31080: धिन्विकृण्व्योर च

Padacheda: धिन्वि-कृण्व्योः | S | 6 | 2 |

अ | S | | | 1

च | S | 0 | 0 |

Sutrartha

कर्तरि सार्वधातुके प्रत्यये परे धिन्व्-धातोः कृण्व्-धातोः उ-प्रत्ययः भवति, अङ्गस्य च अकारादेशः भवति ।

धिविँ (प्रीणने) तथा कृविँ (गतौ / हिंसाकरणयोः ) एतौ धातू मूलरूपेण भ्वादिगणस्य धातू स्तः । अतः कर्तरि शप् (3.4.68) इत्यनेन एताभ्याम् कर्तरि सार्वधातुके प्रत्यये शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण अपवादत्वेन ‘उ’प्रत्ययः भवति । तथा च, अस्मिन् प्रत्यये परे एतयोः धात्वोः अन्तिमवर्णस्य अकारादेशः अपि विधीयते । यथा - धिविँ → धिन्व् [इदितो नुम्-धातोः (7.1.58) इति नुमागमः] → धिन्व् + लट् [वर्तमाने लट् (3.2.123) इति लट्-लकारः] → धिन्व् + तिप् [तिप्तस्झि.. (3.4.78) इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् ‘तिप्’ प्रत्ययः] → धिन् अ + उ + ति [धिन्विकृण्व्योर च (3.1.80) इत्यनेन विकरणप्रत्ययः ‘उ’ । तथा अङ्गस्य अकारादेशः ।] → धिन् उ ति [अतो लोपः (6.4.48) इत्यनेन आर्द्धधातुके प्रत्यये परे अदन्तस्य अङ्गस्य अकारस्य लोपः ।] → धिनोति [सार्वधातुकार्द्धधातुकयोः (7.3.84) इति गुणः] तथैव ‘कृणोति’ एतत् रूपमपि सिद्ध्यति ।

Sutrartha (English)

In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verbs धिन्व्, कृण्व् gets the ‘उ’ विकरणप्रत्यय.

Vasu English Summary

The affix उ comes after the roots धिन्व ‘to please’ and कृणिव ‘to hurt’, when a सार्वधातुक affix denoting the agent follows and in these verbs अ is the final substitute of the final इ।

Vasu English Translation

The affix उ comes after the roots धिन्व ‘to please’ and कृणिव ‘to hurt’, when a सार्वधातुक affix denoting the agent follows and in these verbs अ is the final substitute of the final इ। The root धिन्व or धिन्वि belongs to the Bhuadi class. Thus धिन्व + उ + ति = धिन् + अ + उ + ति = धिन् + उ + ति (6.4.48) = धिनोति ‘he pleases’. It might be asked, why there is no guna of the इ of धिन् by rule (7.3.86) which requires the base to be gunated before a sarvadhatuka or an ardhadhatuka affix. The answer is to be found in sutra (1.1.57); the substitute of अ which is a blank, is like the former occupant (sthanivat), and thus prevents guna.

Bhashya

धिन्विकृण्व्योरच (697) (426 उविकरणविधिसूत्रम्॥ 3.1.4 आ. 14) (अत्वविधिप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) क्वायमकारः श्रूयते?। (उत्तरभाष्यम्) न क्वचिच्छ्रूयते। लोपोस्य भविष्यतिउअतो लोप आर्धधातुके इति॥ (आक्षेपभाष्यम्) यदि न क्वचिछ्रूयते किमर्थमयमुच्यते। न लोपः इत्येवोच्येत॥ (आक्षेपबाधकभाष्यम्) नैवं शक्यम्। लोपे सति गुणः प्रसज्येत। अत्वे पुनः सति अकारलोपस्य स्थानिवद्भावाद् गुणो न भविष्यति॥ (आक्षेपसाधकभाष्यम्) ननु च लोपेऽपि सति न धातुलोप आर्धधातुके इति प्रतिषेधो भविष्यति॥ (आक्षेपबाधकभाष्यम्) आर्धधातुकनिमित्ते लोपे स प्रतिषेधः। न चैष आर्धधातुकनिमित्तो लोपः॥ अपि च प्रत्याख्यायते खल्वपि स योगः। तस्मिन्प्रत्याख्याते गुणः स्यादेव। तस्मादत्वं वक्तव्यम्। (नकारोच्चारणप्रत्याख्यानाधिकरणम्) (आक्षेपभाष्यम्) अथ किमर्थं नुमनुषक्तयोर्धिन्विकृण्व्योर्ग्रहणं क्रियते, न धिविकृव्योः इत्येवोच्येत॥ (आक्षेपबाधकभाष्यम्) धिविकृव्योः इतीयत्युच्यमाने अत्वे कृते अनिष्टे देशे नुम् प्रसज्येत॥ (आक्षेपसाधकभाष्यम्) इदमिह संप्रधार्यम् - नुम् क्रियताम्, अत्वमिति। किमत्र कर्तव्यम्?। परत्वान्नुमागमः॥ (आक्षेपबाधकभाष्यम्) अन्तरङ्गमत्वम्। कान्तरङ्गता?। प्रत्ययोत्पत्तिसंनियोगेनात्वमुच्यते। उत्पन्ने प्रत्यये प्रकृतिप्रत्ययावाश्रित्याङ्गस्य नुमागमः॥ (आक्षेपसाधकभाष्यम्) नुमप्यन्तरङ्गः। कथम्?। वक्ष्यत्येतत् नुम्विधावुपदेशिवद्वचनं प्रत्ययविध्यर्थम् इति। उभयोरन्तरङ्गयोः परत्वान्नुमागमः। तस्माद् धिविकृव्योरिति वक्तव्यम्॥ धिन्विकृण्व्योः॥ 80 ॥

