24040: लिट्यन्यतरस्याम्

Padacheda: लिटि | S | 7 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

When लिट् (Perfect Tense) follows घसॢ is optionally the substitute of अद्।

Vasu English Translation

When लिट् (Perfect Tense) follows घसॢ is optionally the substitute of अद्। अघास or आद ‘he ate,’ जक्षतुः आदतुः ‘they two ate,’ जक्षुः or आदुः ‘they all ate’ The word जक्षतुः is thus formed :- घस् + अतुस् = घस् + अस् + अतुस् (6.1.8) = घ + घस् +अतुस् (7.4.60) = च + घस् + अतुः (7.4.62) = ज + घस् + अतुस् (8.4.53) = ज + घ्स् + अतुस् (6.4.98) = जक्षतुः (8.3.60).

Kashika

लिटि परतोऽदोऽन्यतरस्यां घस्लादेशो भवति। जघास, जक्षतुः, जक्षुः। आद, आदतुः, आदुः॥

Siddhanta Kaumudi

अदो घसॢ वा स्याल्लिटि । जघास । गमहन - (SK1263) इत्युपधालोपः । तस्य चर्विधिं प्रति स्थानिवद्भावनिषेधाद्धस्य चर्त्वम् । शासिवसि - (SK2410) इति षत्वम् । जक्षतुः । जक्षुः । घसस्तासावभावात्थलि नित्यमिट् । जघसिथ । आद । आदतुः । इडत्त्यर्ति - (SK2384) इति नित्यमिट् । आदिथ । अत्ता । अत्स्यति ॥

Laghu Siddhanta Kaumudi

अदो घस्लृ वा स्याल्लिटि। जघास। उपधालोपः॥

Balamanorama

लिट्यन्यतरस्याम् - लिटन्यतरस्याम् । ‘अदो जग्धि’ रित्यतोऽद इति, ‘लुङ्सनोर्घस्लृ’ इत्यतो घस्लृ इति चानुवर्तते । तदाह — अद इति । आदेशे ऌकार इत् । घसादेशोऽत्राऽनिट् । जघासेति । अकित्त्वात्गमहने॑त्युपधालोपो नेति भावः । जघस् अतुसिति स्थिते आह — गमहनेत्युपधालोप इति ।असंयोगा॑दिति कित्त्वादिति भावः । जघ्स् अतुसिति स्थिते घकारस्य चर्त्वं वक्ष्यन्नुपधालोपस्य स्थानिवत्त्वमाशङ्क्याह — तस्येति । उपधालोपस्येत्यर्थः । जघ्स् अतुसिति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाऽभावादाह — शासीति । थलितु क्रादिनियमान्नित्यमिट् । ‘उपदेशेऽत्वतः’ इति निषेधस्य तासौ नित्याऽनिड्विषयत्वात् । रघस् तु तासौ न विद्यत एव, कुतस्तस्य तासावनिट्कत्वम् ।यस्तासावस्ति अनिट् चे॑ति हि भाष्यम् । तदाह — घसेस्तासाविति । जघसिथेति । जक्षयुः जक्ष । जघासजघस जक्षिव जक्षिम । घसादेशाऽभावपक्षे त्वाह — आदेति । थलि भारद्वाजनियमादिड्विकल्पे प्राप्ते इडत्त्यर्तीति । आदिथेति । आदथुः आद । आद आदिव आदिम । अत्ता । अत्स्यतीति । अनिट् । दस्य तः । अत्तु अत्तात् अत्तामदन्तु । अद् — हि इति स्थितेझयो होऽन्यतरस्या॑मिति हकारस्य पूर्वसवर्णविकल्पेन धकारविकल्पे प्राप्ते —

Padamanjari

लिट।ल्न्यतरस्याम्॥ प्रकृत्यन्तरस्यासर्वविषयत्वज्ञापनार्थमिदम्। तेन यत्र लिङ्गं वचनं वा नास्ति, तत्र तस्य प्रयोगो न भवति। तत्र लृदित्करणं लुङ् प्रियोगस्य लिङ्गम्, घसिश्च सान्तेष्वित्यनुदातपाठो वलादावार्द्धधातुक,’सृघस्यदः क्मरच्’ इति वचनं क्मरचि। भूवादौ परस्मपदिषु पाठात्परस्मैपदे प्रयोगः॥

