24038: घञपोश्च¶
Padacheda: घञ्-अपोः | S | 7 | 2 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And when the affix घञ् and अप् follow घसॢ is the substitute of अद्।
Vasu English Translation¶
And when the affix घञ् and अप् follow घसॢ is the substitute of अद्। घासः ‘food, grass,’ अद् + घञ् = घास + अ (3.3.19). प्रघसः ‘voracity.’ प्र + अद् + अप् = प्र + घस.
Kashika¶
घञि अपि च परतोऽदो घस्लादेशो भवति। घासः। प्रघसः। उपसर्गेऽदः (३.३.५९) इत्यप्॥
Siddhanta Kaumudi¶
अदेर्घसॢ स्यात् घञि अपि च । प्रघसः । विघसः । उपसर्गे किम् । घासः ॥
Tattvabodhini¶
घञपोश्च - व्यद्यते विशेषेण भक्ष्यते इति विघसः = वैआदेबशिष्टमन्नम् । घासश्चतुष्पदां भक्ष्यम् ।शष्पं बालतृणं घासः॑इत्यमरः ।
Nyaas¶
घासः इति। भावे घञ्। प्रघसः इति। उपसर्गेऽदः (3.3.59) इत्यप्। लुङसन्घञ्प्सु घस्लृ इत्येकयोगे कर्तव्ये योगविभागो वैचित्र्यार्थः॥
Prakriyasarvasvam¶
घञपोः परयोः अदेर्घस्लृ स्यात् । प्रघसः । विघसः । अनुपसर्गाद् घास इति घञ् ॥
Sutra Prayogas¶
सङ्घसाः (भट्टिकाव्यम्): घनपोश्च इति अदेर्घस्लादेशः।