31082: स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च

Padacheda: स्तन्भु-स्तुन्भु-स्कन्भु-स्कुन्भु-स्कुञ्भ्यः | S | 5 | 3 |

श्नुः | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

सार्वधातुके कर्तरि प्रत्यये परे स्तम्भ्, स्तुम्भ्, स्कम्भ्, स्कुम्भ्, स्कुञ् - एतेभ्यः श्ना तथा श्नु प्रत्ययौ भवतः ।

स्तन्भ्, स्तुन्भ्, स्कन्भ्, स्कुन्भ् - एते चत्वारः धातवः ‘रोधने’ अस्मिन् अर्थे पाठिताः सन्ति । एते धातवः ‘सौत्राः’ सन्ति - इत्युक्ते, धातुपाठे एतेषां निर्देशः नास्ति, केवलं सूत्रैः एव एतेषां निर्देशः क्रियते । स्कुञ्-इति धातुः क्र्यादिगणस्यैव धातुः अस्ति । एतेभ्यः पञ्च धातुभ्यः श्ना-प्रत्ययः अपि भवितुमर्हति, श्नु-प्रत्ययः अपि भवितुमर्हति । यद्यपि सूत्रे स्तम्भ् / स्तुम्भ् /स्कम्भ् / स्कुम्भ् इत्यत्र मकारः दत्तः अस्ति, तथापि औपदेशिकावस्थायामत्र नकारः एव स्वीक्रियते एतत् स्मर्तव्यम् । यथा - स्तन्भ् + श्ना + ति → स्तभ्नाति । स्तन्भ् + श्नु + ति → स्तभ्नोति । उभयत्र अनिदितां हलः उपधायां क्ङिति (6.4.24) इत्यनेन धातोः उपधानकारस्य लोपः भवति ।

Sutrartha (English)

In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verbs स्तम्भ्, स्तुम्भ्, स्कम्भ्, स्कुम्भ्, स्कुञ् gets the श्ना or the श्नु विकरणप्रत्यय.

Vasu English Summary

And there is the affix श्ना after स्तम्भ , स्तुम्भ , स्कम्भ or स्कुम्भ ‘to hinder’, to be dull or insensible’ ‘to support’ and स्कु ‘to go by leaps’, as well as the affix श्नु , when a सार्वधातुक affix follows, in denoting the agent. (Note: The first 4 धातु are not found in the धातुपाठ and are found in the sūtras, and hence called सौत्र धातु ।)

Vasu English Translation

And there is the affix श्ना after स्तम्भ , स्तुम्भ , स्कम्भ or स्कुम्भ ‘to hinder’, to be dull or insensible’ ‘to support’ and स्कु ‘to go by leaps’, as well as the affix श्नु , when a सार्वधातुक affix follows, in denoting the agent. (Note: The first 4 धातु are not found in the धातुपाठ and are found in the sūtras, and hence called सौत्र धातु ।) As स्तभ्नाति or स्तभ्नोति, स्तुभ्नाति or स्तुभ्नोति, स्कभ्नाति or स्कभ्नोति, स्कुभ्नाति or स्कुभ्नोति, स्कुनाति or स्कुनोति. The first four of these roots are not found in the Dhatupatha and are to be found in the sutras, and hence called Sautra roots.

Kashika

आद्याश्चत्वारो धातवः सौत्राः, स्कुञ् आप्रवणे एतेभ्यः श्नाप्रत्ययो भवति श्नुश्च। स्तभ्नाति, स्तभ्नोति। स्तुभ्नाति, स्तुभ्नोति। स्कभ्नाति, स्कभ्नोति। स्कुभ्नाति, स्कुभ्नोति। स्कुनाति, स्कुनोति। उदित्त्वप्रतिज्ञानात् सौत्राणामपि धातूनां सर्वार्थत्वं विज्ञायते, नैतद्विकरणविषयत्वमेव॥

Siddhanta Kaumudi

चात् श्ना । स्कुनोति । स्कुनुते । स्कुनाति । स्कुनीते । चुस्काव । चुस्काव । चुस्कवे । स्कोता । अस्कौषीत् । अस्कोष्ट । स्तम्भ्वादयश्चत्वारः सौत्राः । सर्वे रोधनार्था इत्येके । माधवस्तु प्रथमतृतीयौ स्तम्भार्थौ द्वितीयो निष्कोषणार्थश्चतुर्थो धारणार्थ इत्याह । सर्वे परस्मैपदिनः । नलोपः । विष्टभ्नोति । विष्टभ्नाति । अवष्टभ्नोति । अवष्टभ्नाति । अवतष्टम्भ । जॄस्तम्भु-(SK2291) इत्यङ्वा । व्यष्टभत् । व्यष्टम्भीत् । स्तुभ्नोति । स्तुभ्नाति ॥

Laghu Siddhanta Kaumudi

चात् श्ना। स्कुनोति, स्कुनाति। स्कुनुते, स्कुनीते। चुस्काव, चुस्कुवे। स्कोता। अस्कौषीत्, अस्कोष्ट॥ स्तन्भ्वादयश्चत्वारः सौत्राः। सर्वे रोधनार्थाः परस्मैपदिनः॥

