32001: कर्मण्यण्¶
Padacheda: कर्मणि | S | 7 | 1 |
अण् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अण् comes after a verbal root when the object (or whatever sort it may be), is in composition with it (an an उपपद).
Vasu English Translation¶
The affix अण् comes after a verbal root when the object (or whatever sort it may be), is in composition with it (an an उपपद). The object or karma is of three sorts, namely nivartya, vikarya and prapya.
The object which has a material cause, but such cause is however unexpressed in the sentence, is called nivartya object; as कुम्भम् करोति ‘he makes a pot’; here मृत् ‘mud’ the material cause of कुम्भ is unexpressed, therefore, कुम्भ is nivartya object. Where the material cause itself is changed, by a modification, into something else, such an object is called vikarya object; as काण्डलावः ‘the branch-cutter’. While the object which cannot be approached by any action, and is not affected by it, but is always constant, is called the prapya object; as a वेदाध्यायः ‘the reading of Veda’; the Veda is always the same.
They will be illustrated by the following examples:- Of the first kind, we have कुम्भकारः ‘a potter’ and नगरकारः ‘a city-builder’; of the second, we have काण्डलावः ‘a branch-cutter’ and शरलावः ‘a reed-cutter’. Of the third, वेदाध्यायः ‘the learning of Veda’ and चर्चापाठः ‘the reading of Charcha’. But compound nouns cannot be formed of such sentences as ग्रामं गच्छति ‘he goes to the village’, आदित्यं पश्यति ‘he sees the sun’, हिमवन्तं शृणोति ‘he hears the Himavat’. The reason is that it is against the usage of the language to form nouns out of these.
Vart:- The affix ण comes after the verbs शील्, काम्, भक्ष्य and आचर and the noun in composition with it, retains its original accent. As मांसशीलः ‘addicted to flesh’, fem. मांसशीला; मांसकामः ‘loving flesh’, fem. मांसकामा; मांसभक्षः ‘carnivorous’, fem. मांसभक्षा; and कल्याणाचारः ‘good-conducted’, fem. कल्याणाचारा ।
Vart:- The affix ण comes after the roots ईक्ष ‘to look’ and क्षम् ‘to forbear’ under similar circumstances. As सुखप्रतीक्षः, fem. सुखप्रतीक्षा ‘expecting happiness’; बहुक्षमः fem. बहुक्षमा ‘much forbearing’.
Bhashya¶
