32014: शमि धातोः संज्ञायाम्¶
Padacheda: शमि | S | 7 | 1 |
धातोः | S | 5 | 1 |
संज्ञायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अच् is used after the verbal roots when शम् ‘well’ is in composition and the word to be formed denotes a name.
Vasu English Translation¶
The affix अच् is used after the verbal roots when शम् ‘well’ is in composition and the word to be formed denotes a name. As शम् + कृ + अच् = शङ्करः lit. ‘who does good’. So also सम्भवः संवहः । All these are proper nouns.
Why have we repeated the word dhatu in this aphorism, when it was understood by anuvritti from sutra (3.1.91)? To this the reply is, that the repetition of the word dhatu shows that there is prohibition of the affix ट, that comes after the verb कृ in certain senses (3.2.20), when the word शम् is in composition. The affix अच् will be employed after the verb कृ and not the affix ट्, when शम् is an upapada, even when the sense to be indicated is that of cause, habit &c. (3.2.20). The result is that the feminine of शङ्कर will be शङ्करा, and not शङ्करी, which, had the affix been ट, would have been the proper feminine (See (4.1.14)). शङ्करा means ‘a female-ascetic’, ‘a vulture’ and ‘one having the habit of doing good’.
Bhashya¶
शमि धातोः संज्ञायाम् (789) (476 अच्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आ.8) (आक्षेपभाष्यम्) धातुग्रहणं किमर्थम्?। (2018 समाधानवार्तिकम्॥ 1 ॥) - शमि संज्ञायां धातुग्रहणं कृञ्ञो हेत्वादिषु टप्रतिषेधार्थम्- (भाष्यम्) शमि संज्ञायां धातुग्रहणं क्रियते कृञ्ञो हेत्वादिषु टो मा भूदिति। शमि संज्ञायां धातोरज्भवतीत्यस्यावकाशः शंभवः शंवदः। टस्यावकाशः - श्राद्धकरः पिण्डकारः। शंकरा नाम परिव्राजिका शंकरा नाम शकुनिका तच्छीला च, तस्यामुभयं प्राप्नोति। परत्वाटः स्यात्॥ धातुग्रहणसार्मथ्यादजेव भवति॥ (वार्तिकोक्तप्रयोजनप्रत्याख्यानभाष्यम्) कुरणवाडवस्त्वाह - नैषा शंकरा। शंगरा एषा॥ कुत एतत्?। गृणातिः शब्दकर्मा। तस्यैष प्रयोगः॥ शमि धातो॥ 14 ॥
Kashika¶
शम्युपपदे धातुमात्रात् संज्ञायां विषयेऽच् प्रत्ययो भवति। शंकरः। शंभवः। शंवदः। धातुग्रहणं किं यावता धातोरिति वर्तते एव? शमि संज्ञायामिति सिद्धे धातुग्रहणं कृञो हेत्वादिषु टप्रतिषेधार्थम्। शंकरा नाम परिव्राजिका। शंकरा नाम शकुनिका। तच्छीला च॥
Siddhanta Kaumudi¶
शम्भवः । शंवदः । पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम् । कृञो हेत्वादिषु टो मा भूत् । शंकरा नाम परिव्राजिका तच्छीला ॥
Balamanorama¶
