33005: विभाषा कदाकर्ह्योः¶
Padacheda: विभाषा | S | 1 | 1 |
कदा-कर्ह्योः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
The affix लट् (Present Tense) is optionally used after a root with the force of the futurity when it has in construction with it the adverbs कदा and कर्हि।
Vasu English Translation¶
The affix लट् (Present Tense) is optionally used after a root with the force of the futurity when it has in construction with it the adverbs कदा and कर्हि। As कदा भुङ्क्ते ‘when will he eat’, or कदा भोक्ष्यते or भोक्ता; so also कर्हिभुङ्क्ते or भोक्ष्यते or भोक्ता ‘when will he eat’.
Kashika¶
कदा कर्हि इत्येतयोरुपपदयोर्विभाषा भविष्यति काले धातोर्लट् प्रत्ययो भवति। कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता। कर्हि भुङ्क्ते, कर्हि भोक्ष्यते, कर्हि भोक्ता॥
Siddhanta Kaumudi¶
भविष्यति लड् वा स्यात् । कदा कर्हि वा भुङ्क्ते । भोक्ष्यते । भोक्ता वा ॥
Balamanorama¶
विभाषा कदाकर्ह्योः - विभाषा कदाकर्ह्योः ।भविष्यति लड्वा स्या॑दिति शेषपूरणम् । लडभावपक्षे लुटलृटौ यथाप्राप्तम् । तदाह — कदा कर्हि वा भुङ्क्ते भोक्ष्यते भोक्ता वेति । न च कर्हियोगे लडभावपक्षे लुडेवोचितो, नतु लृट् ।अनद्यतने र्हिलन्यतरस्या॑मिति र्हिलन्तकर्हियोगविरोधादिति वाच्यं, लृडुदाहरणस्य कदायोगमात्रविषयत्वादिहुः ।
Tattvabodhini¶
विभाषा कदाकर्ह्योः - विभाषा । ननुअनद्यतने र्हिलन्यतरस्या॑मित्यनद्यने किमो र्हिल्विहितस्ततश्च कर्हियोगे लुटैव भाव्यमिति कथमुदाह्यियते — कर्हि भोक्ष्यत इति । अत्राहुः — भविष्यत्सामान्ये भोक्ष्यते इति लृट् । कर्हियोगे तु अनद्यतनावगतिर्लक्षणयेति । भोक्ता वेति । ननु भविष्यत्सामान्येऽयं लड्विहितस्तस्य लुटा सह कथं विकल्पो, विषयभेदादिति चेत्, अत्राहुः — अनद्यतने लु॑डित्यत्रविभाषा कदे॑त्यादीनि कानिचित्सूत्राणीष्टानुरोधेनानुवर्तन्ते तेन, लुड्विषयेऽपि लड्भवति, न त्वनद्यने लुटा लड् बाध्यत इति ।
Padamanjari¶
ठनद्यतने लुट्ऽ इत्यत्राप्ययं योगोऽनुवर्तनीयः, तेन लुड्विषयेऽपि पक्षे लड् भवति । अत एव पक्षे लुडप्युदाहृतः । एतच्च पूर्वयोगेऽपि द्रष्टव्यम् । कहिं भोक्ष्यते इति । ननु च कर्हिशब्दोऽनद्यतनविषयः, तत्प्रयोगे लुडेव भवितुमर्हति, न लृट्; न वा वाक्यर्थत्वात् । भोक्ष्यत इति पदं भविष्यत्सामान्ये वर्तते, अनद्यतनावगतिस्तु कर्हि-शब्दाधीना । न च वाक्यार्थः पदसंस्कार उपयुज्यते ॥
Nyaas¶
कदा भोक्ता इति। लुट्। ननु च भविष्यतीत्यनुवृत्तेर्लृट एव विषये भवितव्यम्, न लुटः। ततो लृडेव पक्षे युक्त उदाहर्तुम्, तत्कथं लुडप्युदाहृतः? एवं मन्यते - अनद्यतने लुट् (3.3.15) इत्यत्र विभाषा कदाकर्ह्योः इत्यस्यानुवृत्तेर्लृटो विषये विभाषा लुटा भवितव्यमिति। कर्हि भोक्ष्यते इति। लृट्। ननु च कर्हिशब्दः अनद्यतने र्हिलन्यतरस्याम् (5.3.21) इत्यनद्यतने व्युत्पादितः, तदसौ यत्र प्रयुज्यते ततर्ानद्यतन इव कालः सम्भवति, तत्कुतो लृटः प्राप्तिः, अनद्यतने लुट् (3.3.15) इति लुटैव पक्षे भवितव्यम्? नैतदस्ति; यस्माद्भोक्ष्यत इत्येतत् पदं भविष्यत्काल एव वर्तते। अनद्यतनकालावगतिस्तु कर्हिशब्दसन्निधाने सति वाक्याद्भवति। न च वाक्यगम्येऽर्थे लृड्भवति। तथा हि पदमिह संस्क्रियते, न च पदसंस्कारे वाक्यगम्योऽर्थ उपयुज्यते। तस्माद्भविष्यत्सामान्ये विवक्षिते लृड्भवति, भविष्यति विशेषेऽप्यनद्यतने विवक्षिते लुडिति॥
Prakriyasarvasvam¶
अनयोर्योगे भविष्यति वा लट् स्यात् । कदा भुङ्क्ते, कर्हि भुङ्क्ते । भोक्ष्यत इति वा ।
Sutra Prayogas¶
वदति (भट्टिकाव्यम्): विभाषा कदाकर्ह्योः इति भविष्यति लट् ।
भवति (भट्टिकाव्यम्): विभाषा कदाकर्ह्योः इति भविष्यति लट् ।