31062: अचः कर्मकर्तरि¶
Padacheda: अचः | S | 5 | 1 |
कर्मकर्त्तरि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
चिण् is optionally the substitute of च्लि , when त - 3rd Person Singular of आत्मनेपद follows after a root which ends with a vowel and when the object itself is spoken of as the agent.
Vasu English Translation¶
चिण् is optionally the substitute of च्लि , when त - 3rd Person Singular of आत्मनेपद follows after a root which ends with a vowel and when the object itself is spoken of as the agent. A reflective verb is one in which the object is spoken of as the agent. In reflective verbs therefore, चिण् is employed after roots ending in vowels; as अकारि कटः स्वयमेव ‘the mat became made of itself. This is an optional rule (प्राप्तविभाषा). Therefore we have also अकृत कटः स्वयमेव; similarly अलावि or अलविष्ट केदारः स्वयमेव ‘the embankment broke of itself.
But in verbs other than those that end in vowels, i.e. in those which end with a consonant, the चिण् is obligatory in the reflective voice, and not optional; as अभेदि काष्ठम् स्वयमेव ‘the wood split of itself’. So also in verbs other than reflexives; as अकारि कटो देवदत्तेन.
Kashika¶
अजन्ताद् धातोः परस्य च्लेः कर्मकर्तरि तशब्दे परतश्चिणादेशो भवति। प्राप्तविभाषेयम्। अकारि कटः स्वयमेव, अकृत कटः स्वयमेव। अलावि केदारः स्वयमेव, अलविष्ट केदारः स्वयमेव। अच इति किम् ? अभेदि काष्ठं स्वयमेव। कर्मकर्तरीति किम्? अकारि कटो देवदत्तेन॥
Siddhanta Kaumudi¶
अजन्तात् च्लेश्चिण् वा स्यात्कर्मकर्तरि तशब्दे परे । अकारि । अकृत ॥
Tattvabodhini¶
अचः कर्मकर्तरि - अचः कर्म ।चिण् ते पदः॑ इत्यतश्चिण्तेशब्दावनुवर्तेते,॒दीपजने॑त्यतोऽन्यतरस्यामिति च । तदाह — अजन्तादित्यादि । अचः किम् । अभेदिकाष्ठम् । अत्र नित्यं चिण् । कर्मकर्तरि किम् । अकारि घटः कुलालेन । अत्रापि नित्यमेव । दुहश्च । कर्मकर्तरीत्येव । अदोहि गौर्गोपेनेत्यत्र तु नित्यम् । उदुम्बरः फलमिति ।कालः उदुम्बरं फलं पचती॑ति स्थिते गौणकर्मण उदुम्बरस्य कर्तृत्वविवक्षायामिह कर्मवद्भावः । ननु द्विकर्मकेषु पचेरप्रामाणिकः पाठ इति ये वदन्तितेषामयं ग्रन्थः कथं सङ्गच्छत इति चेत् । अत्राहुः — उदुम्बरः फलं पचती॑त्यत्रकर्मवत्कर्मणे॑त्यस्याऽप्राप्तौदुहिपच्यो॑रित्यनेन कर्मवद्भावो बहुलं विधीयते सृजियुज्योरिवेति न काप्यनुपपत्तरिति । सृजियुज्योः श्यंस्तु । श्यनो नित्त्वमाद्युदात्तार्थम् । यकि तुतास्यनुदात्ते॑दित्यादिना लसार्वधातुकानुदात्तत्वे कृते यक उदात्तत्वं श्रूयेत । श्रद्धोपपन्न इति । अश्रद्धायुक्ते कर्तरि तु यगेव । भूषामकर्मेति । कर्मशब्दः क्रियावाचीत्याह — भूषावाचिनामिति । अन्यत्रेति । आत्मनेपदादन्यस्य निषेध आत्मनेपदमेव भवतीत्यर्थस्तदेतदाह — यक्चिणाविति । अवाकीर्ष्टेति ।