शमि धातोः संज्ञायाम् - शिमि दातोः ।शमी॑ति सप्तम्यन्तम् । ‘श’ मिति सुखार्थकमव्ययम् । तस्मिन्नुपपदे दातोरच् स्यात्संज्ञायाम् । ननु धातुग्रहणं व्यर्थम्, न च रमिजपोरननुवृत्त्यर्थं तदिति वाच्यम्, अस्वरितत्वादेव तदननुवृत्तिसिद्धेरित्यत आह — पुनर्धातुग्रहणमिति ।कृञो हेतुताच्छील्यानुलोम्येषु॑ इति टप्रत्ययोऽच्प्रत्ययबाधको वक्ष्यते, तद्बाधनार्थमित्यर्थः ।
Tattvabodhini¶
शमि धातोः संज्ञायाम् - शमि धातोः । शमि उपपदे धातुमात्रात्संज्ञायामच् स्यात् । पुनर्धातुग्रहणमिति । असति धातुग्रहणेशमि संज्ञाया॑मित्यस्यावकाशः, — संभवः । शंवदः ।कृञो हेतुताच्छील्ये॑त्यस्यावकाशः — ॒श्राद्धकरः॑ ।शङ्कर॑ इत्यत्रोभयप्रसङ्गे परत्वाट्ट एव स्यात् । धातुग्रहणे कृते तु तत्सामर्थ्यादजेव भवति । तदाह — शङ्करा नामेत्यादि । अनधिकरणार्थमुपसङ्ख्यानमिति दर्शयति —
Padamanjari¶
शमि धातोः संज्ञायाम्॥ धातुमात्रादिति। मात्रग्रहणेनापवादविषयेऽपि विधानं भवतीति दर्शयति। शङ्कर इति। एहिकमामुष्मिकं मोक्षाख्यं च सुखं करोतीति शङ्करः। धातुग्रहणस्य प्रयोजनं दर्शयन्मात्रग्रहणप्रतिपादितमेवार्थ स्पष्टीकरोति - शमिसंज्ञायामिति। अस्मिन्सूत्र इत्यर्थः। असति धातुग्रहणे शमिशंज्ञायामित्यस्यावकाशः - शम्भवः, शंवद इति,’कृञो हेतुताच्छील्ये’ इत्यस्यावकाशः - श्राद्धकर इति; शङ्करा इत्यत्रोभयप्रसङ्गे परत्वाट्ट एव स्याद्, धातुग्रहणसामर्थ्यादजेव भवति। कुण्डखाडवस्त्वाचार्यो मन्यते - गृणातेः शब्दकर्मण एतद्रूपम्, पृषोदरादित्वाद्रकारस्य ककार इति, तन्मते धातुग्रहणं चिन्त्यप्रयोजनम्॥
Nyaas¶
धातुमात्रात् इति। धातुमात्रग्रहणेनापवादविषयेऽपि विधानं दर्शयति। एवं हि धातुमात्राद्भवति, यद्यप्यपवादं बाधित्वा तद्विषयेऽपि भवति। एष चार्थो धातुग्रहणाल्लभ्यते। शमि संज्ञायाम् इत्यादिना धातुग्रहणस्य प्रयोजनं दर्शयनम्, धातुप्रतिपादितमर्थं स्पष्टीकरोति - शमि संज्ञायाम् इति। सूत्रोपलक्षणमेतत्। शमि धातोः संज्ञायाम् इत्यस्मिन् सूत्र इत्यर्थः। हेत्वादिषु इति। आदिशब्देन ताच्छील्यानुलोम्ययोग्र्रहमम्। शम्युपपदे करोतेः संज्ञायां हेत्वादिषु विवक्षितेषु कृञो हेतुताच्छील्यानुलोम्येषु (3.2.20) इति टः प्राप्नोति, अतस्तद्वाधनार्थं धातुग्रहणम्। शमि धातोरित्य्सयावकाशः करोतेरन्यो धातुः शम्युपपदः सम्भवति - शंवद इति, कृञो हेतुताच्छील्यानुलोम्ये (3.2.20) इत्यस्यावकाशः करोतिः शब्दान्तरोपपदः - श्राद्धं करोतीति श्राद्धकर इति; करोतेः शम्युपपदे संज्ञायायमुभयमेव प्राप्नोति - शङ्करा नाम शकुनिकेति। सा हि तच्छीला, तत्संज्ञा च, तत्र परत्वाट्टः प्राप्नोति, पुनर्धातुग्रहणाद्धातु मात्राद्विधीयमानं टं बाधित्वाऽजेव भवति॥
Prakriyasarvasvam¶
शम्पूर्वाद् धातोर्नाम्न्यच् स्यात् । शङ्करः । शंवदः ।
Vartika¶
शमि संज्ञायां धातुग्रहणं कृञो हेत्वादिषु टप्रतिषेधार्थम् ।
Sutra Prayogas¶
शङ्करेणाऽपि (भट्टिकाव्यम्): शमि धातोः संज्ञायाम् इति शङ्कर इत्यत्र अच्-प्रत्ययः।