32084: भूते¶
Padacheda: भूते | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
All the affixes to be treated of hereafter should be understood to come in the sense of past time.
Vasu English Translation¶
All the affixes to be treated of hereafter should be understood to come in the sense of past time. The phrase ‘with the sense of past time’ is an adhikara or governing aphorism and exerts its influence up to aphorism 123 of this chapter; that is to say, these affixes give a signification of the past tense to the verb whose anuvritti is also understood throughout the subsequent sutras; see (3.1.91).
Thus it will be taught in the next aphorism: ‘after the verb यज्, when the word in composition is in the instrumental case, the affix णिनि is employed’. Here to complete the sense we must read into the sutra, the words ‘with the sense of past time’. As अग्निष्टोमेनेष्टवान् = अग्निष्टोमयाजिन् ‘who has sacrificed with an Agnishtoma or a five-day series of offerings’.
Why do we say ‘with the sense of past time’ ? Otherwise these affixes will not be employed. As अग्निष्टोमेन यजति ‘he sacrifices with Agnishtoma’.
Bhashya¶
भूते (851) (506 अधिकारसूत्रम्॥ 3 । 2 । 2 आ.1) (भूतपदार्थविशेष्यभूतपदार्थनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) भूत इत्युच्यते। कस्मिन् भूते?। (समाधानभाष्यम्) काले। (भाष्यम्) न वै कालाधिकारोस्ति॥ (भाष्यम्) एवं तर्हि धातोरिति वर्तते। धातौ भूते॥ (भाष्यम्) धातुर्वै शब्दः। न च शब्दस्य भूत भविष्यद्वर्तमानतायाः संभवोस्ति॥ (आक्षेपवार्तिकशेषभाष्यम्) यद्येवं। (2065 आक्षेपवार्तिकम्॥ 1 ॥) - निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः- (भाष्यम्) निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः स्यात्॥ का इतरेतराश्रयता?। भूतकालेनायं शब्देन निर्देशः। क्रियते। निर्देशोत्तरकालं च भूतकालता। तदेतदितरेतराश्रयं भवति॥ इतरेतराश्रयाणि कार्याणि च न प्रकल्पन्ते॥ (2066 समाधानवार्तिकम्॥ 2 ॥) - अव्ययनिर्देशात्सिद्धम्- (भाष्यम्) अव्ययवता शब्देन निर्देशः करिष्यते। अवर्तमाने अभविष्यतीति। (अनुयोगभाष्यम्) स तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः?। (समाधानभाष्यम्) न कर्तव्यः। अव्ययमेष भूतेशब्दः। नैषा भवतेर्निष्ठा॥ कथमव्ययत्वम्?। उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा। निपाताव्ययमित्यव्ययसंज्ञा॥ (निष्ठापक्षेपि समाधानभाष्यम्) अथापि भवतेर्निष्ठा। एवमप्यव्ययमेव। कथम्?। नव्येतीत्यव्ययमिति। क्व पुनर्न व्येति?। एतौ कालविशेषौ भविष्यद्वर्तमानौ। स्वभावतो भूते एव वर्तते॥ (वार्तिकावतरणभाष्यम्) यदि तर्हि न व्येतीत्यव्यम् - - (2037 अधिकारवैर्य्यथ्याक्षेपवार्तिकम्॥ 3 ॥) - न वा तद्विधानस्यानन्यत्राभावात्- (भाष्यम्) न वा भूताधिकारेणार्थः। किं कारणम्?। तद्विधानस्यान्यत्राभावात्। येऽपि ह्येते इत उत्तरं प्रत्ययाः शिष्यन्ते तेऽप्येतौ कालविशेषौ न वियन्ति भविष्यद्वर्तमानौ। स्वभावतो भूत एव वर्तन्ते॥ (समाधानवार्तिकावतरणभाष्यम्) अत उत्तरं पठति - - (2038 समाधानवार्तिकम्॥ 4 ॥) (- प्रयोजनं कुमारघाती शीर्षघाती आखुहा बिडालः सुत्वानः सुन्वन्तः सुषुपुषोऽनेहाः अग्निमादधानस्य-) (भाष्यम्) भूताधिकारस्य प्रयोजनम्। कुमारघाती, शीर्षघाती, आखुहा बिडालः, सुत्वानः सुन्वन्तः सुषुपुषोऽनेहाः अग्निमादधानस्य (भूतकालनिवृत्त्यर्थेभविष्यद्वर्तमानकालसंप्रत्ययार्थम्?)॥ कुमारघाती शीर्षघातीति भविष्यद्वर्तमानार्थो भूतनिवृत्त्यर्थः॥ आखुहा बिडाल इति भवतिष्यद्वर्तमानार्थो भूतनिवृत्त्यर्थः। इतरथा हि ब्रह्मादिनियमस्त्रिषु कालेषु निवर्तकः स्यात्॥ सुत्वानः सुन्वन्तः। यज्ञसंयोगे ङ्वनिपस्त्रिषु कालेषु शतापवादो मा भूत्॥ सुषुपुषः। नजिङ् सर्वकालापवादो मा भूत्॥ अनेहा इति वर्तमानकाल एव। अन्यत्र अनहन्ता॥ आदधानस्य कानचश्चानश् ताच्छील्यादिषु सर्वकालापवादो मा भूत्। अग्निमादधानस्येत्येवान्यत्र भूते॥ 84 ॥
Kashika¶
भूत इत्यधिकारो वर्तमाने लट् (३.२.१२३) इति यावत् । यदित ऊर्ध्वमनु — क्रमिष्यामो भूत इत्येवं तद् वेदितव्यम्। धात्वधिकाराच्च धात्वर्थे भूत इति विज्ञायते। वक्ष्यति — करणे यजः (३.२.८५) — अग्निष्टोमेनेष्टवान् अग्निष्टोमयाजी। भूत इति किम्? अग्निष्टोमेन यजते॥
Siddhanta Kaumudi¶
अधिकारोऽयम् । वर्तमाने लट् (SK2151) । इति यावत् ॥
Balamanorama¶
भूते - भूते । अधिकारोऽयमिति । धातोरित्यधिकृतम् । ततश्च भूतार्थवृत्तेर्धातोरित्युत्तरत्राऽनुवर्तते इति फलति । वर्तमाने इति ।वर्तमाने ल॑डित्यतः प्रागित्यर्थः । अत्र व्याख्यानमेव शरणम् ।
Tattvabodhini¶
भूते - भूते । धातोरित्यधिकाराद्धात्वर्थस्य विशेषणमिद् । भूतेऽर्थे विद्यमानाद्धातोरित्यर्थः ।
Padamanjari¶
भूते॥ यस्य सता व्यपवृक्ता तत्सर्व भूतशब्देनोच्यते, तत्र न ज्ञायते कस्मिन् भूते? किं वा धात्वर्थे? तत्राह - धात्वधिकाराच्चेति। चशब्दः पूर्वोक्तेनार्थेनास्य सङ्गतिं द्योतयति। धात्वर्थभूत इति। ननु धात्वधिकाराद्धातौ भूत इति युक्तम्, न धात्वर्थे भूत इति? उच्यते - प्रयोगे प्रत्ययस्य द्योत्यं भूतत्वमर्थस्यैव विशेषणं भवितुर्हति, विशेषणान्तरवत्, न तु शब्दस्य; तस्य स्वाभिधेयप्रतिपादने व्यग्रत्वाद्विशेषणसम्बन्धं प्रत्ययोग्यत्वात्। किञ्च - नित्योधातुरनित्यत्वेऽपि भूतात्प्रत्ययविदिरनुपपन्नः, उच्चारितलक्षणे भूतत्वे विशेषणं व्यर्थ तर्ह्यनुच्चारितात्प्रत्ययविधिः सम्भवति। नित्यश्चायं भूतशब्दोऽतिक्रान्तवाचीति निष्ठायामितरेतराश्रयत्वादप्रसिद्धिरित्यचोद्यम्॥
Nyaas¶
भूतशब्दोऽयमतिक्रान्तवचनः, अस्ति च स्वरूपवचनः, तत्र न ज्ञायते - कस्मिन् भूते प्रत्यय इति? अतस्तत्पज्ञानायाह - `धात्वधिकाराच्च`इत्यादि। चशब्दो हेतौ। यस्माद् धातोरिति वर्तते तस्माद्धात्वर्थभूत इति विज्ञायते। ननु च धात्वधिकाराद्धातोरेव भूत इत्येतद्विशेषणं युक्तम्? न; असम्भवात्। धातोह्र्रस्मिन्नभिधेये गुणीभूतस्य भूत इत्येतद्विशेषणमनुपपन्नम्। अतस्तत्रासम्भवात् तदर्थस्यैव तद्विशेषणं विज्ञायते॥
Prakriyasarvasvam¶
इतः परं लटः प्राग् भूतेऽर्थे प्रत्ययाः ॥