24036: अदो जग्धिर्ल्यप्ति किति¶
Padacheda: अदः | S | 6 | 1 |
जग्धिः | S | 1 | 1 |
ल्यप् | S | | | 7
ति | S | 7 | 1 |
किति | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The word जग्धि is the substitute of अद् ‘to eat’, when the affix ल्यप् – समासेऽनञ्पूर्वे क्त्वो ल्यप् (7.1.37) or an आर्धधातुक कित् affix beginning with a त follows.
Vasu English Translation¶
The word जग्धि is the substitute of अद् ‘to eat’, when the affix ल्यप् – समासेऽनञ्पूर्वे क्त्वो ल्यप् (7.1.37) or an आर्धधातुक कित् affix beginning with a त follows. प्रजग्ध्य ‘Having eaten.’ (प्र + अद् + ल्यप् = प्र + जग्ध् + य). So also जग्ध ‘eaten’ (अद् + क्त =जग्ध् + त).
The इ in जग्धि is merely for the sake of articulation and is not an anubandha, otherwise there would have been the insertion of the nasal न (नुम्). So also the इ in वचि &c, is merely for the sake of articulation. But अद् + क्त = अन्नः ‘food’ is an irregularity.
The employment of ल्यप् in this sutra indicates the existence of this Paribhasha. ‘A bahiranga substitution of ल्यप् supersedes even antaranga rules.’ Because in case this maxim did not exist, the substitution of जग्ध् for अद् before ल्यप् which is taught in this sutra, would follow already from the word किति (before that which is distinguished by an indicatory क) in this rule, i. e., जग्ध् would (by maxim ‘that which is bahiranga is regarded as not having taken effect, or as not existing, when that which is antaranga has taken effect’) first be substituted for अद् before क्त and ल्यप् afterwards for क्त.
Why do we say ‘before affixes beginning with त’? Observe अद्यते ‘is eaten.’
Why do we say ‘before affixes having indicatory क’? Observe अत्तव्यम्.
Bhashya¶
अदो जग्धिर्ल्यप्तिकिति (567) (355 आदेशसूत्रम् ॥ 2.4.1 आ.20 सू.) (अन्तरङ्गानपि निधीन् बहिरङ्गो ल्यब् बाधत इति परिभाषाधिकरणम्) (आक्षेपभाष्यम्) ल्यब्ग्रहणं किमर्थम्। न ति कितीत्येव सिद्धम् ॥ (आक्षेपबाधकभाष्यम्) ल्यपि कृते न प्राप्नोति ॥ (आक्षेपसाधकभाष्यम्) इदमिह संप्रधार्थम् - ल्यप् क्रियताम्, आदेशः, किमत्र कर्तव्यम्? परत्वाल्ल्यप्। अन्तरङ्ग, आदेशः ॥ (समाधानभाष्यम्) एवं तर्हि सिद्धे सति यल्ल्यब्ग्रहणं करोति तज्ज्ञापयत्याचार्यः - अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब् बाधते इति। किमेतस्य ज्ञापने प्रयोजनम्? ल्यबादेश उपदेशिवद्वचनमनादिष्टार्थं बहिरङ्गलक्षणत्वाद् इति वक्ष्यति, तन्न वक्तव्यं भवति ॥ (संवादभाष्यम्) जग्धिविधिर्ल्यपि यत्तदकस्मा- त्सिद्धमदस्ति कितीति विधानात् ॥ हिप्रभृतींस्तु सदा बहिरङ्गो ल्यब्भरतीति कृतं तदु विद्धि ॥ 1 ॥ (संवादभाष्यम्) एष एवार्थः - जग्धौ सिद्धेऽन्तरङ्गत्वात्ति कितीति ल्यबुच्यते ॥ ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम् इति ॥ अदोजग्धि ॥ 36 ॥
