32003: आतोऽनुपसर्गे कः

Padacheda: आतः | S | 5 | 1 |

अनुपसर्गे | S | 7 | 1 |

कः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix क comes after a verbal root that ends in long आ when there is no उपसर्ग preceding it and when the object is in composition with it.

Vasu English Translation

The affix क comes after a verbal root that ends in long आ when there is no उपसर्ग preceding it and when the object is in composition with it. This debars अण्; as गां + दा + क = गां + द + अ = गोदः ‘Giver of cows’, (the long आ is elided by (6.4.64) = So also, कम्बलदः ‘who gives a blanket’; पार्ष्णित्रम् ‘what protects the rear’; अङ्गुलित्रम् ‘what protects the finger’ (a thimble)’.

Why do we say ‘when there is no upasarga’? Witness गोसन्दायः ‘who ceremoniously gives a cow’, वडवसन्दाय ‘who ceremoniously gives a mare’. Here the compound verb सन्दा takes the affix अण्.

Bhashya

आतोऽनुपसर्गे कः (770) (470 कप्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आ.2 सू.) (2006 कबाधकवार्तिकम्॥ 1 ॥) - कविधौ सर्वत्र प्रसारणिभ्यो ङः- (भाष्यम्) कविधौ सर्वत्र प्रसारणिभ्यो डो वक्तव्यः। ब्रह्मज्य इति॥ (आक्षेपभाष्यम्) किमुच्यते - सर्वत्रेति?। (समाधानभाष्यम्) अन्यत्रापि। नावश्यमिहैव। क्वान्यत्र?। आह्वः प्रह्व इति॥ (2008 हेतुवार्तिकम्॥ 2 ॥) - के हि संप्रसारणप्रसङ्गः- (भाष्यम्) के हि सति संप्रसारणं प्रसज्येत। संप्रसारणे कृते संप्रसारणस्य पूर्वत्वे च उवङादेशः। आहुव इत्येतद्रूपं प्रसज्येत॥ (आक्षेपभाष्यम्) स तर्हि वक्तव्यः?। (वार्तिकप्रत्याख्यानभाष्यम्) न वक्तव्यः। अस्त्वत्र संप्रसारणम्। संप्रसारणे कृते आकारलोपः। तस्य स्थानिवद्भावादुवङादेशो न भविष्यति॥ (वार्तिकस्थापनभाष्यम्) पूर्वत्वे कृते प्राप्नोति॥ (वार्तिकप्रत्याख्यानभाष्यम्) एवं तर्हीदमिह संप्रधार्यम् - आकारलोपः क्रियताम्, पूर्वत्वमिति। किमत्र कर्तव्यम्?। परत्वाद् आकारलोपः॥ (वार्तिकस्थापनभाष्यम्) न सिध्यति। अन्तरङ्गत्वात्पूर्वत्वं प्राप्नोति॥ (वार्तिकप्रत्याख्यानभाष्यम्) एवं तर्हि वार्णादाङ्गं बलीयः इत्याकारलोपो भविष्यति॥ (प्रकारान्तरेण आकारलोपसाधकभाष्यम्) एवं तर्हि - इदमिह संप्रधार्यम्। आकारलोपः क्रियतां, संप्रसारणमिति। किमंत्र कर्तव्यम्?। परत्वादकारलोपः॥ (वार्तिकस्थापनभाष्यम्) नित्यं संप्रसारणम् कृतेऽप्याकारलोपे प्राप्नोति, अकृतेऽपि॥ (वार्तिकप्रत्याख्यानवादिभाष्यम्) आकारलोपोपि नित्यः। कृतेपि संप्रसारणे प्राप्नोति, अकृतेपि॥ (वार्तिकावश्यकतासमर्थकभाष्यम्) अनित्य आकारलोपः। न हि कृते संप्रसारणे प्राप्नोति। अन्तरङ्गं हि पूर्वत्वं बाधते॥ (वार्तिकप्रत्याख्यानभाष्यम्) यस्य लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्। न च संप्रसारणमेवाकारलोपस्य निमित्तं विहन्ति। अवश्यं लक्षणान्तरं पूर्वत्वं प्रतीक्ष्यम्॥ (वार्तिकाभावे लक्ष्यतीत्युपसंहारभाष्यम्) उभयोर्नित्ययोः परत्वादाकारलोपः। आकारलोपे कृते संप्रसारणे कृते यणादेशेन सिद्धं रूपम्आह्वः प्रह्व इति॥ (वार्तिकावश्यकतासाधकभाष्यम्) एवमपि न सिध्यति। योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः आदिष्टाच्चैषोऽचः पूर्वो भवति॥ (वार्तिकप्रत्याख्यानभाष्यम्) एवं तर्हि आकारलोपस्यासिद्धत्वादुवङादेशो न भविष्यति॥ (अनिष्टापत्तिभाष्यम्) इहापि तर्ह्याकारलोपस्यासिद्धत्वादुवङादेशो न स्याद् जुहुवतुः जुहुवुरिति॥ (समाधानभाष्यम्) अस्त्यत्र विशेषः। अकृतेत्रात्वे पूर्वत्वं भवति॥ इदमिह संप्रधार्यम् - आत्वं क्रियताम्, पूर्वत्वमिति। किमिह कर्तव्यम्?। परत्वात्पूर्वत्वम्॥ (समाधानबाधकभाष्यम्) न सिध्यति। अन्तरङ्गत्वादात्वं प्राप्नोति॥ एवं तर्हीदमिह संप्रधार्यम् - आत्वं क्रियताम्, संप्रसारणमिति। किमत्र कर्तव्यम्?। परत्वादात्वम्॥ (समाधानसाधकभाष्यम्) नित्यं संप्रसारणम्, कृतेऽप्यात्वे प्राप्नोति, अकृतेऽपि॥ (समाधानसाधकभाष्यम्) आत्वमपि नित्यम्। कृतेऽपि संप्रसारणे प्राप्नोति, अकृतेऽपि॥ (समाधानसाधकभाष्यम्) अनित्यमात्वम्। नहि कृते संप्रसारणे प्राप्नोति। परत्वात्पूर्वत्वेन भवितव्यम्॥ (समाधानबाधकभाष्यम्) यस्य लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्। न च संप्रसारणमेवात्त्वस्य निमित्तं विहन्ति। अवश्यं लक्षणान्तरं पूर्वत्वं प्रतीक्ष्यम्। उभयोर्नित्ययोः परत्वादात्वम्। आत्त्वे कृते संप्रसारणम्॥ (समाधानभाष्यम्) एवं तर्हि पूर्वत्वे योगविभागः करिष्यते - संप्रसारणात् संप्रसारणात्परः पूर्वो भवति॥ ततः एङ एङश्च संप्रसारणात्पूर्वो भवति॥ किमर्थमिदम्?। अकृते आत्त्वे पूर्वत्वं यथा स्यात्॥ ततः पदान्तादिति ठएङः इत्येव॥ (आक्षेपभाष्यम्) इहापि तर्ह्यकृत आत्त्वे पूर्वत्वं स्याद् आह्वः प्रह्व इति॥ (समाधानभाष्यम्) अस्त्यत्र विशेषः। आकारान्तलक्षणः कप्रत्ययविधिः। तेनानेनावश्यमात्वं प्रतीक्ष्यम्। लिट् पुनरविशेषेण धातुमात्राद्विधीयते। नित्यं प्रसारणं ह्वो यण् वार्णादाङ्गं न पूर्वत्वं हि। योनादिष्टादचः। पूर्वस्तत्कार्ये स्थानिवत्त्वं हि॥ प्रोवाच भगवान्कात्यस्तेनासिद्धिर्यणस्तु ते। आतः को लिण्नैङः पूर्वः सिद्ध आह्वस्तथा सति॥ आतोऽनुपसर्गे॥ 3 ॥

