33001: उणादयो बहुलम्

Padacheda: उणादयः | S | 1 | 3 |

बहुलम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affixes उण् and the rest with the force of the present and with a sense simply appellative are attached diversely.

Vasu English Translation

The affixes उण् and the rest with the force of the present and with a sense simply appellative are attached diversely. The phrase ‘with the force of the present’ (implying neither past nor future time) and ‘with a sense simply appellative’ (and not descriptive) must be read into this sutra by anuvritti from sutras (3.2.123) & (3.2.185). By using the word ‘diversely’ it is indicated that these affixes are, of course, applied after roots about which they are ordained, but they come also after roots about which they are not ordained. Sometimes we must infer their application by seeing actual words. Some affixes, though there be no express injunction regarding them, are to be inferred to belong to this class. The maxim in regard to the Unadi affixes is that when, in appellatives, we find the forms of verbal roots and affixes coming after them, then we may know, from the result as presented in the word, what are the indicatory letters which the affix must be possessed of in order to produce the result.

These affixes are not given in Panini’s work, but they have been separately collected. The affix उण् is the first of these. The first sutra of Unadi affixes is the following-

कृवापाजिमिस्वदिसाध्यशूभ्य उण् ॥

The affix उण् comes after the verbs कृ ‘to make’, वा ‘to blow’, पा ‘to drink’, जि ‘to overcome’, नि ‘to scatter’, स्वद ‘to be pleasant to the taste’, साध् ‘to accomplish’, and अश् ‘to pervade’.

Thus कृ + उण् = कारुः ‘an artisan’. So also, वायुः ‘the wind’; पायुः ‘the organ of excretion’; जायुः ‘a drug (which overcomes disease)’; मायुः ‘the bile’; स्वादुः ‘sweet’; साधुः ‘who accomplishes the object of another, hence virtuous’; and आशुः ‘quickly’.

These Unadi affixes come after a limited number of roots, and not after every root, as the affixes taught in this grammar whose application is general; hence the word बहुल has been employed. Moreover there has been no exhaustive enumeration of the several roots after which these affixes come: only some of them have been collected in works treating of Unadi affixes. Thus though the affixes उलच् is ordained after हृष, it comes also after शक as शङ्कुला. In fact there is a long discussion and it was a moot point at the time of Panini whether these words said to be formed by Unadi affixes were really derivative, or primitive ones. Moreover all the operations of these affixes have not been shown, that is their effects are not without remainder (सशेष). They are valid and good if found in sacred Scriptures or secular literature. The authors of Niruktas and grammarians of the school of Sakatayana, consider all nouns and substantives (नाम) as derivative words from simple roots (धातुज). Therefore where the derivation of a word is not apparent, one should infer the existence of proper base (प्रकृति) or affix (प्रत्यय) to form such a word.

The following slokas will be of some use to the student for ascertaining the Unadi affixes.

बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधेश्च तदुक्तं नैगमरूढिभवं हि सुसाधु ॥ १ । नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् । यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥ २ ॥ सञ्ज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥ ३ ॥