Kashika¶
अदो जग्धिरादेशो भवति ल्यपि परतः, तकारादौ च किति प्रत्यये। प्रजग्ध्य। विजग्ध्य। जग्धः। जग्धवान्। इकार उच्चारणार्थः, नानुबन्धः। तेन नुम् न भवति। एवं वच्यादीनामपि। इह कस्माद् न भवति — अन्नम्? अन्नाण्णः? (४.४.८५) इति निपातनात्।
जग्धौ सिद्धेऽन्तरङ्गत्वात्ति कितीति ल्यबुच्यते।
ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्॥
तीति किम्? अद्यते। कितीति किम्? अत्तव्यम्॥
Siddhanta Kaumudi¶
ल्यबिति लुप्तसप्तमीकम् । अदो जग्धिः स्यात् ल्यपि तादौ किति च । इकार उच्चारणार्थः । धत्वम् । झरो झरि (SK71) । जग्धः । आदिकर्मणि क्तः कर्तरि च (SK3053) । प्रकृतः कटं सः । प्रकृतः कटस्तेन । निष्ठायामण्यदर्थे (SK3014) इति दीर्घः । क्षियो दीर्घात् (SK3015) इति णत्वम् । प्रक्षीणः सः ॥
Balamanorama¶
अदो जग्धिर्ल्यप्ति किति - अदो जग्धिः । धत्वमिति । जघ्ध् त इति स्थितेझषस्तथो॑रिति तकारस्य धकार इत्यर्थः । झरो झरीति । अनेन पाक्षिको धकारलोप इत्यर्थः । आदिकर्मणि क्त इति । व्याख्यातं प्राक् । उदाहरणान्तरविवक्षया पुनरुपन्यासः । प्रकृतः कटं स इति.कर्तुमारब्धवानित्यर्थः । कटस्य कर्मणोऽनभिहितत्वाद्द्वितीया । कर्तुरभिहित्वात्तच्छब्दात्प्रथमा । चकाराद्भावे कर्णणि चेत्युक्तम् । तत्र कर्मण्युदाहरति — प्रकृतः कटस्तेनेति । प्रक्षीणः स इति । आदिकर्मणि क्तः ।
Tattvabodhini¶
अदो जग्धिर्ल्यप्ति किति - उच्चारणार्थ इति । इदित्त्वे तु नुम् स्यादिति भावः । घत्वमिति ।झषस्तथो॑रित्यनेन । झरो झरीति । अनेन पाक्षिको धलोप इत्यर्थः । इदानीं क्तार्थान्प्रपञ्चयति — आदिकर्मणि । व्याख्यातम् । प्रकृतः कटमिति । कटं कर्तुमारब्धवानित्यर्थः ।प्र॑शब्द आदिकर्मद्योतनार्थः । क्तेनोक्तत्कर्तरि प्रथमा । कुशल इत्यर्थः ।
Padamanjari¶
अदो जग्धिर्ल्यप्ति किति॥’ल्यप्’ इति पृथक् पदं लुप्तसप्तमीकम्। इह पदद्वयापेक्षं समासमपेक्षमाणो ल्यब्बहिरङ्गः, क्त्वाप्रत्ययमात्रापेक्षस्तु जग्ध्यादेशोऽन्तरङ्गः; तत्र क्त्वावस्थायामेव जग्धौ कृते प्रजग्ध्येति सिद्धम्, नार्थो ल्यब्ग्रहणेन। एवं तर्हि ल्यब्विषयेऽप्यन्तरङ्गत्वाति कितीत्येव सिद्धे जग्धौ ल्यबिति यदुच्यते तज्ज्ञापयति - अन्तरङ्गाणामपि विधीनां हिप्रभृतीनां ल्यपा भवति बाधनमिति। विधाय,विहाय, प्रदाय, प्रखाय, प्रखन्य, प्रस्थाय, प्रकम्य, आपृच्छय, प्रदीव्य, प्रपठ।लेत्येषु विधिषु’दधातेर्हिः’ ‘जहातेश्च क्त्वि’ दो दद् घोःऽ’जनसनखनां सञ्झलोः’ ‘द्यतिस्यतिमास्थामिति किति’ ठनुनासिकस्य क्विझलोः क्ङितिऽ’च्छवोः शूडनुनासिके च’ ठार्धधातुकस्येड्वलादेःऽ इत्येते विधयः क्त्वावस्थायामेव प्राप्ता बहिरङ्गेन ल्यपा बाध्यन्ते। एष एवार्थः श्लोकान्तरेण भाष्ये कथितः - जग्धिविधिर्ल्यपि यतदकरणम्। अकरणं निष्प्रयोजनमित्यर्थः। सिद्धमदस्ति कितीति विधानात्। अदो जग्धिविधानमित्यर्थः। ज्ञापकार्थ ल्यपि जग्धिविधानमित्याह - हिप्रभृतीस्तु सदा बहीरङ्गो ल्यब्भरतीति कृतं तदु विद्धि। ल्यब्भरतीति, ल्यबादेशो हरतिउव्यपनयति, बाधते इत्यर्थः। ठुऽ इति निपातोऽवधारणे। तदेवास्य प्रयोजनमित्यर्थः॥
