33003: भविष्यति गम्यादयः

Padacheda: भविष्यति | S | 7 | 1 |

गमि-आदयः | S | 1 | 3 |

Sutrartha


Vasu English Summary

The words गामि etc. are valid forms having the sense of the future time.

Vasu English Translation

The words गामि etc. are valid forms having the sense of the future time. The force of the future time is in the affix, and is so ordained, and not in the original word which takes the affix. Thus we see that the Unadi affixes, in a way, do come with the force of not only present, but past and future also, though in the latter two cases its scope is very limited. As गमी ग्रामम् ‘intending to go to the village’; आगामी ‘that which has to come’ So also प्रस्थायी ‘departing’; प्रतिरोधी ‘an opponent’, (who is going to obstruct). प्रतिबोधी ‘going to be awakened’. So also प्रतियोधी ‘an adversary’; प्रतियोगी ‘an enemy’; प्रतियायी; आयायी; भावी, &c.

Vart:- The Future, for the purposes of this rule, must be anadyatana future i. e. the affix should come in the sense of what will happen but not in the course of the current day. In other words, the force must be of the first future लुट्, and not of the second future लृट्. As श्वो गमी ग्रामम् ‘he intends to go to the village tomorrow’.

Bhashya

भविष्यति गम्यादयः (968) (भविष्यत्कालाधिकारः) (565 भविष्यति गम्यादीनां साधकसूत्रम् ॥ 3। 3। 1 आदृ2 ) (3093 दूषणवार्तिकम् ॥ 1 ॥) - भविष्यतीत्यनद्यतन उपसंख्यानम्- (भाष्यम्) भविष्यतीत्यनद्यतन उपसंख्यानं कर्तव्यम्।श्वो ग्रामं गमी ॥ किं पुनः कारणं न सिध्यति? लृटायं निर्देशः क्रियते। लृट् चानद्यतने लुटा बाध्यते। तेन लृट एव विषये एते प्रत्ययाः स्युः लुटो विषये न स्युः। (3094 दूषणान्तरवार्तिकम् ॥ 2 ॥) - इतरेतराश्रयं च- (भाष्यम्) इतरेतराश्रयं च भवति। का इतरे तराश्रयता? भविष्यत्कालेन अयं निर्देशः क्रियते, निर्देशोत्तरकाला च भविष्यत्कालता। तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च न प्रकल्पन्ते ॥ (3095 समाधानवार्तिकम् ॥ 3 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्? एकं तावदुक्तम् - न वाऽपवादस्य निमित्ताभावादनद्यतने हि तयोर्विधानम् इति ॥ (शेषभाष्यम्) अपरमप्युक्तमव्ययनिर्देशात्सिद्धम् इति। अव्ययवता शब्देन निर्देशः कर्तव्यः। अवर्तमाने भूत इति। स तथा निर्देशः कर्तव्यः। न कर्तव्यः। अव्ययमेष भविष्यतिशब्दः। नैष भवतेर्लृट् ॥ कथमव्ययसंज्ञा? विभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा ठनिपातोव्ययम् इत्यव्ययसंज्ञा। अथापि भवतेर्लृट्, एवमप्यव्ययमेव। कथम्? न व्येतीत्यव्ययमिति। क्व पुनर्न व्येति। एतौ कालविशेषौ भूतवर्तमानौ स्वभावतो भविष्यत्येव वर्तेते ॥ यदि तर्हि नव्येतीत्यव्ययमिति। न वा तद्विधानस्यान्यत्राभावात् । न वा भविष्यदधिकारेणार्थः ॥ किं कारणम्? तद्विधानस्यान्यत्राभावात्। येऽपि ह्येते इत उत्तरं प्रत्ययाः शिष्यन्ते, एतेऽप्येतौ कालविशेषौ न वियन्ति भूतवर्तमानौ स्वभावतो भविष्यत्येव वर्तन्ते ॥ (समाधानभाष्यम्) अत उत्तरं पठति। (3096 वार्तिकम् ॥ 4 ॥) - भविष्यदधिकारस्य प्रयोजनं यावत्पचति पुरापचतीत्यनपशब्दत्वाय- भविष्यतिग ॥ 6 ॥

Kashika

भविष्यति काले गम्यादयः शब्दाः साधवो भवन्ति। प्रत्ययस्यैव भविष्यत्कालता विधीयते न प्रकृतेः। गमी ग्रामम्। आगामी। प्रस्थायी। प्रतिरोधी। प्रतिबोधी। प्रतियोधी। प्रतियोगी। प्रतियायी। आयायी। भावी॥ अनद्यतन उपसंख्यानम्॥ श्वो गमी ग्रामम्॥

Tattvabodhini

भविष्यति गम्यादयः - भविष्यति गम्यादयः । गमिष्यतीति -गमी ग्रामम् । आगमिष्यतीति आगामी । गमेरिनिः ।आङि णित् इत्याङ्पूर्वस्य तु णित्त्वादुपधावृद्धिः ।

