिविशिभ्यामिगुपधलक्षणस्य कस्य, स्पृशेश्च पचाद्यचः। पादः इति। अत उपधायाः (7.2.116) इति वृद्धिः। यद्येवम्, पदमिति न सिद्ध्यति? न तु खलु न सिद्ध्यति, अनुदात्तं पदमेकवर्जम् (6.1.152) इति निपातनात्।`स्पृश उपतापे इति वक्तव्यम्िति। उपतापः = रोगः, तत्र स्पृशेर्घञ्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - `लृटः सद्वा (3.3.14) इत्यतो वाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन स्पृशेरुपात एव कर्तरि भवति, नान्यत्रेति। स्वरे विशेषः इति। अचि हि सत्यन्तोदात्तत्वं भवति, घञि तु पदस्याद्युदात्तत्वं स्यात्। घञो ञकारो वृद्ध्यर्थः, आद्युदात्तार्थश्च। घकारः चजोः कुघिण्ण्यतोः (7.3.52) इति कुत्वार्थः॥

Prakriyasarvasvam

एभ्यः कर्तरि घञ् स्यात् । ञित्त्वाद् वृद्धिः । गच्छतीति पादः । घित्त्वात् ‘चजोः—’ (७-३-५२) इति कुः । गुणः । रोगः । वेशः प्रवेष्टा । ‘स्पृशो रोगार्थे इति वाच्यम् (वा० ३-३-१६) । स्पर्शो रोगो रोगकृद् वा ॥

Vartika

स्पृश उपतापे ।

Sutra Prayogas

  • स्पर्शाम् (भट्टिकाव्यम्): पदरुजविशस्पृशो घञ् इति घञ्।