24041: वेञो वयिः

Padacheda: वेञः | S | 6 | 1 |

वयिः | S | 1 | 1 |

Sutrartha


Vasu English Summary

When लिट् (Perfect Tense) follows, वयि is optionally the substitute follows of वेञ् ‘to weave’.

Vasu English Translation

When लिट् (Perfect Tense) follows, वयि is optionally the substitute follows of वेञ् ‘to weave’. In the Perfect tense thus we have two roots: Let us first take वेञ्. Then we have regulary वे + लिट् = वे + णल् = ववौ. The roots in ए, ऐ and ओ are treated like roots ending in आ thus :-

  • 3rd person - ववौ, ववतुः, ववुः

  • 2nd person - वविथ or ववाथ, ववथुः, वव

  • 1st person - ववौ, वविव, वविम

In this case samprasarana ordained by (6.1.17) does not take place by (6.1.40)

When however we take the base वय्, th इ being for the sake of articulation only, we have the following forms:- वय् + णल् = वय् + वय् + अ (6.1.8) = उय् + वय् + अ (6.1.17) = उवाय; the य is not changed into इ by (6.1.38). In this dual we have वय् + अतुस् = उय् + अतुः (6.1.15) = उ + उय् + अतुः (7.4.60) = ऊयतुः The affix अतुस् being कित् affix by rule (1.2.5) there is samprasarana before reduplication. Thus we have उयाय, ऊयतुः, ऊयुः. Further by rule (6.1.39) before कित् affixes व may be optionally substituted for य, i. e., ऊयतुः or ऊवतुः and ऊयुः or ऊवुः

Kashika

लिट्यन्यतरस्याम् (२.४.४०) इति वर्तते। वेञो वयिरादेशो भवत्यन्यतरस्यां लिटि परतः। इकार उच्चारणार्थः। उवाय, ऊयतुः, ऊयुः। पक्षे — ऊवतुः, ऊवुः। लिटि वयो यः (६.१.३८) इति यकारस्य संप्रसारणं प्रतिषिध्यते। वश्चास्यान्यतरस्यां किति (६.१.३९) इति वकारो विधीयते। ववौ, ववतुः, ववुः। वेञः (६.१.४०) इति संप्रसारणं न भवति॥

Siddhanta Kaumudi

वा स्याल्लिटि । इकार उच्चारणार्थः । उवाय ॥

Nyaas

इकार उच्चारणार्थः इति। नानुबन्धः। तेन नुम् न भवतीति भावः। उवाय इति। लिटभ्यासस्योभयेषाम् (6.1.17) इति सम्प्रसारणम्। ऊयतुः, ऊयुःक इत्यत्रापि ग्रह्रादिसूत्रेण (6.1.16) सम्प्रसारणम्। अथ यकारस्य सम्प्रसारणं कस्मान्न भवतीत्याह - लिटि वयो यः इत्यादि। वेञ इति सम्प्रसारणं न भवति इति। वच्यादिसूत्रेण प्राप्तम् वेञः (6.1.39) इति प्रतिषेधान्न भवति। तत्र हि न सम्प्रसारणे सम्प्रसारणम् (6.1.37) इत्यतो नेति वर्तते। उवाय इत्यादि रूपं वयेरात्मनेपदित्वान्न सिद्ध्यतीति सूत्रारम्भः॥

Prakriyasarvasvam

वेञो लिटि वा वयिः स्यात् । इदुक्त्यर्थः । ग्रहादित्वादभ्यासस्य उत्वम् उवाय । किति यकारस्यापि प्रसारणे प्राप्ते ।