कर्मण्यण् (768) (439 अण्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आदृ 1 ) (1997 परिसंख्यावार्तिकम्॥ 1 ॥) कर्मणि निaर्वत्यमानविक्रियमाण इति वक्तव्यम्। इह मा भूत् - आदित्यं पश्यति, हिमवन्तं शृणोति, ग्रामं गच्छतीति॥ (1998 अप्राप्तविधायकवार्तिकम्॥ 2 ॥) - कर्मणि निर्वत्यमानविक्रियमाणे इति चेद् वेदाध्यायादीनामुपसंख्यानम्- (भाष्यम्) कर्मणि निर्र्वत्यमानविक्रियमाण इति चेद्वेदाध्यायादीनामुपसंख्यानं कर्तव्यम्। वेदाध्यायः चर्चापारः शमनीपारः॥ (1999 परिगणनवार्तिकम्॥ 3 ॥) - यत्र च नियुक्तः- (भाष्यम्) यत्र च नियुक्तस्तत्र चोपसंख्यानं कर्तव्यम्। छत्रधारः द्वारपालः॥ (2000 परिगणनवार्तिकम्॥ 4 ॥) - हृग्रहिनीवहिभ्यश्च- (भाष्यम्) हृग्रहिनीवहिभ्यश्च वक्तव्यम्। दृ - भारहारः। हृ॥ ग्रहि - कमण्डलुग्राहः। ग्रहि॥ नी - उष्ट्रप्रणायः। नी॥ वहि - भारवाहः। वहि॥ (2001 परिगणनप्रत्याख्यानवार्तिकम्॥ 5 ॥) - अपरिगणनं वा - (भाष्यम्) न वार्थः परिगणनेन॥ (आक्षेपभाष्यम्) कस्मान्न भवति - आदित्यं पश्यति, हिमवन्तं शृणोति, ग्रामं गच्छतीति?। (2002 प्रत्याख्यानहेतुवार्तिकम्॥ 6 ॥) - अनिभिधानात्- (भाष्यम्) अनभिधानादेव न भविष्यति। (2003 विप्रतिषेधवार्तिकम्॥ 7 ॥) - अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेन- (भाष्यम्) अकारादनुपपदात्कर्मोपपदो भवति विप्रतिषेधेन। अनुपपदस्यावकाशः - पचतीति पचः, कर्मोपपदस्यावकाशः - कुम्भकारः नगरकारः। इहोभयं प्राप्नोति - ओदनपाचः। कर्मोपपदो भवति विप्रतिषेधेन॥ अनुपपदस्यावकाशः - विक्षिपः विलिखः। कर्मोपपदस्य स एव। इहोभयं प्राप्नोति - काष्ठभेदः। कर्मोपपदो भवति विप्रतिषेधेन॥ अनुपपदस्यावकाशः - जानातीति ज्ञः। कर्मोपपदस्य स एव। इहोभयं प्राप्नोति - अर्थज्ञः। कर्मोपपदो भवति विप्रतिषेधेन॥ (विप्रतिषेधायुक्तत्वभाष्यम्) नैष युक्तो विप्रतिषेधाः। अनुपपदस्तृतीयः। ण्वुल्तृजचः। तेषां णः । तस्य कः। स यथैव को णं बाधते एवं कर्मोपपदमपि बाधेत॥ (विप्रतिषेधसाधकभाष्यम्) कर्मोपपदोपि तृतीयः। ण्वुल्तृजचः। तेषामण्। अणः कः। उभयोस्तृतीययोर्युक्तो विप्रतिषेधः॥ (विप्रतिषेधोदाहरणान्तरभाष्यम्) अनुपपदस्यावकाशः - लिम्पतीति लिम्पः। कर्मोपपदस्य - स एव। इहोभयं प्राप्नोति - कुड्यलेप इति। कर्मोपपदो भवति विप्रतिषेधेन॥ (विप्रतिषेधबाधकभाष्यम्) नैष युक्तो विप्रतिषेधः। अनुपपदस्तृतीयः। ण्वुल्तृजचः। तेषां कः। कस्य शः। स यथैव शः कं बाधते एवं कर्मोपपदमपि बाधेत॥ (सिध्युपायप्रश्नभाष्यम्) का तर्हि गतिः?। (सिध्युपायभाष्यम्) मध्येऽपवादाः पूर्वान् विधीन्बाधन्ते नोत्तरानि त्येवं शः कं बाधिष्यते, कर्मोपपदं न बाधिष्यते॥ (विप्रतिषेधोदाहरणान्तरभाष्यम्) अनुपपदस्यावकाशः सुग्लः सुम्लः। कर्मोपपदस्य स एव। इहोभयं प्राप्नोति। गोसंदायः बडवासंदायः। कर्मोपपदो भवति विप्रतिषेधेन॥ (विप्रतिषेधबाधकभाष्यम्) नैष युक्तो विप्रतिषेधः। अनुपपदस्तृतीयः। ण्वुल्तृजचः। तेषां णः। तस्य कः। स यथैव को णं बाधते एवं कर्मोपपदमपि बाधेत॥ (गतिप्रश्नभाष्यम्) का तर्हि गतिः?। (गतिभाष्यम्) पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरानित्येवमयं को णं बाधिष्यते, कर्मोपपदं न बाधिष्यते॥ (2004 णप्रत्ययविधिवार्तिकम्॥ 8 ॥) - शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वं च- (भाष्यम्) शीलिकामिभक्ष्याचरिभ्यो णो वक्तव्यः, पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्। शीलिमांसशीलः। मांसशीला। कामि - मांसकामः मांसकामा। भक्षि - मांसभक्षः मांसभक्षा। आचरी - कल्याणाचारः कल्याणाचारा॥ (2005 णप्रत्ययवार्तिकम्॥ 9 ॥) - इर्क्षिक्षमिभ्यां च- (भाष्यम्) इर्क्षिक्षमिभ्यां चेति वक्तव्यम्। सुखप्रतीक्षः सुखप्रतीक्षा। कल्याणक्षमः कल्याणक्षमा॥ (आक्षेपभाष्यम्) किमर्थमिदमुच्यते?। (समाधानभाष्यम्) पूर्वपदप्रकृतिस्वरत्वं वक्ष्यामि। ईकारश्च माभूदिति॥ (प्रयोजननिराकरणभाष्यम्) नेतदस्ति प्रयोजनम्। इह यो मांसं भक्षयति मांसं तस्य भक्षो भवति। तत्र योसौ भक्षयतेरच् तदन्तेन बहुव्रीहिः॥ (ज्ञापनभाष्यम्) एवं तर्हि सिद्धे सति यत्कर्मोपपदं णं शास्ति तज्ज्ञापयत्याचार्यः - समानेर्थे केवलं विग्रहभेदाद् यत्र कर्मोपपदश्च प्राप्नोति बहुव्रीहिश्च, कर्मोपदस्तत्र भवतिइति॥ किमेतस्य ज्ञापने प्रयोजनम्?। काण्डलावः। काण्डानि लावोऽस्येति बहुव्रीहिर्न भवति॥ (ज्ञापनवैर्यथ्यभाष्यम्) भवति बहुव्रीहिरपि मांसे कामोस्य मांसकामः मांसकामुक इति वा॥ (न त्वम्भोभिगमा।) न त्विदं भवति अम्भोऽभिगामोऽस्या अम्भोभिगमा इति। किं तर्हि?। अम्भोभिगामीःइत्येव भवति। काण्डलावेपि च विग्रहाभावान्न ज्ञापकस्य प्रयोजनं भवतीति। नैषोस्ति विग्रहः - काण्डानिलावोऽस्येति॥ (2006 वार्तिकम्॥ 10 ॥) - अन्नादायेति च कृतां व्यत्ययश्छन्दसि- (भाष्यम्) अन्नादायेति च कृतां व्यत्ययश्छन्दसिद्रष्टव्यः। अन्नादायान्नपतये य आहुतिमन्नादां कृत्वा॥ कर्मण्यम्॥ 1 ॥ (अथ कप्रत्ययप्रकरणम्)
Kashika¶
त्रिविधं कर्म — निर्वर्त्यम्, विकार्यम्, प्राप्यं चेति। सर्वत्र कर्मण्युपपदे धातोरण् प्रत्ययो भवति। निर्वर्त्यं तावत् — कुम्भकारः। नगरकारः। विकार्यम् — काण्डलावः। शरलावः। प्राप्यम् — वेदाध्यायः। चर्चापारः। ग्रामं गच्छति, आदित्यं पश्यति, हिमवन्तं शृणोतीत्यत्र न भवति, अनभिधानात्॥ शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्॥ मां॒सशी॑लः। मां॒सशी॑ला।मां॒सका॑मः। मां॒सका॑मा। मां॒सभ॑क्षः। मां॒सभ॑क्षा। क॒ल्याणा॑चारः। क॒ल्याणा॑चारा॥ ईक्षिक्षमिभ्यां चेति वक्त व्यम्॥ सु॒खप्र॑तीक्षः। सु॒खप्र॑तीक्षा। ब॒हुक्ष॑मः। ब॒हुक्ष॑मा॥
Siddhanta Kaumudi¶
