33013: लृट् शेषे च¶
Padacheda: लृट् | S | 1 | 1 |
शेषे | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
भविष्यकालं द्योतयितुम् क्रियार्थायाम् क्रियायाम्, तद्भिन्नायाम् च क्रियायाम् लृट्-लकारः भवति ।
अनेन सूत्रेण ‘लृट्’ लकारस्य विधानं क्रियते । अयम् लकारप्रत्ययः ‘भविष्यति’ इति कालम् निर्देष्टुम् द्वयोः अवस्थयोः प्रयुज्यते - 1. क्रियायाम् क्रियार्थायाम्, तथा च 2. तद्भिन्नायाम् क्रियायाम् (इत्युक्ते, शेषे) कः अर्थः? क्रमेण पश्यामः - 1. यत्र एकां क्रियां कर्तुम् द्वितीया क्रिया क्रियते, तत्र या क्रिया मुख्या अस्ति तस्याः निर्देशं कर्तुम् लृट्लकारः प्रयुज्यते । यथा, यदि रामः पठनक्रियार्थम् शालाम् गच्छति, तर्हि अत्र ‘पठनक्रिया’ मुख्या अस्ति, तथा गमनक्रिया ‘क्रियार्था क्रिया’ अस्ति । (पठन-क्रियार्थम् गमनक्रिया कृता, अतः इदम् नाम ।) अस्याम् स्थितौ मुख्यक्रियायाः निर्देशः लृट्लकारेण क्रियते । यथा - ‘रामः पठिष्यतीति शालां गच्छति’ । (तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्**(3.3.10) इत्यनेन अस्यां स्थितौ तुमुन् तथा ण्वुल् प्रत्ययौ अपि भवितुमर्हतः , अतः एतदेव वाक्यम् ‘रामः पठितुम् शालां गच्छति’ उत ‘रामः पाठकः शालां गच्छति’ अनयोः प्रकारयोः अपि वक्तुं शक्यते ।) अन्यानि उदाहरणानि - अ) सः विजेष्यते इति युद्ध्यति । (सः विजेतुम् युद्ध्यति इत्यर्थः । मुख्यक्रिया = विजनम् । क्रियार्थाक्रिया = योधनम् ) आ) कृष्णं द्रक्ष्यतीति अर्जुनः याति । (कृष्णं द्रष्टुमर्जुनः याति इत्यर्थः । मुख्यक्रिया = दर्शनम् । क्रियार्थाक्रिया = यानम् ) इ) वयं क्रीडिष्यामः इति गच्छामः । (वयं क्रीडितुम् गच्छामः इत्यर्थः । मुख्यक्रिया = क्रीडनम् । क्रियार्थाक्रिया = गमनम् ।) 2. ‘शेषे’ - इत्युक्ते, या क्रिया इदानीम् न आरब्धा, या च ‘क्रियायाम् क्रियार्थायाम्’ इत्यनेन अपि न निर्दिश्यते, ताम् दर्शयितुम् लृट्-लकारस्य प्रयोगः भवति । यथा - रामः सायं वनम् गमिष्यति । युवाम् कदा कार्यम् करिष्यथः? । वयम् व्याकरणम् पठिष्यामः । ज्ञातव्यम् - 1. ‘क्रियायाम् क्रियार्थायाम्’ इति सति-सप्तमी अस्ति । ‘क्रियार्थायाम् सत्याम् क्रियायाम् लृट् भवति’ इति अन्वयः । इत्युक्ते, यत्र क्रियार्था-क्रिया उपस्थिता अस्ति, तत्र मुख्यक्रिया लृट्-लकारेण दर्श्यते । 2. अनेन सूत्रेण अद्यतन/अनद्यतन-भविष्यकालार्थम् लृट्-प्रत्ययः एव विधीयते । परन्तु **अनद्यतने लुट् (3.3.15) इत्यनेन अनद्यतन-भविष्यकालार्थमपवादत्वेन लृट्-लकारस्य विधानम् कृतमस्ति । अतः क्रियार्था क्रिया नास्ति चेत् अनद्यतन-भविष्यकालार्थम् लुट्-लकारः एव प्रयोक्तव्यः । यथा - सः श्वः गन्ता । अन्यत्र सर्वत्र लृट्-लकारस्य प्रयोगः भवितुमर्हति । यथा - सः अद्य श्वः वा गमिष्यति ।
Sutrartha (English)¶
When a helper action is done for doing a main action in future (For example, ‘going to school for studying’), the लृट्लकार can be used to denote the main action (‘studying’ in this example). In addition, the लृट्लकार can also be used to indicate a general action to be done in future, even when no helper action is indicated.
