32031: उदि कूले रुजिवहोः

Padacheda: उदि | S | 7 | 1 |

कूले | S | 7 | 1 |

रुजि-वहोः | S | 6 | 2 |

Sutrartha


Vasu English Summary

The affix खश् comes after the verbs रुजि ‘to break into pieces’ and वह् ‘to carry’, when preceded by the उपसर्ग उत् and the word कूल ‘bank’ is in composition with them as the object.

Vasu English Translation

The affix खश् comes after the verbs रुजि ‘to break into pieces’ and वह् ‘to carry’, when preceded by the उपसर्ग उत् and the word कूल ‘bank’ is in composition with them as the object. Thus कूलमुद्रुजति = कूलमुद्रुजः ‘breaking down banks’ (such as a chariot, river, elephant, &c.); कूलमुद्वहः ‘tearing up or carrying away the bank’.

Kashika

रुजो भङ्गे वह प्रापणे इत्येताभ्यामुत्पूर्वाभ्यां कूले कर्मण्युपपदे खश् प्रत्ययो भवति। कूलमुद्रुजतीति कूलमुद्रुजो रथः। कूलमुद्वहः॥

Siddhanta Kaumudi

उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्युपपदे खश् स्यात् । कूलमुद्रुजतीति कूलमुद्रुजः । कूलमुद्वहः ॥

Balamanorama

उदि कूले रुजिवहोः - उदि कूले । उदीति दिग्योगपञ्चम्यर्थे सप्तमी । रुजिवहोरिति पञ्चम्यर्थे षष्ठी । ‘रुजो भङ्गे’ तुदादिः । अत्र रुजेः सकर्मकत्वात्कर्मण्युपपदे इति लब्धं, तेन कूलं विशेष्यते, न तू च्छब्दः, तस्याऽसत्त्ववाचित्वात् । तदाह — उत्पूर्वाभ्यामित्यादि । कूलमुद्रुज इति । सुपो लुकि मुमिति भावः ।

Tattvabodhini

उदि कूले रुजिवहोः - उदि कूले । ननु कूलस्येवोच्छब्दस्यापि सप्तम्यन्त्वादुपपदत्वं सयात्ततश्च रुजिवहिभ्यां सह यथासङ्ख्यं स्यादिति चेत् । अत्राहुः- नाडीमुष्टओरितिवल्लाघवादुत्कूलयोरिति वक्तव्ये उदीति व्यस्तोच्चारणान्नोपपदम् । एवं चोदीति पञ्चम्याः स्थानेसप्तमी, रुजिवहोरिति तु पञ्चम्याःस्ताने षष्ठीति । एतच्च यथासङ्ख्यसूत्रे कैयटे स्पष्टम् । किंच रुजेः सकर्मकत्वात्कर्मणीत्युपतिष्ठते, तेन कूलं विशेष्यते, नोच्चब्दः, असत्त्ववाचित्वनाऽसंभवात् । तदेतदाह — उत्पूर्वाभ्यामित्यादिना ।

Padamanjari

उदि कूले रुजिवहोः॥ यत्र प्रत्येकमुपपदत्वमिच्छति तत्र समुदायात्सप्तमीमुच्चारयति, यथा - नाडीमुष्ट।लेरिति। इह तु विपर्ययः कृतः; तस्मात् ठुदिऽ इति सत्सप्तमी।’कूले’ इति त्वर्थनिरपेक्षैवोपपदसंज्ञायां लिङ्गम्। तत्र च’ते प्राग्धातोः’ इति उच्छशब्दस्य धातोः प्राक् प्रयोगः। ततः पूर्वः कूलशब्दः। तदेतद्दर्शितम् - उत्पूर्वाभ्यां कूले कर्मण्युपपद इति॥

Nyaas

उदि इति। सप्तमीयम्- उदि सति। तत्रोत्कूलशब्दयोर्विषयव्यवस्था द्रष्टव्या। ते प्राग्धातोः (1.4.80) इति वचनाद्धातोरनन्तरमुत्शब्दः, तस्मात् पूर्वः कूलशब्द इति। अथ वा - { उदिति - मुद्रितः पाठः} उदीति परसप्तमी - उदि परतः कूलशब्दस्योपपदत्व इति। अथोच्छब्दस्याप्युपपदसंज्ञा कस्मान्न भवति, प्रत्येकं सप्तम्युच्चारणात्? एषा ह्राचार्यस्य शैली यत्र प्रत्येकमुपपदत्वमस्ति तत्र समुदायात् सप्तमीमुच्चारयति, यथा - `नाडीमुष्ट्योः (3.2.30) इति। इह तु विपर्ययः कृत इति न भवत्युपपदत्वम्। अपि च रुजिवहोः सकर्मकत्वात् कर्मणीतीहोपतिष्ठते। न चोच्छब्दसय् कर्मत्वं सम्भवति असत्त्ववाचित्वात्। कुतस्तस्योपपदत्वम्। `कूलमुद्रुजः इति। तुदादित्वाच्छः` कूलमुद्वहः इति। शप्॥

Prakriyasarvasvam

उत्पूर्वयो रुजिवहोः कूले चोपपदेऽस्ति खश् । <karika>कूलमुद्रुज उक्षासौ महोर्मिः कूलमुद्वहः ॥ ८४ ॥</karika> उत्क्रम्य प्रवहन्नुद्वरन् वा । रुजेस्तुदादितया शे कृते गुणाभावः ।

Sutra Prayogas

  • कूलमुद्रुजाः (रघुवंशम्): उदि कूले रुजिवहोः इति खश्प्रत्ययः।