कर्मण्युपपदे धातोरण् प्रत्ययः स्यात् । उपपदसमासः । कुम्भं करोतीति कुम्भकारः । आदित्यं पश्यतीत्यादावनभिधानान्न ।<!शीलिकामिभक्ष्याचरिभ्यो णः !> (वार्तिकम्) ॥ अणोऽपवादार्थं वार्तिकम् । मांसशीला । मांसकामा । मांसभक्षा । कल्याणाचारा ॥<!ईक्षिक्षमिभ्यां च !> (वार्तिकम्) ॥ सुखप्रतीक्षा । बहुक्षामा । कथं तर्हि गङ्गाधरभूधरादयः । कर्मणः शेषत्वविवक्षायां भविष्यन्ति ॥
Laghu Siddhanta Kaumudi¶
कर्मण्युपपदे धातोरण् प्रत्ययः स्यात्। कुम्भं करोतीति कुम्भकारः॥
Balamanorama¶
कर्मण्यण् - कर्मण्यण् । कर्मण्युपपदे इति ।तत्रोपपदं सप्तमीस्थ॑मित्यत्रतत्रे॑त्यनेनदं लभ्यत इति तत्रैवोक्तम् । प्रत्ययस्तु कर्तर्येव । उपपदसमास इति ।उपपदमति॑ङित्यनेनेति भावः । कुम्भं करोतीति । अस्वपदो लौकिकविग्रहोऽयम् । कुम्भ अस् कार इत्यलौकिकविग्रह वाक्ये सुबुत्पत्तेः प्रागेव कारशब्देन कृदन्तेन कुम्भ अस् इति षष्ठन्तस्य समास इति प्रागेवोक्तम् । ननु आदित्यं पश्यतीत्यादित्यदर्शः, हिमवन्तं शृणोतीति हिमवच्छ्रावः, ग्रामं गच्छतीति ग्रामगाम इत्यादि स्यादित्यत आह — आदित्यं पश्यतीत्यादावनभिधानान्नेति । एतच्च भाष्ये स्पष्टम् । शालीति । शीलि, कामि, भक्षि, आचरि एभ्यो णप्रत्ययो वाच्य इत्यर्थः । ननु ‘कर्मण्य’ णित्यणैव सिद्धे किमर्थमिदत्यत आह — अणोऽपवादार्थमिति । अण्णन्तत्वे तु ङीप् स्यात्, तन्निवृत्त्यर्थं णविधानमिति भावः । तदाह — मांसशीलेति । ‘शील समाधौ’ इति भ्वादिः । इह तु स्वभावतः सेवने वर्तते । मांसं स्वभावतः सेवमानेत्यर्थः । मांसकामेति । मांसकामेति । मांसं कामयते इति विग्रहः । मांसभक्षेति । मांसं भक्षयते इति विग्रहः । कल्याणाचारेति । कल्याणमाचरतीति विग्रहः । सर्वत्र टाप् । ईक्षिक्षमिभ्यामिति । वार्तिकमिदम् । ‘ण’ इति शेषः । कथमिति । कर्मण्यणि गङ्गाधार इत्यादि स्यादित्याक्षेपः ।कर्मणः शेषत्वेति । तथा च कर्मोपपदाऽभावान्नाऽणिति भावः ।
Padamanjari¶
कर्मण्यण्॥ कर्मणीति। नेदं स्वरूपग्रहणम्; अशब्दसंज्ञा इति प्रतिषेधात्। ननु चार्थस्येयं सञ्ज्ञा न शब्दस्य, अशब्दसञ्ज्ञेति नैवं विज्ञायते - -शब्दस्य सञ्ज्ञा शब्दसञ्ज्ञेति, किं तर्हि? शब्दे संज्ञा सब्दसंज्ञेति। शब्दशब्देन शब्दानामनुशासनं व्याकरणमुच्यते, असति च बाधे कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणं युक्तम्। तस्मात्पारिभाषिकस्य कर्मणो ग्रहणमङ्गीकृत्य तस्यावान्तरभेदमाह - त्रिविधं कर्मेति। ता एव तिस्रो विधा दर्शयति - निर्वर्त्ये विकार्ये प्राप्यं चोति। यदसज्जायते सद्वा जन्मना यत्प्रकाशते तन्निर्वत्यम्, यथा - -कुम्भं करोति, पुत्रं प्रसूत इति। यस्य तु सत एव कश्चिद्विकारः क्रियते तद्विकार्यम्, स च विकारः क्वचित्प्रत्यक्षगम्यः, यथा - काष्ठानि भस्म करोति, सुवर्ण कुण्डलं करोतीति, क्वचिच्छास्त्रगम्यः - ब्रीहीन् प्रोक्षतीति, अत्र