Nyaas¶
प्रजग्घ्य इति। समानकर्त्तृकयोः पूर्वकाले (3.4.21) इति क्त्वा। कुगतिप्रादयः (2.2.18) इति समासः। समासेऽनञ्पूर्वे क्त्वो ल्यप् (7.1.37) । जग्धः इति। झषस्तथोर्द्धोऽधः (8.2.40) इति तकारस्य धकारः। झलां जश् झशि (8.4.53) इति जश्त्वम् - धकारस्य दकारः। झरो झरि सवर्णे (8.4.65) इति लोपः। अथेह इदितो नुम् धातोः (7.1.58) इति नुम् कस्मान्न भवतीत्यत आह - इकार उच्चारणार्थः इति। यथा - अद भक्षणे (धातुपाठः-1011) इत्यत्राकार उच्चारणार्थः, तथेहापीकारो वेदितव्यः। अथ ल्डग्रहणं किमर्थम्, ति कितीत्येवं सिद्धम्? न सिध्यति; यस्मात् क्त्वाप्रत्ययस्य परत्वाल्ल्यवादेशः प्राप्नोति, नैतदस्ति; अन्तरङ्गत्वाज्जग्ध्यादेशेन भवितव्यम्। अन्तरङ्गत्वन्तु तस्यैकपदाश्रयत्वात्। ल्यबादेशस्य तु बहिरङ्गत्वम्; समासाश्रयत्वात्; समासस्य चानेकपदाश्रयत्वात्। एवं तर्हि - जग्धौ सिद्धेऽन्तरङ्गत्वात् ति किति यल्ल्यबुज्यते।(तज्) ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्॥इति।तेन दधातेः, जहातेश्च संपूर्वाद्विपूर्वाच्च क्त्वाप्रत्यये कृते द्यतिस्यतिमास्थामिति किति (7.4.40) इत्यतस्ति कितीत्यनुवर्तमाने दधातेर्हिः (7.4.42) जहातेश्च क्त्वि (7.4.43) इति हिरादेशो ल्यबादेशं बाधित्वं प्राप्तः। अस्मादेव ज्ञापकाल्ल्यपा बाधितत्वान्न भवति - संधाय, विहायेति। एवं निर्दाय दुर्दायेति दो दद् घोः (7.4.46) इति ददादेशो न भवति। प्रस्थायेत्यत्र द्यतिस्यातिमास्थामितित किति (7.4.40) इतीत्वं न भवति। प्रखन्य प्रखायेति जनसनखनां सञ्जलोः (6.4.42) इति नित्यमात्त्वं न भवति, ये विभाषा (6.4.43) इति विभाषैव भवति। तत्र हि विह्वनोरनुनासिकस्यात् (6.4.41) इत्यत आद्ग्रहणनुवर्तते। प्रक्रम्य इति क्रमश्च क्त्वि (6.4.18) इति दीर्घत्वं न भवति। तत्र हि ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इत्यतो दीर्घग्रहणम्, अनुनासिकस्य क्विझलोः क्ङिति (6.4.15) इत्यतो झल्ग्रहणं क्ङिति चानुवर्तते। आपृच्छ्येति च्छ्वोः शूजनुनासिके च (6.4.19) इति शकारो न भवति। प्रदीव्येत्यत्रानेनैव सूत्रेणोठ् न भवति। हलि च (8.2.77) इति दीर्घत्वम्। प्रपठएत्यत्र आर्धधातुकस्य (7.2.35) इतीड् न भवति॥
Prakriyasarvasvam¶
ल्यपि तादौ किति च परे अदेर्जग्धिः स्यात् । इकार उक्त्त्यर्थः । जग्ध् त । ‘झषस्तथोः—’ (८-२-४०) इति धः । ‘झरो झरि—’ (८-४-६५) इति पूर्वधलोपः । जग्धः । जग्धवान् । ‘अन्नाण्णः’ (४-४-८५) इति निपातनेन जग्ध्यभावादन्नोऽप्यमरोक्तः ॥