लिङ्सिचौ॑ इति वेट् । आद्रियत इति । तुदादित्वाच्छेरिङ् शयग्लिङ्क्षु॑ इति रिङि इयङ् । आदृतेति ।उश्चे॑ति कित्त्वम् ।ह्रस्वादङ्गा॑दिति सिचो लोपः ।
Padamanjari¶
अचः कर्मकर्तरि॥ कर्मकर्तरीरि। यत्कर्म भूत्वा कर्ता भवति तत्रैत्यर्थः। प्राप्तविभाषेयमिति।’कर्मवत्कर्मणा’ इत्यतिदेशेन नित्यं चिणः प्राप्तेः। अकारि कटो देवदतेनेति। अत्र शुद्धे कर्मणि’चिण् भावकर्मणोः’ इति नित्यमेव चिण् भवति। नन्विह कर्तरोत्यनुवर्तिष्यते, यद्येवम्, शुद्धे कर्तरि स्यात्, कर्मणीति वाक्यभेदेन कर्ता विशेषयिष्यते - कर्मणि कर्तरीति ? नैतदेवं शक्यते लब्धुम्; कर्मणीत्युच्यमाने कर्तुर्निवृत्तिरेव स्यात्, चकारेऽपि क्रियमाणे कर्मणि च भवति कर्तरि च भवतीत्यधिकरणयोरेव समुच्चयः स्याद्, न सामानाधिकरण्ये प्रमाणमस्ति॥
Prakriyasarvasvam¶
अजन्ताद् धातोः कर्मकर्तरि तशब्दे परे च्लेश्चि । चिण् वा स्यात् । अभ्यभावि शत्रुः स्वयमेव । चिणभावे सिच् । तस्य ‘स्यसिच्सीयुट्’ इति वा चिण्वदिट् । षत्वम् । अभ्यभाविष्ट, अभ्यभविष्ट । आतामादौ कर्मवदेव । किञ्च, <karika>कर्मकर्त्रर्थवृत्त्यात्र जातो धातुरकर्मकः । तेन भावेऽपि रूपं स्यादमित्रेणाभिभूयते ।। ६८१ ।। परावृत्यत इत्यर्थः कर्मकर्तृसमोऽत्र च । कर्मकर्तृमतामेवं भावे तव्यादि चोह्यताम् ।। ६८२ ।। कर्मकर्ता च कर्मस्थविकारेष्वेव धातुषु । क्रियायां यः प्रधा1नांश उद्देश्यत्वात् फलात्मकः ।। ६८३ ।। स विकार इति प्रोक्तो विक्लित्तिदलनादिकः । स्पन्दात्मासौ क्रियेत्याहुरस्पन्दो भाव उच्यते ।। ६८४ ।। विक्लित्तिः खल्ववयवस्पन्दात्मकत्वात् क्रियैव हि । भेदने दलने चैव दहने च विशीर्णता ।। ६८५ ।। अन्तर्गतिर्भोजनादौ जयादौ च पराञ्चनम् । चोरणादावपगमः कर्मण्येवंविधाः क्रियाः ।। ६८६ ।। घटादिपाके स्थैर्यादिर्भाव एव हि कर्मगः । दृशेर्भावः प्रकाशख्यः कर्मस्थो भाष्यकृन्मतः ।। ६८७ ।। शब्दप्रकाशो ब्रूजादौ शोभा भूषार्थकेष्वपि । पुंसो देशान्तराप्तिस्तु कर्तृस्थैव गमेः क्रिया ।। ६८८ ।।</karika> <karika>गृहमध्यास्त इत्यादौ तात्स्थ्यभावोऽपि कर्तृगः । अतो गमादेर्नास्त्येव कर्मकर्तेति गम्यताम् ॥ ६८९ ॥</karika> जि जये । जि अभिभवे । जय उत्कर्षप्राप्तिः । तत्राकर्मकः । अभिभवे तु सकर्मकः । लस्तिबादि । शप्गुणायादेशः । जयति जयतः जयन्ति इत्यादि । यकि,
Sutra Prayogas¶
उपाचायिष्ट (भट्टिकाव्यम्): अचः कर्मकर्तरि इति वा चिण्।