Vasu English Summary¶
The affix लृट् (2nd Future) is used after a verb in the remaining cases where futurity pure and simple is indicated and also where there is construction with it another verb denoting an action performed for the sake of the future action.
Vasu English Translation¶
The affix लृट् (2nd Future) is used after a verb in the remaining cases where futurity pure and simple is indicated and also where there is construction with it another verb denoting an action performed for the sake of the future action. This is what is well-known as the Second Future. As करिष्यामि इति व्रजति ‘he goes that I will do’; हरिष्यामि इति व्रजति ‘he goes that I will take’. So also, करिष्यति ‘he will do’; हरिष्यति ‘he will take’. Thus the Second Future is used both in dependent sentences as well as to denote simple Future.
Bhashya¶
लृट् शेषे च (978) (540 लृड्विधिसूत्रम्॥ 3 । 3 । 1 आदृ 8) (आक्षेपभाष्यम्) शेषग्रहणं किमर्थम्? (4004 वार्तिकम्॥ 2 ॥) - लृटि शेषवचनं क्रियायां प्रतिपदविध्यर्थम्- (भाष्यम्) लृटि शेषवचनं क्रियते क्रियायां प्रतिपदविधिर्यथा स्यात्॥ (4005 हेतुवार्तिकम्॥ 3 ॥) - अविशेषेण विधाने लृटोऽभावः प्रतिषिद्धत्वात्- (भाष्यम्) अविशेषेण हि विधाने सति लृटोऽभावः स्यात्। करिष्यामीति व्रजति॥ किं कारणम्? प्रतिषिद्धत्वात्। इदानीमेव ह्युक्तं क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्तीति। लृट्वापि तृजादिः॥ अस्ति प्रयोजनमेतत्। किं तर्हीति। (पूर्वपक्षभाष्यम्) साधीयस्तुखलु शेषग्रहणेन क्रियार्थोपपदाद्लृण्निर्भज्यते। किं कारणम्। अक्रियार्थोपपदत्वात्। शेष इत्युच्यते। शेषश्च कः। यदन्यत् क्रियायाः क्रियार्थायाः। (पूर्वोक्तसमाधानवार्तिकाशयप्रदर्शकसमाधानभाष्यम्) एवं तर्हि - - (4006 वार्तिकम्॥ 1 ॥) - लृटि शेषवचनं क्रियायां प्रतिपदविध्यर्थम्- (भाष्यम्) लृटि शेषवयनं क्रियते क्रियायां प्रतिपदविधिर्यथा स्यात्। लृट् शेषे च। करिष्यति हरिष्यतीति। क्व च। क्रियायामुपपदे क्रियार्थायामिति॥ (प्रश्नभाष्यम्) स तर्हि चकारः कर्तव्यः॥ (समाधानभाष्यम्) न कर्तव्यः। कथम्? इह लृड् भवति इतीयता सिद्धम्। सोयमेवं सिद्धे सति यत् शेषग्रहणं करोति तस्यैतत्प्रयोजनम् - -योगाङ्गं यथा विज्ञायेत। सति च यौगाङ्गे योगविभागः करिष्यते - -लृट् लृट् भवति क्रियायामुपपदे क्रियार्थायामिति। ततः शेषे। शेषे च लृड् भवतीति॥ लृट् शेषे च॥ 13 ॥
