32129: ताच्छील्यवयोवचनशक्तिषु चानश्

Padacheda: ताच्छील्य-वयोवचन-शक्तिषु | S | 7 | 3 |

चानश् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix चानश् comes after a verb in expressing ‘habit’, standard of age’ and ‘inability’.

Vasu English Translation

The affix चानश् comes after a verb in expressing ‘habit’, standard of age’ and ‘inability’. The word ताच्छील्य means ‘habit’ or ‘disposition’; वयः means the condition of body such as ‘infancy’, ‘youth’ & c; शक्ति means ‘capacity to do a thing’. As भोगं भुञ्जानः ‘habituated to enjoy’; कवचं बिभ्राणः ‘wearing an armour (of the age at which armour may be worn)’; शत्रुं निघ्नानः ‘able to destroy his foe’. So also, कतीह मुण्डयमानाः, भूषयमानाः, कवचं पर्यस्यमानाः, शिखण्डं वहमानाः and पचमानाः।

Kashika

ताच्छील्यं तत्स्वभावता। क्यः शरीरावस्था यौवनादिः। शक्तिः सामर्थ्यम्। ताच्छील्यादिषु धातोश्चानश् प्रत्ययो भवति। ताच्छील्ये तावत् — कतीह मण्डयमानाः। कतीह भूषयमाणाः। वयोवचने — कतीह कवचं पर्यस्यमानाः। कतीह शिखण्डं वहमानाः। शक्तौ — कतीह निघ्नानाः। कतीह पचमानाः॥

Siddhanta Kaumudi

एषु द्योत्येषु कर्तरि चानश् । भोगं भुञ्जानः । कवचं बिभ्राणं । शत्रून्निघ्नानः ॥

Balamanorama

ताच्छील्यवयोवचनशक्तिषु चानश् - ताच्छील्य । चानशि शचावितौ । भोगं भुञ्जान इति । भोगशील इत्यर्थः । कवचं विभ्राण इति । यौवनबालदिति भावः । शत्रुं निघ्ना इति । निहन्तुं शक्त इत्यर्थः । अतः परत्वाऽभावान्न मुक् । चानशो लादेशत्वाऽभावादनामत्मनेपदत्वात् परस्मैपदिभ्योऽपि प्रवृत्तिः ।

Tattvabodhini

ताच्छील्यवयोवचनशक्तिषु चानश् - ताच्छील्य । वचनग्रहणं स्पष्टार्थम् ।चानशो लादेशत्वाऽभावेनाऽत्मनेपदत्वाऽभावात्परमैपदिभ्योऽपि विधानमिति ध्वनयन्नुदाहरति — निघ्नान इति ।गमहने॑त्युपधालोपः ।

Padamanjari

ताच्छील्यवयोवचनशक्तिषु चानश्॥ मण्डयमाना इत्यादि।’मडि भूषायाम्’ ‘भूष अलङ्कारे’ चुरादी, ठसु क्षेपणेऽ,पर्यासःऊउसन्नहनम्, शिखापर्यायः शिखण्डशब्दः। वचनग्रहणं विस्पष्टार्थम्॥

Nyaas

मण्डमानाः इति। मडि भूषायाम् (धातुपाठः-321), इदित्त्वान्नुम्। हेतुमण्णिच्। भूषयमाणाः इति। भूष अलङ्कारे (धातुपाठः-682), चुरादिणिच्। कवचं पर्यस्यमानाः`इति। दिवादित्वाच्छ्यन्। तदेव वयो गम्यते तत्र स्थिताः कवचं पर्यस्यन्ते। कवचम् = सन्नाहम्। `शिखण्डं वहमानाः`इति। अत्रापि तथाविधं वयो गम्यते यत्र वर्तमानाः शिखण्डं वहन्ति। शिखण्ण्टः = चूडा। वचनग्रहणं वैचित्र्यार्थम्, विनापि हि तेन वयसि गम्यमाने प्रत्ययो लभ्यत एव, यथा च `वयसि च (3.2.10) इत्यत्र। निघ्नानाः इति। हननशक्तिरिति गम्यते॥

Prakriyasarvasvam

एषु द्योत्येषु सर्वधातोश्चानश् स्यात् । तेन परस्मैपदिभ्योऽपि— <karika>सहैव चरमाणौ द्वौ वहमानौ मितं धनुः । जयमानौ च रक्षांसि राघवौ मुनिमन्वितौ ॥ १२६ ॥</karika>

Sutra Prayogas

  • लोलमानवितताङ्गुलिहस्तैः (शिशुपालवधम्): ताच्छील्यवयोवचनशक्तिषु चानश् इति चानश् प्रत्ययः।

  • लोलमानं (शिशुपालवधम्): ताच्छील्यवयोवचनशक्तिषु चानश् इति ताच्छील्ये चानश् प्रत्ययः।

  • सोढुम-शक्नुवाना (भट्टिकाव्यम्): ताच्छील्यवयोवचन इति चानशू ।

  • दीव्यमानं (भट्टिकाव्यम्): ताच्छील्य- वयोवचन इत्यादिना शानच्।

  • ईशानं (भट्टिकाव्यम्): ताच्छील्यवयोवचनशक्तिषु चानश् इति चानश्-प्रत्ययः।

  • आप्यायितारं (भट्टिकाव्यम्): अनुदात्तेतश्च - इति प्राप्ते।