प्रोक्षणेन ब्रीहीषु कश्चिदतिशयो जन्यत इति शास्त्रादेव गम्यते। एतावता च भेदेन संस्कार्यमेतत्कर्मेति चातुर्विध्यं मीमांसका मन्यन्ते। क्रियाकृतविशेषाभावे तु प्राप्यं कर्म, यथा - -वेदमधीते, चर्च्चां पारयतीति। ननु न’कर्तुरीप्सिततमम्’ इत्येतदेव कर्म त्रिविधम्, अन्यदप्यस्ति’तथायुक्तं चानीप्सितम्’ इति, तच्च द्विविधम् - द्वेष्यमितरच्च; तथा ठकथितं चऽ, एवं’दिवः कर्म च’ , तथा ठधिशीङ्स्थासां कर्मऽ इति। तदेवमवान्तरभेदविवक्षायां सप्तविधं कर्म। उक्तं च - निर्वर्त्य च विकार्य च प्राप्यं चेति त्रिधा मतम्। तत्रेप्सिततमं कर्म चतुर्धान्यतु सञ्ज्ञितम्॥ औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम्। सञ्ज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्॥ इति। तत्किमुच्यते त्रिविधं कर्मेति? केचिदाहुः - कर्तुरीप्सिततममेवात्र गृह्यतेऽन्यत्राण् न भवतीति। अन्ये त्वाहुः - -आदित्यं पश्यतीत्यादौ मा भूदित्येवमर्थ कर्मणि निर्वर्त्यमाने विक्रियमाण इति वक्तव्यमित्याशङ्क्य वार्तिककारेणोक्तम् - कर्मणि निर्वर्त्यमानेविक्रीयमाण इति चेद्वेदाध्यायानामुपसंख्यानमित्यादि। तदनेन प्रदर्श्यते त्रिविधमपि कर्म गृह्यते, न पुनः प्राप्यं न गृह्यत इति, न तु सूत्रान्तरोक्तं व्यावर्त्यते। तथा च’दिवः कर्म च’ इत्यत्र समावेशस्य प्रयोजनमुक्तम् - मनसा देव इत्यत्र कर्मत्वादण्, करणत्वातृतीयेति। एवं च वृक्षावासः पर्वताधिवास इत्याद्यपि यथादर्शनं भवतीति। अनभिधानादिति। तच्चानभिधानं यत्राप्तैरुक्तं तत्रैव। अन्यत्र तु यथालक्षणं भवत्येव, तथा च पठति - यथालक्षणमप्रयुक्तेऽइति। शीलिकामीत्यादि।’शील समाधो’ ‘भक्ष अदने’ चुरादिः,’कमु कान्तौ’ णिङ्न्तः,’चर गत्यर्थे’ आङ्पूर्वः, णस्य णित्करणं चरेर्वृद्ध्यर्थम्। पूर्वपदप्रकृतिस्वरत्वं चेति। कृदुतरपदप्रकृतिस्वरस्यापवादः। मांसशीलेति। अत्राणि सति ङीप्स्यात्, णेऽपि क्वचिदण्कृतं भवतीत्येततु ताच्छीलिक एव णे भवति।’मनेर्दीर्घश्च’ इति सप्रत्ययान्तो मांसशब्दः। कल्याणशब्दः’लघावन्ते द्वयोश्च बह्वषो गुरुः’ इति मध्योदातः। अस्यायमर्थः - अन्ते लघोः परतो द्वयोश्चान्तयोर्लघ्वोः परतो बह्वषः शब्दस्य यो गुरुः स उदातो भवति। बह्वष इति बह्वच इत्यर्थः।ठष्ऽ इत्यचः पूर्वाचार्यसञ्ज्ञा। ईक्षिक्षमिभ्यां चेति। अत्रापि पूर्वपदप्रकृतिस्वरत्वं चेत्येव, वाक्यभेदस्तु वैचित्र्यार्थः। इह यो मासं भक्षयति मांसं तस्य भक्षो भवति, तत्र भक्षयतेः कर्मण्येरजन्तस्य बहुव्रीहिणा सिद्धम्। एवमन्यत्रापि। यः पुनरण्यन्तस्तस्य घञन्तस्य बहुव्रीहिः, नार्थ एतेन। ननु बहुभक्ष इत्यत्र बहोर्नञ्वदित्युतरपदान्तोदातत्वं प्राप्नोति? एवं तर्हि भावेऽजन्तेन व्यधिकरणपदो बहुव्रीहिर्भविष्यति - बहुषु भक्षोऽस्य बहुभक्ष