Kashika¶
भविष्यतीत्येव। शेषः क्रियार्थोपपदादन्यः। शेषे शुद्धे भविष्यति काले, चकारात् क्रियायां चोपपदे क्रियार्थायां धातोर्लृट प्रत्ययो भवति। करिष्यामीति व्रजति। हरिष्यामीति व्रजति। शेषे खल्वपि — करिष्यति। हरिष्यति॥
Siddhanta Kaumudi¶
भविष्यदर्थाद्धातोर्लृट् स्यात्क्रियार्थायां क्रियायामसत्यां सत्यां च । स्यः इट् । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ॥
Laghu Siddhanta Kaumudi¶
भविष्यदर्थाद्धातोर्लृट् क्रियार्थायां क्रियायां सत्यामसत्यां वा । स्यः । इट् । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ॥
Balamanorama¶
लृट् शेषे च - लृट् शेषे च ।तुमुन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति प्रागुक्तं,ततोऽन्यः शेष इत्याह -असत्यामिति । चार्थमाह — सत्यमिति । हरदत्तस्त्वाह — अस्वरितत्वादेव क्रियार्थायां क्रियायामिति नानुवर्तते । एवं चशेषे चे॑ति सुत्यजमिति । तच्चिन्त्यम् ।शयिष्यत इति स्थीयते॑ इत्यादौ तुमुना लृटो बाधापत्तेः, क्तल्युट्तुमुन्खलर्थेषु वासरूपविधेरभावात् । अत्र च ज्ञापकंप्रैषातिसर्गप्राप्तकालेषु कृत्याश्चे॑त्यत्र लोटा बाधा मा भूदिति पुनः कृत्यविधि॑रित्यादि कृदन्ते वक्ष्यति । इदमपि ज्ञापकमित्यन्यदेतत् । यत्तु प्राचा — भविष्यतीति व्रजती॑त्युदाहृतं, तदापाततः,तुमुन्विषयेऽपि लृड्भवति तुमुना लृण्न बाध्यते॑ इत्येतत्प्रतिपादनाय तस्याऽनुपयोगात्,न हि भविष्यतीत्यत्र कर्तरि तुमुनः प्राप्तिरस्ति,भावे हि सः । समानकर्तृकेष्वेवेति च वक्ष्यते । लृडित्येतावत्सूत्रकरणेऽपिभविष्यतीति व्रजती॑त्ययं सिध्यत्येवेत्यास्तां तावत् । स्य इडिति । लृटस्तिपिस्यतासी लृलुटो॑रिति स्यप्रत्ययः । तस्य वलाद्यार्धधातुकत्वादिडागम इत्यर्थः । भविष्यतीति । स्यप्रत्ययस्य इटि ऊकारस्य गुणे अवादेशे प्रत्ययावयवत्वत्सकारस्य षत्वे भविष्यतीति रूपमित्यर्थः । तसादौ भविष्यत इत्याद्यप्येवं योज्यम् । भविष्यामीत्यादौअतो दीर्घो यञी॑ति दीर्घः । इति लृट्प्रक्रिया ।
Tattvabodhini¶
