32039: द्विषत्परयोस्तापेः¶
Padacheda: द्विषत्-परयोः | S | 7 | 2 |
तापेः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix खच् comes after the verb ताप् ‘to heat’ when द्विषत् or पर is the word in composition with it as an object.
Vasu English Translation¶
The affix खच् comes after the verb ताप् ‘to heat’ when द्विषत् or पर is the word in composition with it as an object. The verb तप् belongs both to Bhu and Chur classes. Both are meant in the sutra. In the case of Bhvadi, the verb तापि is the causative ending in णि of तप्; while in Churadi, all verbs take णि.
Thus द्विषन्तं तापयति = द्विषन्तपः (6.4.94) ‘one who destroys his enemies’, so also परन्तपः ‘one who subdues his enemies, a hero’.
This affix however, will not apply when the above upapadas are in the feminine gender. In this case the general affix अण् will be employed; as द्विषतीं तापयति = दिषतीतापः ।
Kashika¶
द्विषत्परयोः कर्मणोरुपपदयोस्तापेर्धातोः खच् प्रत्ययो भवति। तप दाहे चुरादिः, तप संतापे भ्वादिः। द्वयोरपि ग्रहणम्। द्विषन्तं तापयति द्विषन्तपः। परन्तपः। द्विषत्परयोरिति द्वितकारको निर्देशः। तेन स्त्रियां न भवति। द्विषतीं तापयति द्विषतीतापः॥
Siddhanta Kaumudi¶
खच्स्यात् ॥
Balamanorama¶
द्विषत्परयोस्तापेः - द्विषन्तप इति । ‘अरुर्द्विष’ दित तकारात्प्राक् मुम् । परन्तप इति । परः - शत्रुः । ननु लिङ्गविशिष्टपरिभाषया द्विषतीशब्देऽप्युपपदे तापेः खचि ‘द्विषतीतप’ इति स्यात् ‘द्विषतीताप’ इत्यण्णन्तं न स्यादित्यत आह — घटघटीति ।शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुष्षु ग्रहेरुपसङ्ख्यान॑मित्यत्र घटग्रहणेनैव लिङ्गविशिष्टपरिभाषया घटीशब्दस्यापि सिद्धे पुनर्घटीग्रहणाल्लिङ्गविसिष्टपरिभाषा अनित्येति विज्ञायते इत्यर्थः ।उपपदविधौ लिङ्गविशिष्टपरिभाषा ने॑ति ङ्याप्पसूत्रे भाष्याच्चेत्यपि द्रष्टव्यम् ।
Tattvabodhini¶
द्विषत्परयोस्तापेः - द्विषन्तप इति ।अरुर्द्विषदि॑ति मुमि कृते संयोगान्तलोपः ।
Padamanjari¶
द्विपत्परयोस्तापेः॥ द्विषन्तप इति। मुमि संयोगान्तलोपः। द्वितकारको निर्देश इति। तत्रैकेन द्विषच्छब्दो विशेष्यते - -तकारान्तो यो द्विषच्छब्द इति, सौत्रत्वान्निर्द्देशस्य विशेषणस्य परनिपातः। तेन स्त्रियां न भवतीति। अन्यथा लिङ्गविशिष्टपरिभाषया स्यादेव प्रसङ्ग इति भावः॥
Nyaas¶
द्वयोरपि ग्रहणम् इति। ण्यन्तावस्थायां विशेषाभावात्। द्वितकारको निर्देशः`इति। `द्विषत्परयोः`इति निर्देशे द्वौ तकारौ,तत्रैको द्विषच्छब्दस्यावयवः, तेन द्विषच्छब्दो विशिष्यते - द्विषच्छब्द उपपदे तकारान्त इति। `तेन स्त्रियां न भवति इति। स्त्रीप्रत्ययान्तस्तकारान्तो न भवति। असति तु द्वितीये तकारे प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति (व्या।प।29) इति स्त्रयियामपि स्यात्। {द्विषतीकाशिका} द्विषती इति। उगितश्च (6.3.45) इति ङीप्। उगित्त्वन्तु द्विषच्छब्दस्य द्विषोऽमित्रे (3.2.131) इति शत्रन्तत्वात्॥
Prakriyasarvasvam¶
ण्यन्तादस्मात् खच् ।
Sutra Prayogas¶
परंतपः (रघुवंशम्): द्विषत्परयोस्तापेः इति खच्प्रत्ययः।
परंतपः (रघुवंशम्): द्विषत्परयोस्तापेः इति खच्प्रत्ययः।
परं-तपः (भट्टिकाव्यम्): द्विपत्परयोस्तापेः इति खच् ।
परं-तप (भट्टिकाव्यम्): द्विषत्परयोस्तापेः इति खच्-प्रत्ययः।