Bhashya

उणादयो बहुलम् (966) (534 उणादीनामपि त्वीकरसूत्रम्॥ 3 । 3 । 1 आ.1) (आक्षेपभाष्यम्) बहुलवचनं किमर्थम्? (3086 वार्तिकम्॥ 1 ॥) - बाहुलकं प्रकृतेस्तनुदृष्टेः- (भाष्यम्) तन्वीभ्यः प्रकृतिभ्य उणादयो दृश्यन्ते न सर्वाभ्यो दृश्यन्ते॥ (3087 वार्तिकम्॥ 2 ॥) - प्रायसमुच्चयनादपि तेषाम्- (भाष्यम्) प्रायेण खल्वपि ते समुच्चिता न सर्वे समुच्चिताः। (3088 वार्तिकम्॥ 3 ॥) - कार्यसशेषविधेश्च तदुक्तम्- (भाष्यम्) कार्याणि खल्वपि सशेषाणि कृतानि न सर्वाणि लक्षणेन परिसमाप्तानि। (आक्षेपभाष्यम्) किं पुनः कारणं तन्वीभ्यः प्रकृतिभ्य उणादयो दृश्यन्ते न सर्वाभ्यः? किं च कारणं प्रायेण समुच्चिता न सर्वे समुच्चिताः? किं च कारणं कार्याणि सशेषाणि कृतानि न सर्वाणि लक्षणेन परिसमाप्तानि? (3089 समाधानवार्तिकम्॥ 4 ॥) - नैगमरूढिभवं हि सुसाधु- (भाष्यम्) नैगमाश्च रूढिभावाश्चौणादिकाः सुसाधवः कथं स्युः। (3090 वार्तिकम्॥ 5 ॥) - नाम च धातुजमाह निरुक्ते - (भाष्यम्) नाम खल्वपि धातुजमेवमाहुर्नैरुक्ताः॥ (3091 वार्तिकम्॥ 6 ॥) - व्याकरणे शकटस्य च तोकम्- (भाष्यम्) वैयाकरणानां च शाकटायन आह धातुजं नामेति॥ (आक्षेपभाष्यम्) अथ यस्य विशेषपदार्थो न समुत्थितः कथं तत्र भवितव्यम्। (3092 समाधानवार्तिकम्॥ 7 ॥) - यन्न विशेषपदार्थसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम्- (भाष्यम्) प्रकृतिं दृष्ट्वा प्रत्यय ऊहितव्यः। प्रत्ययं च दृष्ट्वा प्रकृतिरूहितव्या॥ संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे। कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु॥ उणादयो॥ 1 ॥

Kashika

वर्तमान इत्येव, संज्ञायामिति च। उणादयः प्रत्यया वर्तमानेऽर्थे संज्ञायां विषये बहुलं भवन्ति। यतो विहितास्ततोऽन्यत्रापि भवन्ति। केचिदविहिता एव प्रयोगत उन्नीयन्ते। कृवापाजिमिस्वदिसाध्यशूभ्य उण् (प०उ० १.१)। कारुः। वायुः। पायुः। जायुः। मायुः। स्वादुः। साधुः। आशुः।

बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम्।

कार्यसशेषविधेश्च तदुक्तं नैगमरूढिभवं हि सुसाधु॥ १॥

नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्।

यन्न पदार्थविशेषसमुत्त्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥ २॥

संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे।

कार्याद् विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥ ३॥

Siddhanta Kaumudi

एते वर्तमाने सञ्ज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः ॥ सञ्ज्ञासु धातुरूपाणि प्रत्ययाश्चयाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥

Laghu Siddhanta Kaumudi

एते वर्तमाने संज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः ॥ संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥ इत्युणादयः ॥

Padamanjari

पदमञ्जरी वर्तमाने इत्येवेति ।’वर्तमाने लट्’ इत्यतो वर्तमानग्रहणानुवृतेरविच्छेदमेवकारेण दर्शयति । संज्ञायामिति चेति ।’पुवः संज्ञायाम्’ इत्यतः ॥ ठुणादयःऽ इत्येव सूत्रमुणादीनां शास्त्रान्तरपरिपठितानां साधुत्वानुज्ञानार्थमस्तु, किं बहुलग्रहणेन ? तत्राह - बाहुलकमिति ।’ला आदाने’ , बहूनर्थान् लाति - बहुलम्, तस्य भावो बाहुलकम्, मनोज्ञादित्वाद् वुञ् । तत्पुनर्बह्वर्थादानं बहुलशब्दप्रवृत्तिनिमितम् । बहवः पुनरर्थाः - क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिरिति वक्ष्यमाणलक्षणाः । प्रकृतेरिति । जातावेकवचनम् । तनुशब्दोऽत्र वृत्तिविषये गुणमात्रवचनः । प्रकृतीनां तानवमल्पत्वं दृष्ट्वा तद्बाहुलकमुक्तम्, तेनापठिताभ्योऽपि प्रकृतिभ्य उणादयो भवन्ति, यथा - हृषेरुलजुक्तः शकेरपि भवति - शङ्कुलेति । तथा तेषामुणादीनां पञ्चपाद्यां प्रायेण समुच्चयनं कृतम्, न तु साकल्येन; बहुलवचनात्वविहिता अपि भवन्ति, यथा - अर्तेः फिडफिड्डौ भवतः - ऋफिडः, ऋफिड्ड इति । कार्यसशेषविधेश्च । कार्याणि च सशेषाणि विहितानि न निः शेषाणि । बहुलवचनात्वविहितान्यपि भवन्ति ।’षणु दाने’ ,’ञमन्ताड्डः’ ,’धात्वादेः पः स’ इति सत्वं न भवति, कृते वा सत्वे षत्वं भवति । स्यादेतत् - यावत्यः प्रकृतयः पञ्चपाद्यामुपाताः, यावन्तश्च प्रत्ययाः, यावन्ति च कार्याणि विहितानि तावन्त्येव भवन्तु, मा भूदन्येषां बहुलग्रहणेन संग्रह इति ? तत्राह - नैगमरूढिभवं हि सुसाध्विति । निगमःउच्छन्दः, तत्र भवा नैगमाः । निगमशब्दस्थाथादिस्वरेणान्तोदात इति’बह्वचो’ न्तोदाताट्ठञ्ऽ इति ठञि प्राप्ते ऋगयनादिपाठादण् । रूढिःउप्रसिद्धिः, तत्र भवा रूढिभवाःउसंज्ञाशब्दाः, तेषां साधुत्वमनुपातानां प्रकृत्यादीनां बहुलग्रहणेन संग्रहे सति भवति, नान्यथा । हिशब्दो हेतौ । यस्मादेवं तस्माद्वाहुलकमुक्तमित्यर्थः । अन्यैरप्याचार्यैर्नैगमरूढिभवानां प्रकृत्यादिविभागेन व्युत्पादनं कृतम्, अतोऽस्माभिरपि तत्कर्तव्यमेवेत्यभिप्रायेणाह - नाम चेति । निरुक्तकारो हि यास्क आचार्यः स्वशास्त्रे निरुक्तैः सर्वमेव नाम धातुजमाह । तोकमित्यपत्यंनाम । शकटस्य तोकम् शाकटायनः । यन्नेति । पदमर्थः प्रयोजनमप्त्य व्युत्पाद्यत्वेनेति पदार्थःउप्रकृत्यादिः, पदार्थश्चासौ विशेषश्च पदार्थविशेषः, तस्मात्समुत्थितं पदार्थविशेषसमुत्थम् । यदेवंविधं न भवति, प्रकृत्यादिविशेषोपादानेनाव्युत्पादितमित्यर्थः, तद्धातुजत्वेनोह्यम् । कथमूह्यम् ? प्रत्ययतः प्रकृतेश्च । यत्र शब्दरूपे परभागः प्रत्ययत्वेन प्रसिद्धेन केनचित्सदृशः श्रुतः, तत्र तं भागं प्रत्ययं कल्पयित्वा परिशिष्टो भागः प्रकृतित्वेनोह्यते ।’हृषेरुलच्’ इति प्रत्ययं दृष्ट्वा शङ्किः प्रकृतिरूह्यते, तेन सिद्धं शङ्कुलेत्यस्य धातुजत्वम् । यत्र तु पूर्वो भागो धातुत्वेन प्रसिद्धेन केनचित्सदृशस्तत्र तं भागं प्रकृतिं कल्पयित्वा परिशिष्टो भागः प्रत्ययन्वेनोह्यः । यथा - ऋफिडः, ऋफिड्ड इति, फिडफिड्डौ प्रत्ययौ । स चायमूहोऽनादिप्रत्युक्तास्वेव संज्ञासु, न सर्वत्रेत्याह - संज्ञास्विति । कार्याद् गुणप्रतिषेधादिकाद् अनूबन्धं ककारादिकं विद्यात् । तेन फिडफिड्डौ कितावूह्याइ । एतदेवानन्तरोक्तमूहात्मकं शास्त्रमुणादिष्वनुक्तेषु ॥

Prakriyasarvasvam

उणादयः प्रत्यया वर्तमानेऽर्थे संज्ञायां स्युर्बहुलँ च । अर्थविशेषादिकं प्रयोगगम्यमित्यर्थः । ‘कृपावाजिमिस्वदिसाध्यशूभ्य उण’ (उणा० १-१) । करोतीति कारुः । देहं पातीति पायुः । वातीति वायुरित्यादि ॥

Sutra Prayogas

  • रतिदूतिपदेषु (कुमारसम्भवम्): उणादयो बहुलम् इति बहुलग्रहणाद्‌घ्रस्वः।