लृट् शेषे च - ॒तुमुन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति प्रागुक्तं, ततोऽन्यः शेष इत्याह — असत्यामिति । हरदत्तस्त्वाह - अस्वरितत्वादेव क्रियार्थायां क्रियायामिति नानुवर्तते । एवंचशेषेचे॑ति सुत्यजमिति । तच्चिन्त्यम् ।शयिष्यत इति स्थीयते॑इत्यादौ तुमुना लृटो बाधापत्तेः, क्तल्युट्तुमुन् खलर्थेषु वासरूपविधेरभावात् । अतर्च ज्ञापकंप्रैषातिसर्गप्राप्तकालेषु कृत्याश्चे॑त्यत्र लोटा बाधा माभूदिति पुनः कृत्त्यविधि॑रित्यादि कृदन्ते वक्ष्यति । इदमपि ज्ञापकमित्यन्यदेतत्॥ यत्तु प्राचा — भविष्यतीति व्रजती॑त्युदाहृतं, तदापाततः,तुमुन्विषयेऽपि लृड्भवति तुमुना लृण्न बाध्यतेट इत्येतत्प्रतिपादनाय तस्याऽनुपयोगात्, न हि भविष्यतीत्यत्र कर्तरि तुमुनः प्राप्तिरस्ति, भावे हि सः । समानकर्तृकेष्वेवेति च वक्ष्यते । लृरडित्येतावत्सूत्रकरणेऽपिभविष्यतीति व्रजती॑त्ययं सिध्यत्येवेत्यास्तां तावत् ।
Padamanjari¶
शेषः क्रियार्थोपपदादन्य उच्यते इति । क्रिया क्रियार्थोपपदं यस्मिन् भविष्यति काले ततोऽन्यो भविष्यदित्यर्थः । चकारादिति । यदि तहि शेषे चाशेषे च भवति लृडित्येवास्तु, क्रियायां क्रियार्थायामिति निवर्तिष्यते, तेन सर्वत्र भविष्यति ? एवमपि शेष एव स्यात्, अशेषे तु तुमुन्ण्वुलौ बाधकौस्याताम् । वासरूपविधिना लृडपि भविष्यति । तदेतत्’शेषे च’ इति वचनं चिन्त्यप्रयोजनम् । करिष्यामीति व्रजतीति । इतिशब्दः परस्परसम्बन्धज्ञापनार्थः ॥
Nyaas¶
चकारात् इत्यादि। एतेन क्रियायां क्रियार्थायामित्यस्यानुकर्षणार्थश्चकार इति दर्शयति। करिष्यामि इति। ऋद्धनोः स्ये (7.2.70) इतीट्॥
Prakriyasarvasvam¶
तुमुन्विषये भविष्यदर्थमात्रे च लृट् स्यात् । तस्य वा सदादेशः । पश्यन् व्रजति । पश्यामीति व्रजति । द्वयं तुमुनर्थे तिङस्तिङानन्वयाद् अन्वयार्थमितिशब्दः । <karika>सर्वे चात्राव्ययकृतो भावार्था इति निर्णयात् । भोक्तुं यातीति तुमुना भोजनायेति बोध्यते ॥ १३८ ॥</karika> <karika>अनन्वयत्वादिष्यन्ते ण्वुलणौ लृट् च कर्तरि । भोजको व्रजतीत्युक्ते भोक्ष्यमाण इतीर्यते ॥ १३९ ॥</karika> <karika>न चैषां प्रथमैव स्याद् भोजकंर्गम्यते द्विजैः । शत्रुलावान् गतान् पश्य पक्ष्यतां गमनं शुभम् ॥ १४० ॥</karika> इति भविष्यदर्थाः ॥
Sutra Prayogas¶
कथयिष्यन् (किरातार्जुनीयम्): लट् शेषे च (लृट् शेषे च) इति चकारात्क्रियार्थायां क्रियायां लृट्।
नियोजयिष्यन् (किरातार्जुनीयम्): लृट् शेषे च इति लृट्।
प्रहरिष्यन् (किरातार्जुनीयम्): लृट् शेषे च इति चकारात्क्रियार्थायां क्रियायां लृट्।
सादयिष्याम (भट्टिकाव्यम्): लृट् शेषे च इति चकारात् क्रियार्थायामुपपदे भविष्यति लृट्।
करिष्यन्त (भट्टिकाव्यम्): लृट् शेषे च इति लृट्।
निर्यास्यन्रथमच्छ्रित (भट्टिकाव्यम्): ऌट् शेषे च इति चकाराल्लृट्।