इति, तत्रोतरपदार्थस्य बहुत्वाभावाद्वहुस्वरो न भविष्यति? सत्यम्; अण्बाधनार्थ तु वचनम्, अकारादनुपपदात्कर्मोतपपदो विप्रतिषेधेन। पचादिभ्योऽच्, अनुपपदोऽकारस्तस्यावकाशः - पचतीति पचः, कर्मोपपदस्यावकाशः - काण्डलावः शरलावः; ओदनपाव इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। तेनोपधावृद्धिः, उपपदसमासश्च नित्यो भवति। अचि तु षष्ठीसमासो विकल्पितः स्यात्। न चच वाच्यं युगपद्विवक्षायां भवतु विप्रतिषेधः, केवले पच्यर्थे विवक्षितेऽचि कृते पश्चादोदनसम्बन्धे विवक्षिते ओदनपच इत्यपि प्राप्नोति? एकत्वात्प्रयोगस्य। न हि तस्मिन्नेव प्रयोगे विवक्षितं चाविवक्षितं च कर्म भवति। तस्मादोदनपच इत्यसाधुरेव। गङ्गाधरः, श्रीधरः, वज्रधरः, भूधरः, स्रग्धरेति तु सञ्ज्ञाशब्दाः। यदा त्वजपि सर्वधातुभ्य इति पक्षः, तदापवादत्वादेव तस्याण् बाधकः। तथा ठिगुपधज्ञाप्रीकिरः कःऽ अनुपपदस्तस्यावकाशः - विक्षिपः, विलिखः, कर्मोपपदस्य स एव; काष्ठभेद इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। तथा ठनुपसर्गाल्लिम्पविन्दऽ इत्यनुपपदः शस्तस्यावकाशः - लिम्पतीति लिम्पः, कर्मोपपदस्य स एव; कुङ्मलेप इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। ठातश्चोपसर्गेऽ इति कोऽनुपपदस्तस्यावकाशः - सुग्लः सुग्लः, कर्मोपपदस्य स एव; गोसन्दाय इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति॥
Nyaas¶
कर्मणि इति नेदं स्वरूपग्रहणम्; अशब्दसंज्ञा (1.1.67) इति प्रतिषेधात्। यदि च कर्मप्रदेशेषु स्वरूपमेव गृह्रते,तदा संज्ञाविधानमनर्थकं स्यात्; नापि क्रियाग्रहणम्, तस्य हि ग्रहणे कर्त्रभिप्राये (1.3.72) इति निर्देशो नोपपद्यते, क्रियाकर्मणो हि ग्रहणे क्रियावाच्युपपदे प्रत्ययेन भवितव्यम्, न चेह क्रियावाच्युपपदमस्ति तस्मात् कर्त्तुरीप्सिततमं कर्म (1.4.49) इति कर्म गृह्रते। तस्य प्रभेदं दर्शयितुमाह - त्रिविधम् इत्यादि। तत्र निर्वर्त्त्यं यदसदेवोत्पद्यते, तथा - कुम्भं करोति,नगरं करोतीति। कुम्भादिकं ह्रविद्यमानमेवोत्पद्यत इति निर्वर्त्त्यं कर्म। विकार्यम् - यस्य सत एव कश्चिदद्विकारो विधीयते, तद्यथा - काण्डं लुनाति, नगरं लुनातीति। सत एव काण्डादेर्लवनेन विकारो विधीयत इति विकार्यं कर्म। प्राप्यम् - नासत एवोत्पादनं क्रियते, नापि सत एव विकाराधानम्, केवलं क्रियासम्बन्धमात्रं प्रतीयते, तद्यथा - वेदमधीते, चर्च्चां परयतीति। अत्रह्रव्ययनादिना वेदादेः सम्बन्धमात्रं प्रतीयते, न त्वसत एवोत्पादनम्। नापि सत एवान्यथालक्षणो विकार इति प्राप्यमेतत् कर्म। सर्वत्र इत्यादि। त्रप्रकारे विशेषानुपादानात्। कर्मण्युपपदे इति नाभिदाने कुतो मा भूत्? कर्तरि कृत् (3.4.67) इत्यस्य बाधा इति। शीलिकामि इत्यादि। {शील उपधारणे इति धातुपाठः- चुरादौ पठते; `शील समाधौ इति च धातुपाठः-भ्वादौ पठते} शील समाधौ` (धातुपाठः-1878) चुरादिण्र्यन्तः। कमु कान्तौ (धातुपाठः-443) कमिर्णिङन्तः। भक्ष अदने (धातुपाठः-1557), चुरादिण्र्यन्तः। चर गत्यर्थः (धातुपाठः-559) आङ्पूर्वः। इकारोऽस्य धातुनिर्देशार्थः। एभ्योऽणि प्राप्ते णो वक्तव्यः = व्याख्येयः। तत्रेदं व्याख्यानम् - ज्वलितिकसन्तेभ्यो णः (3.1.140) इत्यतो मण्डूकप्लुतिन्यायेन णोऽनुवर्तते, विभाषा ग्रहः (3.1.143) इत्यतश्च विभाषाग्रहणम्, द्वावपीह कर्मण्युपपदे णाणौ विधीयते। अत्र विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्छीलीत्यादिभ्यो ण एव भविष्यतीति, परिशिष्टेभ्यस्त्वणेवेति। एतयोस्तु स्त्रियां विशेषः - अणि हि ङिब् भवति, णे तु टाप्। णकारः अचो ञ्णिति (7.2.115) वृद्ध्यर्थः। पूर्वपदप्रकृतिस्वरत्वञ्च इति।गतिकारकोपपदानां कृत् (6.2.139) इत्युत्तरपदप्रकृतिस्वरत्वे प्राप्ते पूर्वपदप्रकृतिस्वरत्वञ्च वक्तव्यम् = व्याख्येयम्। तत्रेदं व्याख्यान म् - {तत्पुरुषे तुल्यादौ मु।पाठः} तुल्यार्थ` (6.2.2) सूत्रे तत्पुरुषे`इति योगविभागः कर्तव्यः तेन मांसशीलादिभ्यः पूर्वपदप्रकृतिस्वरत्वञ्च भविष्यतीति। मांसशब्दोऽन्तोदात्तः - `वृतृवदिहनिकमि{कषियुमुचिभ्यः द।उ।} कषिभ्यः सः (द।उ।9।21) इत्यनुवर्तमाने मनेर्दीर्घश्च (द।उ।9।23) इति सप्रत्ययान्तत्वात्प्रत्ययस्वरेण। कल्याणशब्दो मध्योदात्तः-लघावन्ते द्वयोश्च बह्वषो गुरुः (फिट्। 2।42) इत्यनेन। अस्यायमर्थः - अन्ते लघौ परतौ द्वयोश्चान्तयोर्लघ्वोः परतो बह्वच्शब्दस्य यो गुरुः स उदात्तो भवति। बह्वष् इति बह्वजित्यर्थः। ननु च शील्यादिभ्यः कर्मणि घञं कृत्वा तदन्तेन बहुव्रीहौ कृते सिध्यत्वेव मांसशीलादि, तत्क णविधानेन? नैतदस्ति; बहुव्रीहौ सति बहुभक्षा इत्यत्र बहोर्नञ्वदुत्तरपदभूम्नि (6.2.175) इत्युत्तरपदान्तोदात्तत्वं स्यात्। अवश्यञ्चाण्बाधनार्थो णो वक्तव्यः, अन्यथा हि यदा मांसं कामयते इतीदं वाक्यं भवति तदाऽणपि स्यात्।ईक्षिक्षमिभ्याश्च`इति। `ईक्ष दर्शने (धातुपाठः-610), {क्षमू-धातुपाठः-}क्षमु सहने (धातुपाठः-1206)- आभ्यां णो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्ववदेव कर्तव्यम्॥
Prakriyasarvasvam¶
कर्मण्युपपदे धातोरण् स्यात् । उपपदसमासादिकं सर्वत्रोह्यम् । कुम्भं करोतीति कुम्भकारः । गन्धवाहः । श्वपाकमांसपाकादावण् न्यङ्क्वादित्वात् कुः । गन्धवहश्वपचादौ तु पचाद्यजन्तेन पुनः समासः । एवं श्रीधरभूधरचापधरादावपि । आदित्यं पश्यतीत्यादावण् नेष्टः ।<!शीलिकाभिमक्ष्याचरिभ्यो णः!> (वा० ३-२-१),<!ईक्षिक्षमिभ्यां च!> (वा० ३-२-१) । एषां कर्मण्युपपदेऽणि सति स्त्रियां कुम्भकारीतिवत् ङीप् स्यादिति ण उक्तः । <karika>स्तुतिशीला हरिकामा फलभक्षा कानने व्रताचारा । तदनुग्रहप्रतीक्षा वसति द्वन्द्वक्षमा मुनिश्रेणिः ॥ ७८ ॥</karika> स्तुतिं शीलयति [हरिं कामयते] फलं भक्षयति इत्यादि कर्म योज्यम् ।