Balamanorama

स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च - सौत्रा इति । नोपधा इत्यपि ज्ञेयम् । नलोप इति ।अनिदिता॑मित्यनेनेति भावः । विष्टभ्नोतीति ।स्तन्भे॑रिति षत्वम् । अवष्टभ्नोतीति ।अवच्चालम्बनाविर्दूययो॑रिति षत्वम् । अवतष्टम्भेति ।स्थादिषवभ्यासेने॑ति षत्वम् । व्यष्टभदिति ।प्राक्सितादिति षत्वम् ।

Padamanjari

स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च॥ उदित्विप्रतिज्ञानादिति। एषां ह्युकारोऽनुनासिक इत्संज्ञकः प्रतिज्ञायते, तस्य प्रयोजनम् - ठुदितो वाऽ इति क्त्वाप्रत्यये इड्विकल्पः। यदि चैतद्विकरणविषया एवैते स्युस्तन्नोपपद्यते। तस्मादुदित्वेन प्रतिज्ञानात्सर्वार्थत्वं विज्ञायते, सर्वे प्रत्ययाः प्रयोजनमेषामित्यर्थः। सर्वप्रत्ययशेषत्वभिति वा॥

Nyaas

चकारः श्नानुकर्षणार्थः। स्तभ्नाति इति। आदौ अनिदिताम् (6.4.24) इत्यनुनासिकलोपः। श्नुश्नाभ्यां सह निर्देशात् तद्विषयतैवैषां धातूनामिति कस्यचिद्भ्रान्ति स्यात्। अतस्तन्निराकर्त्तुमाह - उदित्त्वप्रतिपादनात् इत्यादि। एषां ह्रुकार इत्संज्ञकः प्रतिज्ञायते, तस्य क्त्वाप्रत्यय इड्विकल्पः फलम्। यदि त एतद्विकरणविषयाः स्युः, उदित्करणमनर्थकं स्यात्। तस्मादुदित्करणप्रतिज्ञानात् सर्वार्थत्वमेषामवसीयते। अर्थशब्दोऽयं विषयवाची। सर्वविषयत्वमित्यर्थः॥पुषाण, मुषाण इति। विध्यादौ लोट्, सेह्र्रपिच्च (3.4.87) , क्र्यादित्वाच् श्ना, तस्यानेन शानच्। चकारोऽन्तोदात्तार्थः। अतो हेः (6.4.105) इति हेर्लुक्। क्रीणीहि इति। ई हल्यघोः (6.4.113) इतीत्त्वम्। ननु च श्नाप्रत्ययस्य प्रकृतत्वात् स एवेह स्थानित्वेन विज्ञास्यते, तत् किमर्थः श्नः इति निर्देश इत्याह - श्न इति स्थानिनिर्देशः इत्यादि। शानच्शब्दोऽयमादेश इत्येष संप्रत्ययो यथा स्थादित्येवमर्थः श्न इति निर्देशः। किं पुनः कारणमसति तस्मिन्नेव संप्रत्ययो न स्यादित्यत आह - प्रत्ययान्तरं हि इत्यादि। सर्वे धातवोऽन्यगणपठिता अपि विषयो यस्य तत्तथोक्तम्।श्नः इत्यस्मिन् ह्रसति स्थानिर्देशे श्नाप्रत्ययस्यानुवृत्तिर्न ज्ञायेत्। ततश्च सर्वेभ्यो धातुभ्यो हलन्तेभ्यः शानजपवादः प्रत्ययो भवति तस्य च शानजादेशः, तदा मिदेर्गुणो मा भूत्; इतरथा ह्रयं गुणः प्रतिषेधविषय आरभ्यमाणो यथेह भवति - मेध्यतीति, तथेहापि स्यात् - मिदान इति। पुनः शित्करणे तु सार्वधातुकमपित् (1.2.4) इति ङित्त्वमपि पुनः प्रवर्तते। तेन मिदेः प्रतषेधविषयेऽपि गुण आरभ्यमाण इह न भवति॥

Prakriyasarvasvam

एभ्यः श्नुः श्ना च स्यात् । स्कुनाति, स्कुनीते । स्कुनोति, स्कुनुते । सार्वधातुके क्रीञ्वत् सुञ्वच्च । यकि स्कृयते । लुङि अस्कौषीत् । अस्कौष्टाम् । अस्कोष्ट । अस्कोषाताम् । लिटि ‘शपूर्वाः खयः’ (७-४-६१) । चुस्काव । चुस्कुवतुः । चुस्कविथ, चुस्कोथ । चुस्कुविव । चुस्कुवे । चुस्कुविषे । स्क्यात् । स्कोषीष्ट । स्कोता । स्कोष्यति । स्कोष्यते । स्तम्ब्वादयः सौत्राः । आद्यतृतीयौ स्तम्भार्थौ । द्वितीयो निष्कोषणार्थः । चतुर्थो धारणार्थः । सर्वे रोधनार्था इति कौमुदी । ‘अनिदिताम्-’ (६-४-२४) इति नलोपः । स्तभ्नाति, स्तभ्नोतीत्यादि ।