32183: हलसूकरयोः पुवः

Padacheda: हल-सूकरयोः | S | 7 | 2 |

पुवः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix ष्ट्रन् is used after the verb पू ‘to purify’ with the sense of instrument when denoting a member of the body of a plough or of a hog.

Vasu English Translation

The affix ष्ट्रन् is used after the verb पू ‘to purify’ with the sense of instrument when denoting a member of the body of a plough or of a hog. The verb पू includes both पूङ् and पूञ् as पोत्रम् ‘a plough-share’; पोत्रमे ‘the snout of a hog’.

Kashika

पू इति पूङ्पूञोस्सामान्येन ग्रहणम्। अस्माद् धातोः करणे कारके ष्ट्रन् प्रत्ययो भवति, तच्चेत् करणं हलसूकरयोरवयवो भवति। हलस्य पोत्रम्। सूकरस्य पोत्रम्। मुखमुच्यते॥

Siddhanta Kaumudi

पूङ्पूञोः करणे ष्ट्रन् स्यात् तच्चेत्करणं हलसूकरयोरवयवः । हलस्य सूकरस्य वा पोत्रम् । मुखमित्यर्थः ॥

Balamanorama

हलसूकरयोः पुवः - हलसूकरयोः पुवः । पोत्रमिति ।तितुत्रतथसिसुसरे॑ति नेट् ।

Tattvabodhini

हलसूकरयोः पुवः - तच्चेत्करणमित्यादि । एतेन हलसूकरयोरभिधेयत्वमुपपदत्वं च निरस्तम् । मुखमित्यर्थ इति । तत्रैव रूढेरिति भावः ।

Padamanjari

हलसूकरयोः पुवः॥ तच्चेत्करणं हलसूकरयोरवयवो भवतीति। एतेन हलसूकरयोरभिधेयत्वमुपपदत्वं च निरस्यति। मुखमुच्यते इति। नान्यः कर्णादिः। एतदपि स्वभावादेव लभ्यते॥

Nyaas

तच्चेत् करणं हलशूकरयोरवयवो भवति इति। एतेन हलशूकरयोरित्येषाऽवयवषष्ठी, नत्वभिधेयसप्तमीति दर्शयति। {मुखमुच्यते - काशिका, पदमञ्जरी च} मुखमेवोच्यते इति। नान्यः कर्णाद्यवयवः। एतच्चाभिधानशक्तिस्वाभाव्यात्॥

Prakriyasarvasvam

एतयोरङ्गे वाच्ये पुवः करणे ष्ट्रन् । भूशोधनसाधनत्वाद्धलसूकरयोर्मुखं पोत्रम् ॥

Sutra Prayogas

  • पित्रनिकषणविभिन्नभुवं (किरातार्जुनीयम्): हलसूकरयोः पुवः इति ष्ट्रन्प्रत्ययः।