Vartika¶
शीलिकामिभक्ष्याचरिभ्यो णः ।
Sutra Prayogas¶
संतानकामाय (रघुवंशम्): कर्मण्यण् इति अण्-प्रत्ययः।
हुताशम् (रघुवंशम्): कर्मण्यण् इति अण्-प्रत्ययः।
शालिगोप्यः (रघुवंशम्): कर्मण्यण् इति अण्-प्रत्ययः।
नरलोकपालान् (रघुवंशम्): कर्मण्यण् इति अण्प्रत्ययः।
प्रतिहाररक्षी (रघुवंशम्): कर्मण्यण् इति अण्प्रत्ययः।
शुद्धान्तरक्ष्या (रघुवंशम्): कर्मण्यण् इति अण्-प्रत्ययः।
कुशसूचिलावम् (रघुवंशम्): कर्मण्यण् इत्यण्।
विभूषणप्रत्युपहारहस्तम् (रघुवंशम्): कर्मण्यण् इति अण्-प्रत्ययः।
शिल्पकार्य (रघुवंशम्): कर्मण्यण् इत्यण्।
पयःशेषं (कुमारसम्भवम्): कर्मण्यण् इति अण्प्रत्ययः।
वृषाङ्कागमनप्रतीक्षः (कुमारसम्भवम्): कर्मण्यण् इत्यण्।
मनोरमं (किरातार्जुनीयम्): कर्मण्यण् इत्यण् ।
निधिगुह्यकाधिपरमैः (किरातार्जुनीयम्): कर्मण्यण् इति अण्-प्रत्ययः।
गन्धवाहः (किरातार्जुनीयम्): कर्मण्यण् इति अण्-प्रत्ययः।
मृगव्यसत्त्रकामः (किरातार्जुनीयम्): कर्मण्यण् इति अण्-प्रत्ययः।
तनुवारभसो (किरातार्जुनीयम्): कर्मण्यण् इति अण्-प्रत्ययः।
सुरसद्मवाहाः (किरातार्जुनीयम्): कर्मण्यण् इति अण्-प्रत्ययः।
निर्वाच्यताकाम (किरातार्जुनीयम्): शीलिकामिभक्ष्याचरिभ्यो णः (वार्तिकम्) इति णप्रत्ययः।
हव्यवाह (शिशुपालवधम्): कर्मण्यण् इति अण्प्रत्ययः।
क्षितिरुहपल्लवपुष्पकर्णपूरैः (शिशुपालवधम्): कर्मण्यण् इति अण्-प्रत्ययः।
विशेषकामः (शिशुपालवधम्): शीलिकामिभक्ष्याचरिभ्यो णः (वा०) इति णप्रत्ययः।
हस्त्यारोहैः (शिशुपालवधम्): कर्मण्यण् इति अण्-प्रत्ययः।
सैंहिकेयानुकारात् (शिशुपालवधम्): कर्मण्यण् इति अण्-प्रत्ययः।
मानासे (शिशुपालवधम्): कर्मण्यण् इति अण्-प्रत्ययः।
भावावः (शिशुपालवधम्): कर्मण्यण् इति अण्प्रत्ययः।
करीरः (शिशुपालवधम्): कर्मण्यण् इति अण्-प्रत्ययः।
पत्रवाहाः (शिशुपालवधम्): कर्मण्यण् इति अण्-प्रत्ययः।
वारिवाहाः (शिशुपालवधम्): कर्मण्यण् इति अण् प्रत्ययः।
सदामदबलप्रायः (शिशुपालवधम्): कर्मण्यण् इति अण्-प्रत्ययः।
शितचक्रनिपातसंप्रतीक्ष्यं (शिशुपालवधम्): कर्मण्यण् इति अण्-प्रत्ययः।
शत्रु-लावौ (भट्टिकाव्यम्): कर्मण्यणू इति शत्रून् लुनातीति कर्मण्यण् ।
अ-कम्प्रं (भट्टिकाव्यम्): सर्वत्र नमि- कम्पि इति रः।
दृष्ट-कृत्स्नाऽऽमिषादः (भट्टिकाव्यम्): कर्मण्यण् इति आमिषं मांसमदन्तीति कर्मण्यण्प्रत्ययः।
कुलाऽऽनन्द (भट्टिकाव्यम्): कर्मण्यण् इति कुलानि आनन्दयतीति अण्।
अवसर-प्रतीक्ष (भट्टिकाव्यम्): कर्मण्यण् इति संधेर्विग्रहस्य वा स्वपरवृद्धिक्षयानु- कूलं कालं प्रतीक्षमाण इत्यर्थः।