24048: इङश्च¶
Padacheda: इङः | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And of इङ् ‘to study’, गमि is the substitute when सन् follows.
Vasu English Translation¶
And of इङ् ‘to study’, गमि is the substitute when सन् follows. अधिजिगांसते, ०सेते, ०सन्ते ‘he wishes to study.’ The root इङ् is always preceded by the preposition अधि. This will be Atmanepadi by (1.3. 12) and (1.1.56). The form is similarly evolved by the application of rules (7.2.58) and (6.4.16).
Kashika¶
इङश्च सनि परतो गमिरादेशो भवति। अधिजिगांसते, अधिजिगांसेते, अधिजिगांसन्ते॥
Siddhanta Kaumudi¶
इङो गमिः स्यात्सनि । अधिजिगांसते ॥
Balamanorama¶
इङश्च - इङश्च । गमिः स्यात्सनीति ।णौ गमि॑रित्यतः,सनि चे॑त्यतश्च तदनुवृत्तेरिति भावः । इङो ङित्त्वात् ‘पूर्वक्त्सनः’ इति तङ् । परस्मैपदेष्वित्युक्तेर्नेट् ।अज्झने॑ति दीर्घ इति भावः ।
Nyaas¶
अधिजिगांसते इति। पूर्ववत् सनः (1.3.62) इत्यात्मनेपदम्। अज्झनगमां सनि (6.4.16) इति दीर्घः॥
Prakriyasarvasvam¶
इङः सनि गमादेशः स्यात् । तस्य ‘अज्झनगम—’ (६-४-१६) इति दीर्घः । अधिजिगांसते । अस्य लिटि—‘गमेरि परस्मैपदेषु’ (७-२-५८) इत्यत्र गमेरात्मनेपदे सत्येवेण्निषेध इत्युक्तत्वात्, आमि कृते च गमेः परस्य तङोऽसत्त्वा- दिडेव । अधिजिगमिषांचक्रे । एवं कृत्यपि तङोऽसत्त्वात्-अधिजिगमिषिता । गच्छतेस्तु सनि । ‘गमेरिट् परस्मैपदेषु’ इतीट् । जिगमिषति । ‘समो गम्यृच्छि-’ (१-३-२९) इति तङि तु इडभावेऽपि दीर्घोऽस्य न१ । संजिगंसते । कर्मण्यपि तङि जिगंस्यते । अत्रापि लिटि कृति च प्राग्वदिडेव । संजिगमिषाञ्चक्रे संजिगमिषिता२ । तङ योग्यगमेः कृतीण्नेति पदशेषे, संजिगंसिता । अधिजिगांसिता ।