24020: संज्ञायां कन्थोशीनरेषु¶
Padacheda: संज्ञायाम् | S | 7 | 1 |
कन्था | S | 1 | 1 |
उशीनरेषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
When denoting an appellative, a तत्-पुरुष compound ending with the word कन्था ‘town’, is neuter in gender, provided that it is the name of a town situated in a country of the उशीनर-s.
Vasu English Translation¶
When denoting an appellative, a तत्-पुरुष compound ending with the word कन्था ‘town’, is neuter in gender, provided that it is the name of a town situated in a country of the उशीनर-s. As, सोशमिकन्थम् ‘the town of Sausami’; आह्वरकन्थम् ‘the town of Ahwara.’
When not an appellative, the form is different; as, वीरणकन्था. So also if the town is not in the country of the Usinaras, as दाक्षिकन्था.
This debars the rule (2.4.25) by which a compound gets the gender of its subsequent term. (For accent see (4.2.124))
Kashika¶
संज्ञायां विषये कन्थान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् कन्था उशीनरेषु भवति। सौशमिकन्थम्। आह्वरकन्थम्। संज्ञायामिति किम्? वीरणकन्था। उशीनरेष्विति किम्? दाक्षिकन्था। परवल्लिङ्गतापवाद इदं प्रकरणम्॥
Siddhanta Kaumudi¶
कन्थान्तस्तत्पुरुषः क्लीबं स्यात्सा चेदुशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा । सुशमस्यापत्यानि सौशमयः तेषां कन्था सौशमिकन्थम् । संज्ञायां किम् । वीरणकन्था । उशीनरेषु किम् । दाक्षिकन्था ॥
Balamanorama¶
संज्ञायां कन्थोशीनरेषु - संज्ञायां कन्थो । सुगममेव । उपज्ञा । उपज्ञायते=प्रथमं ज्ञायत इत्युपज्ञा ।स्त्रियां क्ति॑न्नित्यधिकारे ‘आतश्चोपसर्गे’ इति कर्मण्यङ् । उपक्रम्यते=आरभ्यते इत्युपक्रमः । कर्मणि घञ् ।नोदात्तोपदेशस्ये॑ति वृद्धिनिषेधः । उपज्ञा चोपक्रमश्चेति समाहारद्वन्द्वः । ‘तत्पुरुष’ इत्यस्य विशेषमिदम् । तदन्तविधिः ।स नपुंसक॑मित्यतोनपुंसक॑मित्यनुवर्तते ।
Padamanjari¶
संज्ञायां कन्थोशीनरेषु॥ तत्पुरुषस्य कन्थया विशेषणातदन्तविधिरित्याह - कन्थान्तस्तत्पुरुष इति। सौशमिकन्थमिति। सुशमस्यापत्यानि सौशमयः॥
Nyaas¶
प्रकृते न तदन्तविधिरिति प्रकृतस्य तत्पुरुषस्य कन्यया तदन्तविधिर्वज्ञायत इत्याह - कन्थान्तस्तत्पुरुषः इति। सौशमिकन्थम् इति। सौशमीनां कन्था इति षष्ठीसमासः। दाक्षिकन्था इति। अस्तीयं ग्रामस्य संज्ञा; न तूशीनरेषु किं तर्हि? ततोऽन्यत्रेति॥
Prakriyasarvasvam¶
उशीनरराज्ये ग्रामसंज्ञाभूतः कन्थान्तस्तत्पुरुषः क्लीबं स्यात् । सौशमिकन्थम् ॥