Kashika

हिवि धिवि जिवि प्रीणनार्थाः, कृवि हिंसाकरणयोश्च इत्येतयोर्धात्वोरुप्रत्ययो भवति, अकारश्चान्तादेशः। धिनोति। कृणोति। अतो लोपस्य स्थानिवद्भावाद् गुणो न भवति॥

Siddhanta Kaumudi

अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । अतो लोपः (SK2308) । तस्य स्थानिवद्भावाल्लघूपधगुणो न । उप्रत्ययस्य पित्सु गुणः । धिनोति । धिनुतः । धिन्वति ॥

Balamanorama

धिन्विकृण्व्योर च - धिन्विकृण्व्योः । ‘अ’ इति लुप्तप्रथमाकम् । धिविकृव्योः कृतनुमोर्धिन्विकृण्वीत निर्देशः । ‘तनादिकृञ्भ्यः उः’ इत्यत उरिति चकारादनुकृष्यते ।कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके य॑गित्यतः सार्वधातुक इति च । तदाह — अनयोरित्यादिना । वकारस्याऽकारः । दिन् अ उ तीति स्थितम् । अतो लोप इति । युगपत्संनियोगशिष्टतया उप्रत्ययाऽकारयोर्विधानेऽपि श्रुतक्रमानुरोधेन प्रवृत्त्या आर्धधातुकोपदेशेकाले ‘धिन’ इत्यस्याऽदन्तत्वमिति भावः । नन्वत्र वकारस्य लोप एव विधीयतां किमकारविधिनेत्यत आह — तस्येति । वकारस्य लोपाविधौ तु अजादेशत्वाऽभावात्स्थानिकवत्त्वं न स्यादिति भावः । तथा च धिनु तीति स्थिते आह — उप्रत्ययस्येति । धिनुत इति । धिविधातोरनुमि तसि उप्रत्यये वकारस्य अकारादेशे अतो लोपः । तसो ङित्त्वादुकारस्य न गुणः । धिन्वन्तीति । धिन्व् इत्यस्माज्झिः । झोऽन्तः । उप्रत्ययः । वकारस्य अकारः । अतो लोपः । उकारस्य यणिति भावः । अत् वकारस्य स्थानिवत्त्वेन आर्धधातुकत्वेऽपि नेट् । उकारवृत्त्यार्धधातुकत्वस्य अल्धर्मत्वेन अनल्विधाविति निषेधात् । तदिदं ‘भोभगो’ इति सूत्रभाष्ये स्पष्टम् । धिनोषि धिनुथः धिनुथ । धिनोमि ।

Tattvabodhini

धिन्विकृण्व्योर च - धिन्विकृष्व्योर च ।अलोऽन्त्यस्ये॑ति वकारस्याऽकारादेशः । चकारेण तु उप्रत्ययोऽनुकृष्यते । बोपदेवेन त्वनयोस्तनादित्वं स्वीकृतम् । तन्मते तु चकारं विनाप्युप्रत्ययलाभः । अतो लोप इति । यद्यप्युपदेशेऽदन्तत्वं नास्ति तथाप्याद्र्धधातुकोपदेशे तदस्त्येव ।धिन्विकृण्व्योर चे॑ति श्रुतत्वादकारादेशे कृते चानुकृष्टस्य पश्चाज्जायमानत्वादिति भावः ।

