32081: बहुलमाभीक्ष्ण्ये¶
Padacheda: बहुलम् | S | 1 | 1 |
आभीक्ष्ण्ये | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix णिनि comes after a verb diversely when continued repitition of an action is to be expressed.
Vasu English Translation¶
The affix णिनि comes after a verb diversely when continued repitition of an action is to be expressed. The word आभीक्ष्ण्य means continued repetition, that is to say, zealous practice or assiduous performance of anything, but does not mean habit. As कषायपायिणो गान्धाराः ‘the people of Gandhara are kashaya-drinkers’. कषाय + पा + णिनि = कषाय + पा + युक् + णिनि (7.3.33). So also क्षीरपायिण उशीनाराः ‘the people of Usinara are milk-drinkers’. सौवीर-पायिणो बाह्लीकाः ‘the people of Bahlika are sauvira-drinkers’.
By using the word ‘diversely’ in the sutra, this affix is not applied in other places, as in the following :- कुल्माषखादः ‘a grain eater’.
Kashika¶
आभीक्ष्ण्ये गम्यमाने धातोर्बहुलं णिनिः प्रत्ययो भवति। आभीक्ष्ण्यं पौनःपुन्यम्, तात्पर्यमासेवैव, ताच्छील्यादन्यत्। कषायपायिणो गान्धाराः। क्षीरपायिण उशीनराः। सौवीरपायिणो बाह्लीकाः। बहुलग्रहणात् कुल्माषखाद इत्यत्र न भवति॥
Siddhanta Kaumudi¶
पौनःपुन्ये द्योत्ये सुप्युपपदे णिनिः । क्षीरपायिण उशीनराः ॥
Balamanorama¶
बहुलमाभीक्ष्ण्ये - बहुलमाभीक्ष्ण्ये । जातावप्युपपदे प्राप्त्यर्थमिदम् । तद्ध्वनयन्नुदाहरति — क्षीरपायिण इति ।
Padamanjari¶
बहुलमाभीक्ष्ण्यो॥ आभीक्ष्ण्यं पौनः पुन्यमिति। पुनः पुनर्भवितरि वर्तमानाभ्यामव्ययाभ्यां भावे ष्यञ्, अव्ययानां भमात्रे टिलोपः। ताच्छील्यादन्यदिति। एतेनठ्सुप्यजातौऽ इत्यनेनागतार्थत्वं दर्शयति। फलानपेक्षा प्रवृत्तिःउताच्छील्यम्। गान्धारादयस्तु वातादिसाम्यार्थ देशाचारवशेन कषायादिपाने प्रवर्तन्ते। उदाहरणेषु ठातो युक् चिण्कृतोःऽ इति युक्,’प्रातिपदिकान्तनुम्विभक्तिषु च’ इति णत्वम्॥
Nyaas¶
आभीक्ष्ण्यं पौनःपुन्यम् इति। पुनः पुनर्भावः पौनःपुन्यमिति, अव्ययानां भमात्रे टिलोपः। तात्पर्यमासेवैव इति। तदेवाभीक्ष्ण्यम्। पर्यायान्तराभ्यां स्पष्टीकरोति - {ताच्छील्यादन्यत् - काशिका, पदमंजरी च।} ताच्छील्यादन्यः इति। एतेन सुप्यजातौ (3.2.78) इत्यादिनाऽऽभीक्ष्ण्ये न सिध्यतीत्यसामर्थ्यमुद्भावयन्नस्य योगस्य फलं दर्शयति - कषायपायिणः`इति। यत्र देशे कषायं पुनः पुनः पिबतामारोग्यं भवति, अतस्ते कषायं पिबन्तीति, न तु ताच्छील्यात्। `क्षीरपायिणः`इति। तेऽपि तथोक्तादेव कारणात् पानान्तराभावाद्वा ताच्छील्याभावेऽप्यगत्या क्षीरं पिबन्ति। `सौवीरपायिणः इति। अत्राप्येतदेवानन्तरोक्तं पुनः पुनः सौवीरपानस्य कारणम्। सर्वत्र आतो युक् चिण्कृतोः (7.3.33) इति युक्। प्रातिपदिकान्तनुम् (8.4.11) इत्यादिना णत्वम्। कुल्माषखादः इति। कर्मण्यण् (3.2.1) ॥
Prakriyasarvasvam¶
आभीक्ष्ण्यं पौनःपुन्यम् । तस्मिन् द्योत्ये जातावपि सुपि पूर्वे बहुलं णिनिः स्यात् । क्षीरपायी । चापयोधी । जात्युपपदे पूर्वेणाप्राप्तेष्वयं णिनिर्ज्ञेयः । बहुलोक्तेर्यथादृष्टमेव । न सर्वत्र ।
Sutra Prayogas¶
सकलभुवनाभितापिनः (किरातार्जुनीयम्): बहुलं आभीक्ष्ण्ये इति णिनिः।
विसारिभिः (शिशुपालवधम्): बहुलमाभीक्ष्ण्ये इति णिनिः।
प्रभाविनम् (शिशुपालवधम्): बहुलं आभीक्ष्ण्ये इति णिनिः।
मधु-पायिन्यः (भट्टिकाव्यम्): बहुलमाभीक्ष्ण्ये इति णिनिः।