Padamanjari

यथा’स्यदो जवे’ इत्युक्ते जवशब्दपर्यायः स्यदशब्दो भवति, तथेहापि भविष्यच्छब्दपर्याया गम्यादयः प्राप्नुवन्तीत्याशङ्क्याह - प्रत्ययस्यैवेत्यादि । प्रकृत्यर्थगता भविष्यत्कालता । प्रत्ययस्यैव द्योत्यत्वेन विधीयते, न पुनः प्रकृत्यर्थपरित्यागेन समुदायस्येत्यर्थः । न प्रकृतेरिति । न प्रकृतेरपीत्यर्थः । गम्यादिषु केचिदुणादयः, केचिदष्टाध्यायीगताः । गमी, आगामीति ।’गमेरिनिः’ ठाङ् इणिच्चऽ इतीनिः । भावी, प्रस्थायीति । अस्मिन्नेवाधिकारे’भुवश्च’ ‘प्रात्स्थः’ इतीनिः, णित्वाद् वृद्धिर्युक्च । रुधिबुधियुधियातिभ्यः प्रतिपूर्वेभ्यो प्रहादिनिः । अस्मादेव निपातनादित्यन्ये ।’सुप्यजातौ’ इत्यन्ये । प्रतियोगीति । संपृचादिसूत्रेण घिनुणि’चजोः कु घिण्ण्यतोः’ इति कुत्वम् । णिनि प्रत्यय एव न्यङ्क्वादिपाठादस्मादेव निपातनाद्वा कुत्वमित्यन्ये । अनद्यतन उपसंख्यानमिति । किं पुनः कारणं न सिद्ध्यति ? लृटायं निर्देशः क्रियते लृ ट् चानद्यतने लुटा बाध्यते, तेन लृट एव विषये एते स्युः । न वा वाक्यार्थत्वाद् गम्यादयः शब्दा विशेषे यत्सामान्यं तदाश्रयेण प्रवतन्ते । अनद्यतनाख्यस्तु विशेषः श्वः शब्दमहिम्ना गम्यते । विशेषविवक्षायां तु लुडेव भवति - श्वो गन्ता ग्राममिति । वासरूपविधिना च लृडपि भवति । तेन भविष्यति, गमिष्यतीत्यादयः प्रयोगा उपपद्यन्ते ॥

Nyaas

प्रत्ययस्यैव इत्यादि। इदं हि भविष्यति गम्यादयः साधवो भवन्ति,यदि प्रत्ययस्यैव भविष्यत्कालता विधीयते, अथ तु प्रत्ययस्यान्यकालता स्यान्न ते भविष्यति साधवः स्युः।तस्मात् प्रत्ययस्यैवानेन प्रकारेण भविष्यत्कालता विधीयते। ग्रामं गमी इति। गमेरिनिः (द।उ।6।57) इतीनिप्रत्ययः,`सौ` (6.4.13) इति दीर्घः। अकेनोर्भविष्यदाधमण्र्ययोः (2.3.70) इति षष्ठआं प्रतिषिद्धायां ग्रामशब्दात् कर्मणि द्वितीया (2।32)। आगामी इति। गमेरिनिः`(द।उ।6।57) इति वर्तमाने `आङि णित् (द।उ।6।58)इतीनिः; णित्त्वादुपधावृद्धिः। प्रस्थायी`इत्यादि। `ष्ठा गतिनिवृत्तौ (धातुपाठः-928) बुध बोधने (धातुपाठः-1172), युज समाधौ (धातुपाठः-1177) या प्रापणे (धातुपाठः-1949) - एब्यः सुप्यजातौ णिनिस्ताच्छील्ये (3.2.78) इति णिनिः।यातितिष्ठत्योः आतो युक् चिण्कृतोः (7.3.33) इति युक्। युजः चजोः कुघिण्ण्यतोः इति कुत्वम्। भावी इति। आङि णित् (पं।उ।4।7) इति वर्तमाने भुवश्च (पं।उ।4।8) इतीनिः, णित्त्वाद्वृद्धिः। अनद्यतन उपसंख्यानम् इति। किं पुनः कारणं न सिध्यति? भविष्यतीति लृटायं निर्देशः क्रियते, तेन च लृट एव विषये भविष्यत्सामान्ये स्यात्, न भविष्यदनद्यतने,ततो लुटो न विषयः, लृटा बाधितत्वात्। तस्मादनद्यतन उपसंख्यानं कर्तव्यम्। उपसंख्यानशब्दस्य चेह प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - बहुलग्रहणमिहानुवर्तते,तेनानद्यतनेऽपि भविष्यतीति।एते च गम्यादयो लुङ्लृटोरुभयोरपि बाधकाः, अपबादत्वात्।अपवादत्वं तु येननाप्राप्तिन्यायेन (व्या।प।49) ननु च वासरूपविधिना लुङ्लृटावपि प्राप्नुतः, तद्विधौ भविष्यति गम्यादयः इत्यनुवृत्तेः? सत्यम्; अस्यामप्यनुवृत्तौ पक्षे एवेति चेत्? नैतदस्ति;एवं ह्रनुवृत्तिरपार्थिका स्यात्॥

Sutra Prayogas

  • भाविनम् (शिशुपालवधम्): भविष्यति गम्यादयः इति भविष्यदर्थे साधुः।