Kashika

आकारान्तेभ्योऽनुपसर्गेभ्यः कर्मण्युपपदे कप्रत्ययो भवति। अणोऽपवादः। गोदः। कम्बलदः। पार्ष्णित्रम्। अङ्गुलित्रम्। अनुपसर्ग इति किम्? गोसंदायः। वडवासंदायः॥

Siddhanta Kaumudi

आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यान्नाऽण् । आतो लोपः । गोदः । पार्ष्णित्रम् । अनुपसर्गे किम् । गोसंदायः ।<!कविधौ सर्वत्र संप्रसारणिभ्यो डः !> (वार्तिकम्) ॥ ब्रह्म जिनाति ब्रह्मज्यः । सर्वत्रग्रहणात् आतश्चोपसर्गे (SK2898) । आह्वः । प्रह्वः ॥

Laghu Siddhanta Kaumudi

आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात्। अणोऽपवादः। आतो लोप इटि च। गोदः। धनदः। कम्बलदः। अनुपसर्गे किम्? गोसन्दायः। मूलविभुजादिभ्यः कः (वार्त्तिकम्)। मूलानि विभुजति मूलविभुजो रथः। आकृतिगणोऽयम्। महीध्रः। कुध्रः॥

Balamanorama

आतोऽनुपसर्गे कः - आतोऽनुपसर्गे कः । पाष्णत्रमिति । पाष्णः — पादमूलभागः । तं त्रायते विग्रहः । ‘त्रैङ् पालने’ आत्वे कृते कः । गोसंदाय इति । अणि - आतो युक् । कविधौ सर्वत्रेति । वार्तिकमिदम् । सर्वत्र कप्रत्ययविधौ संप्रसारणार्हेभ्यः कापवादो डप्रत्ययो वाच्य इत्यर्थः । ब्राहृज्य इति । ‘ज्या वयोहानौ’ अस्माड्डः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । अत्र कप्रत्यये सति कित्त्वात् ‘ग्रहिज्ये’ ति संप्रसारणं प्रसक्तम्, अतो ड एव, नतु कः । सर्वत्रेति । उपसर्गे उपपदे आतोऽपि ड एव, नतु ‘आतश्चोपसर्गे’ इति कः,॒सर्वत्र॑ ग्रहणादित्यन्वयः । अन्यथाअनन्तरस्य विधि॑रिति न्यायात्आतोऽनुपसर्गे॑इति कं बाधित्वा ड एव । तस्य अकित्त्वाद्यजादिलक्षणं संप्रसारणं न । सुपि स्थः । योगो विभज्यते इति । इदं भाष्ये स्पष्टम् । तत्रसुपी॑त्यंशं व्याचष्टे — सुप्युपपदे इति इदं केवलोपसर्ग व्यर्थम्, ‘आतश्चोपसर्गे’ इत्येव सिद्धेः, कर्मण्युपपदेऽप्येतद्व्यर्तमेव, ‘आतोऽनुपसर्गे कः’ इत्यारम्भादिति मत्वोदाहरति — द्वाभ्यामिति । तत इति ।सुपी॑त्यंशस्य व्याख्यानान्तरं ‘स्थ’ इत्यंशो व्याख्यायत इत्यर्थः । ननुसुपी॑त्यंशेनैव सिद्धे किमर्थमिदमित्यत आह — आरम्भसामर्थ्यादिति । कर्तरि ‘सुपि’ इति पूर्वेण स्दधेकर्तरि कृ॑दिति नानुवर्तते । अनिर्दिष्टार्थत्वात्गुप्तिज्किद्भ्यः स॑ नित्यादिवत्स्वार्थिकोऽयम्, स्वार्थश्च भाव एवेति भाष्ये स्पष्टम् । न च एवं सतिघञर्थे कविधान॑मित्येव सिद्धमिति वाच्यम्, नित्योपपदसमासार्थत्वात् । अत एव ल्युडन्तेन अस्वपदविग्रहं दर्शयन्नाह - आखूनामुत्थानमाखूत्थ इति ।

Tattvabodhini

आतोऽनुपसर्गे कः - पाष्णत्रमिति । पार्ष्ण त्रायत इति । त्रैङ् पालने । गोसंदाय इति । अण् । युक् । * कविधौ सर्वत्र प्रसारणिभ्यो डः । प्रसारणिभ्य इति । प्रसारणमिति संप्रसारणपर्यायः । जिनातीति । ज्या वनोहानौ ।क्र्यादिभ्य॑ इति श्नाप्रत्ययेग्रहिज्ये॑ ति संप्रसारणे पूर्वरूपेहलः॑ इति दीर्घे च कृतेप्वादीना॑मिति ह्रस्वः । ब्राहृज्य इति । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । पूर्वेण के हि सति कित्त्वात्संप्रसारणादौ चब्राहृजिय॑ इति स्यात् । आह्वः प्रह्व इति । के हि सतिवचिस्वपी॑त्यादिना ह्वेञः संप्रसारणे सति आहुवः प्रहुव इति स्यादिति बोध्यम् ।