Nyaas

लिटि परतः इति। ननु च आर्धधातुके (6.4.46) इति वर्तते, आर्धधातुके इति च विषयसप्तमीयमित्युक्तम्, तदयुक्तं लिटि परत इति वचनम्? नेदमयुक्तम्; आर्धधातुकशब्दस्यार्धधातुकत्वमनेकप्रत्ययसाधारणं सामान्यमर्थः, तेन च पौर्वापर्यं न सम्भवति। तद्धि देशतो वा भवति कालतो वा, सामान्यस्य चादेशत्वात् कालत्वान्नित्यत्वाच्च तेन सह देशकृतं कालकृतञ्च पौर्वापर्यं नोपपद्यते, अतो युक्ता आर्धधातुके इति विषयसप्तमी। इह तु लिटि इत्यार्धधातुक उपात्तः, सम्भवति चानेन पौर्वापर्यम्। किञ्च - लिटि रभूते घस्लृ- आदेशे विधीयमाने न किञ्चिदनिष्टमापद्यते। तस्मात् परसप्तम्येवैषा युक्ता। जक्षतुः इति। गमहन (6.4.98) इत्यादिनोपधालोपः, शासिवसिघसीनाञ्च (8.3.60) इति षत्वम्, खरि च (8.4.54) इति चर्त्वम्। आद, आदतुः, `आदुः इति। अत आदेः (7.4.70) इत्यभ्यासस्य दीर्घः। ननु च घस्लृ अदने (धातुपाठः-715) इत्येतस्य जाघास, जक्षतुः, जक्षुरिति भविष्यति; अद भक्षणे (धातुपाठः-त1011) इत्यस्य आद, आदतुः, आदुरिति; अस्ति घसिः प्रकृत्यन्तरम्, सृघस्यदः क्मरच् (3.2.160) इति क्मरज्विधानात्, तत् कथमिह लिटि विकल्पविधानम्? घसेः प्रकृत्यन्तरस्यासर्वविषयत्वज्ञापनार्थम्। तेन तस्य सार्वधातुक आर्धधातुके च यत्र लिङ्गं नास्ति वचनञ्च, तत्र प्रयोगो न भवति॥

Prakriyasarvasvam

अदेर्लिटि वा घस्लृ स्यात् । जघास । किति ‘गमहन—’ इत्युपधालोपः । स्थानिवत्त्वाद् द्वित्वम् । पुनरुपधालोपः । हलादिशेषः । ‘कुहोश्चुः’ । चश् । ‘शासि वसि—’ इति षः । घस्य चर्व्वम् । जक्षतुः । जक्षुः । घसेस्तासावभावात् ‘—तास्वत—’ इति इण्निषेधो नास्तीति नित्यमिट् । जघसिथ । जक्षथुः । जक्ष । जघास, जघस । जक्षिव । घस्लृभावे तु अदेर्द्वित्वम् । अ अद् । ‘अत आदेः’ । सवर्णदीर्घः । आद । आदतुः । आदुः । ‘इडत्त्यर्ति—’ इति नित्यमिट् । आदिथ । आदिव । कर्मणि जक्षे जक्षिव्हे; आदे, आदिष्वे । आशिषि अद्यात् । अद्यास्ताम् । अद्यासुः । कर्मणि अत्सीष्ट । लुङादौ अत्ता । अत्स्यति । आत्स्यत् ॥ हन हिंसागत्योः । हन्ति । अपित्त्वात् ङित्त्वे ‘अनुदात्तोपदेश’ इति नलोपः । हतः । उपधालोपः । कुत्वम् । घ्नन्ति । हँसि । हथः । हथ । हन्मि । हन्वः । हन्मः । प्रादियोगे,

Sutra Prayogas

  • जक्षुः (भट्टिकाव्यम्): लिट्यन्यतरस्याम् इति अदेर्घस्लृ आदेशः।