Padamanjari

धिन्विकृण्व्योर च॥ अतो लोपस्य स्थानिवद्भावाद् गुणो न भवतीति। तेन प्रक्रियालाघवाय धिन्विण्व्योर्लोप एव नोक्त इति भावः। लोपे हि गुणस्स्यात्। न चच’न धातुलोप आर्द्धधातुके’ इति निषेधः, प्रत्ययसन्नियोगशिष्टत्वेन लोपस्यानार्द्धधातुकनिमितत्वात्। ननु नुमनुषक्तयोर्ग्रहणं किमर्थम्? नुमि कृतेऽत्वं यथा स्याद्,’धिविकृव्योः’ इत्युच्यमानेऽत्वे कृतेऽत एव परो नुम् प्रसज्येत; अत्वं ह्यन्तरङ्गं प्रत्ययसन्नियोगेन विधानात्; नुमागमस्तु बहिरङ्गः, उत्पन्ने प्रत्ययेऽङ्गस्य सतो विधानात्। ननु चास्त्वङ्गस्य नुम्, लावस्थायामेव भविष्यति; तिबादीनामन्तरङ्गत्वात्। तिबादिष्वेव तर्हि भविष्यति, न; नित्येनात्वेन बाधनात्। नुमागमस्तु शब्दान्तरप्राप्तेरनित्यः। अन्तरङ्गस्तर्हि नुमागमस्तद्विधौ धातुग्रहणात्? तद्धि धातुसंज्ञाप्रवृत्तिकाल एव नुम् यथा स्यादित्येवमर्थम्; अन्यस्योदितोऽसम्भवात्। कथमसम्भवः? यदिदानीमेवोक्तम् - तासेरिदित्करणमनुनासिकलोपप्रतिषेधार्थमिति। नन्वत्रापि पक्षे’नुम्विधावुपदेशिवद्ववचनं प्रत्ययसिद्ध्यर्थम्’ इति वचनादुपदेश एव नुम् भविष्यति ? एवं तर्ह्यन्तरङ्गत्वादेव प्राप्तस्य नुमोऽयं निर्द्देशः॥

Nyaas

भ्वादित्वाच्छपि प्राप्ते वचनम्। अकारादेशो भवति इति। अलोऽन्त्यस्य (1.1.51) परिभाषया। धिनोति इति। अतो लोपः (6.4.48) । अथ लघूपधगुणोऽत्र कस्मान्न भवतीत्याह - अल्लोपस्य इत्यादि। अचः परस्मिन् पूर्वविधौ (1.1.57) इत्यल्लोपस्य स्थानिवद्भावनादनुपधत्वादिकारस्य गुणो न भवति। लाघवारथं धिविकृव्योः इति वक्तव्ये नुमनुषक्तयोग्र्रहणं कृतमुपदेशावस्थायामेव नुम्भवतीति ज्ञापनार्थम्। तेन नुम्विधावुपदेशिवद्वचनमिष्टस्वरसिद्ध्यर्थमिति न वक्तव्यं भवति॥

Prakriyasarvasvam

आभ्यां कर्तरि सार्वधातुके उप्रत्ययः स्यादकारश्चान्तादेशः । उप्रत्ययस्या- पित्त्वादतो लोपः (६-४-४८) अल्लोपस्य स्थानिवत्त्वान्नोपधागुणः । धिनोति । धिनुतः । धिनुयात् । अधिनोत् । कर्मणि धिन्व्यते । लुङि अधिन्वीत् । अधिन्वि- ष्टाम् । दिधिन्व । दिधिन्वतुः । दिधिन्विथ । दिधिन्विव । धिन्व्यात् । धिन्विता । धिन्विष्यति । कर्मणि अधिन्वि । अधिन्विषाताम् । दिधिन्वे । दिधिन्विषे । धिन्विषीष्ट । एवं कृवि हिंसाकरणगतिषु । कृणोतीत्यादि । अकृण्वीत् चकृण्व । कृण्व्यात् । कृण्विता । कृण्विष्यति । कर्मणि धिन्विवदूह्यम् ।

Sutra Prayogas

  • धिनोति (किरातार्जुनीयम्): धिन्विकृण्व्योर च इत्युप्रत्ययः अकारश्चान्तादेशः।