Padamanjari

आतोऽनुपसर्गे कः॥ कविधौ सर्वत्र प्रसारणिभ्यो डो वक्तव्यः। संप्रसारणभाजःऊउप्रसारणिनः।’ज्या वयोहानौ’ ब्रह्म जिनातीति ब्रह्मज्यः, सर्वत्रग्रहणान्नावश्यमिहैव ठातश्चोपसर्गेऽआह्वः प्रह्वः, के हि संप्रसारणप्रसङ्गः, आह्व अ इति स्थिते संप्रसारणे पूर्वत्वे च कृते उवङदेशे आहुवः प्रहुव इति प्राप्नोति, एवं ब्रह्मजिय इति प्राप्नोति। ननु संप्रसारणे कृते आतो लोपस्तस्य स्थानिवद्भावादियणुवङै न भविष्यतः, लोपो न सिद्ध्यति - अन्तरङ्गत्वात्पूर्वत्वं प्राप्नोति, समानाश्रये च वार्णादाङ्गं बलीय इति? एवं तर्हि प्रागेव संप्रसारणादातो लोपो भविष्यति, परत्वाद् नित्यं संप्रसारणम्, कृताकृतप्रसङ्गित्वात्ऽ आतो लोपस्त्वनित्यः, कृते संप्रसारणे पूर्वत्वेन बाद्ध्यते - यस्य च निमितं लक्षणान्तरेण विहन्यते तदनित्यम्। तदेवं परत्वादातो लोपः, ततः संप्रसारणम्, तत इयणुवङै प्रसक्तावाल्लोपस्य स्थानिवत्वान्न भविष्यतः। ननु योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः, आदिष्टाच्चैषोऽचः पूर्वम् - इदानीमेव ह्युक्तं पूर्वमल्लोपः पश्चात् संप्रसारणमिति? एवं तर्ह्याकारलोपस्यासिद्धत्वादुवङ् न भविष्यति। इहापि तर्हि जुहुवतुः जुहुवतुः आल्लोपस्यासिद्धत्वादुवङ् न प्राप्नोति? आभीयमसिद्धत्वमनित्यमित्यत्र न भविष्यति। अथ वा’संप्रसारणाच्च’ ठेडः पदान्तात्ऽ इत्यत्र एङ् इति योगविभागः - संप्रसारणादेङ् पिरतः पूर्वपरयोः पूर्वमेकादेशो भवतीति। किमर्थमिदम्, न’संप्रसारणाच्च’ इत्येव सिद्धम्? ज्ञापनार्थम् - -यत्र संप्रसारणात्पर एङ् संभवति तत्र ठादेच उपदेशेऽशितिऽ इत्यात्वं न भवतीति। यदि स्यात्पूर्वत्वेन तस्य निवृत्तिविधानमनुपपन्नं स्यात्। तेन जुहुवतुरित्यत्रानैमितिकत्वेनान्तरङ्गमप्यात्वमकृत्वा एङ्भावादेव लिटि विहिते संप्रसारणे पूर्वत्वे न स्थानिवत्वं नासिद्धत्वमिति सिद्धमिष्टम्। आह्वः, प्रह्वः, ब्रह्मज्य इत्यत्र त्वाकारान्तलक्षणः प्रत्ययो नासत्यात्वे भवितुमर्हतीति पूर्वमात्वम्, ततः प्रत्ययः, आल्लोपः, संप्रसारणम्, असिद्धत्वादियणुवङेरभावः॥

Nyaas

अनुपसर्गे इति। व्यत्ययेन पञ्चमीप्रसङ्गेऽपि सप्तमी। धातुविशेषणञ्चैतत्। अत एवाह - आकारान्तेभ्योऽनुपसर्गेभ्यः`इति च। `गोदः इति। पूर्ववलदाकारलोपः। पाष्णम् इति। त्रैङ पालने (धातुपाठः-965)॥

Vartika

कविधौ सर्वत्र प्रसारणिभ्यो ङः ।

Sutra Prayogas

  • विनियोगज्ञः (रघुवंशम्): आतोऽनुपसर्गे कः इति कप्रत्ययः।

  • वरदः (कुमारसम्भवम्): आतोऽनुपसर्गे कः इति कप्रत्ययः।

  • गोपान् (किरातार्जुनीयम्): अतोऽनुपसर्गे कः इति कप्रत्ययः।

  • सुरक्तगोपीजनगीतनिःस्वने (किरातार्जुनीयम्): आतोऽनुपसर्गे कः इति कप्रत्ययः।

  • येयायेयाययाययः (किरातार्जुनीयम्): आतोऽनुपसर्गे कः इति कप्रत्ययः।

  • निस्वभव्यव्यभस्वनि (किरातार्जुनीयम्): आतोऽनुपसर्गे कः इति कप्रत्ययः।

  • जगतीशमार्गणा (किरातार्जुनीयम्): आतोऽनुपसर्गे कः इति कप्रत्ययः।

  • बहुसमरनयज्ञः (किरातार्जुनीयम्): आतोऽनुपसर्गे कः इति कप्रत्ययः।

  • उच्चारणज्ञे (शिशुपालवधम्): आतोऽनुपसर्गे कः इति कप्रत्ययः।

  • कादम्बरं (शिशुपालवधम्): आतोऽनुपसर्गे कः इति कप्रत्ययः।

  • मधुपा (शिशुपालवधम्): आतोऽनुपसर्गे कः इति कप्रत्ययः।

  • विवः (शिशुपालवधम्): आतोऽनुपसर्गे कः इति कप्रत्ययः।

  • वररो (शिशुपालवधम्): आतोऽनुपसर्गे कः इति क-प्रत्ययः।

  • **** (भट्टिकाव्यम्): आतोऽनुपसर्गे कः इति कः।

  • नृपो (भट्टिकाव्यम्): आतोऽनुपसर्गे कः इति कः ।

  • शर्म-दं (भट्टिकाव्यम्): आतो ऽनुप- सर्गे कः इति कः ।

  • पादप (भट्टिकाव्यम्): आतो ऽनुपसर्गे कः इति कः।

  • स-मुद्रो (भट्टिकाव्यम्): आतोऽनुपसर्गे कः इति मुदं रातीति कप्रत्ययः।