31103: अर्यः स्वामिवैश्ययोः¶
Padacheda: अर्यः | S | 1 | 1 |
स्वामि-वैश्ययोः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
The word अर्य is irregularly formed when meaning ‘lord’ and a वैश्य।
Vasu English Translation¶
The word अर्य is irregularly formed when meaning ‘lord’ and a वैश्य। The word अर्य is irregularly formed when meaning ‘lord’ and a ‘Vaisya’. The root ऋ ‘to go’, would have taken ण्यत् by sutra 124 of this chapter; but it takes यत् when the sense of the word formed by it is that of a ‘lord’ or a man of ‘Vaisya’ caste. As अर्यः स्वामी, ‘honored lord’, अर्ये वैश्यः ‘honored Vaisya’.
Vart: Though by (6.1.213), the affix यत् makes the udatta accent fall on the first syllable of the word, yet in the case of the word अर्य, when it means ‘lord’, the accent falls on the last syllable.
Why do we say ‘when it means a lord or a Vaisya’? Otherwise the root takes the affix ण्यत्; as आर्यो ब्राह्मणः ‘the respectable Brahmana’.
Bhashya¶
अर्यः स्वामिवैश्ययोः (720) (442 यत्प्रत्ययविधिसूत्रम्॥ 3 । 1। 6 । आ. 6) (1945 अन्तोदात्तत्वविधिवार्तिकम्॥ 1 ॥) - स्वामिन्यन्तोदात्तत्वं च- (भाष्यम्) स्वामिन्यन्तोदात्तत्वं च वक्तव्यम्। अर्यः स्वामीति॥ अर्यः स्वामि ॥ 103 ॥
Kashika¶
ऋ गतौ अस्माण् ण्यति प्राप्ते स्वामिवैश्ययोरभिधेययोर्यत् प्रत्ययो निपात्यते। अ॒र्यः स्वामी। अर्यो॑ वैश्यः। यतोऽनावः (६.१.२१३) इत्याद्युदात्तत्वे प्राप्ते॥ स्वामिन्यन्तोदात्तत्वं च वक्त व्यम्॥ स्वामिवैश्ययोरिति किम्? आर्यो ब्राह्मणः॥
Siddhanta Kaumudi¶
ऋ गतौ । अस्माद्यत् । ण्यतोपवादः । अर्यः स्वामी वैश्यो वा । अनयोः किम् । आर्यो ब्रह्मणः । प्राप्तव्य इत्यर्थः ॥
Balamanorama¶
अर्यः स्वामिवैश्ययोः - अर्यस्वामिवैश्ययोः । अस्माद्यदिति । निपात्यत इति शेषः । ण्यतोऽपवाद इति ।ऋहलो॑रिति प्राप्तस्य ण्यतोऽपवाद इत्यर्थः । यति ऋकारस्य गुणे रपरत्वम् । तदाह — अर्यः स्वामीति । आर्यो ब्राआहृण इति । ण्यति वृद्धौ रपरत्वमिति भावः ।
Padamanjari¶
अर्यः स्वामिवैश्ययोः॥ स्वमिन्यन्तोदातत्वञ्चेति। अथ यो वैश्यः स्वामी च, तत्र कथम्? उच्यते - -वैश्याख्यायामाद्यौदातत्वम्, स्वाम्याख्यायामन्तोदातत्वम्। तथा च ठर्यस्य स्वाम्याख्यायाम्ऽ इति फिट्सूत्रे आख्याग्रहणं कृतम्। आर्यो ब्राह्मण इति। प्राप्तव्य इत्यर्थः॥
Nyaas¶
वक्तव्यम् इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - तन्त्रेणेह द्वावर्यशब्दावुच्चारितौ,तत्रैक आद्युदात्तः,अपरोऽन्तोदात्तः। य आद्युदात्तः स वैश्ये निपात्यते, इतरस्तु स्वामिनीति॥
Prakriyasarvasvam¶
आर्योऽन्यः ।
Sutra Prayogas¶
यज्वभिः (भट्टिकाव्यम्): सु-यजोईनिप् इति ङ्वनिप्।