32066: हव्येऽनन्तः पादम्

Padacheda: हव्येः | S | 7 | 1 |

अनन्तःपादम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ञ्युट् comes in the छन्दस् (Vedas) after the verb वह् ‘to carry’ when it is in composition with the word हव्य ‘an oblation to gods’, provided that the word so formed does not occur in the middle of a पाद (4th part of a stanza).

Vasu English Translation

The affix ञ्युट् comes in the छन्दस् (Vedas) after the verb वह् ‘to carry’ when it is in composition with the word हव्य ‘an oblation to gods’, provided that the word so formed does not occur in the middle of a पाद (4th part of a stanza). As अग्निश्च हव्यवाहनः ‘fire, the carrier of oblation to the gods’. (Rig. Ved. I.44.2).

When this word occurs in the middle of a pada, or at the beginning, the form is हव्यवाट्, which is derived by adding the affix ण्वि (sutra (64)). As हव्यवाडग्निरजरः पिता नः ‘the never-decaying agni or fire that carries oblation to the gods, is our father’. (Rig. Ved. III.2.2.)

Kashika

हव्यशब्द उपपदे छन्दसि विषये वहेर्धातोर्ञ्युट् प्रत्ययो भवति, अनन्तः पादं चेद् वहिर्वर्तते। अ॒ग्निश्च॑ हव्य॒वाह॑नः॒ (शौ०सं०७.२०.१)। अनन्तः पादमिति किम्? ह॒व्य॒वाड॒ग्निर॒जरः॑ पि॒ता नः॑ (ऋ० ५.४.२)॥

Siddhanta Kaumudi

अग्निश्च हव्यवाहनः (अ॒ग्निश्च॑ हव्य॒वाह॑नः) । पादमध्ये तु वहश्च (SK3410) इति ण्विरेव । हव्यवाळग्निरजरः पिता नः (ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नः॑) ॥

Nyaas

अनन्तःपादम् इति। अन्तः शब्दो मध्यशब्देन समानार्थः। अन्तःपादमिति पादस्य मध्य इत्यर्थ-। अव्ययं विभक्ति (2.1.6) इत्यादिना विभक्त्यर्थेऽव्ययीभावः - न अन्तःपादमनन्तःपादमिति। एतच्च वहेः प्रकृतत्वात् तस्यैव विशेषमं विज्ञायत इत्यत आह - अनन्तःपादञ्चेद्वहिर्वर्तते`इति। छन्दसीत्यनुवृत्तेः पादशब्द ऋक्पादं बोधयति। ऋक्पादमध्ये वहिर्न वर्तत इत्यर्थः। प्रत्युदाहरणे पादमध्ये वहिर्वर्तत इति तेन `वहश्च (3.2.64) इति ण्विरेव भवति॥

Prakriyasarvasvam

अपादमध्य चेद् हव्यपूर्वाद्वहेः ञ्युट् स्यात् । अग्निश्च हव्यवाहनः । पादमध्य- स्थवहेस्तु ण्विरेव । हव्यवाडग्निरजिरः । ण्विस्तु पादान्तेऽप्यस्ति । अग्निर्यज्ञस्य हव्यवाट् ।