24001: द्विगुरेकवचनम्¶
Padacheda: द्विगुः | S | 1 | 1 |
एकवचनम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
All affixes after the verb गाङ् ‘to study’ and the verb कुट् ‘to be crooked’ and the rest, are as if they had an indicatory ङ् (ङित्), except those affixes which have an indicatory ञ् (ञित्) or ण् (णित्).
Vasu English Translation¶
All affixes after the verb गाङ् ‘to study’ and the verb कुट् ‘to be crooked’ and the rest, are as if they had an indicatory ङ् (ङित्), except those affixes which have an indicatory ञ् (ञित्) or ण् (णित्). The word एकवचन is a genitive Tat-purusha compound meaning ‘the expression for one,’ that is to say, it expresses the sense of unity. The rule therefore, enjoins that the sense inherent in a Dvigu compound is that of unity.
This is confined to Samahara Dvigu i.e., an aggregate compound taken in a collective sense. As, पञ्चगवं ‘an aggregate of five cows’, पञ्चपली (IV.1.21.). The sense of Dvigu being that of one, it follows that it retains the singular number even when further modified by other affixes, and used as an attributive and though no longer a Dvigu, as, पञ्चपूलीयं शोभना ॥
Bhashya¶
द्विगुरेकवचनम् (532) (336 अतिदेशसूत्रम् ॥ 2.4.1 आ. 1 सू.) (सूत्रप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते? (1554 समाधानवार्तिकम् ॥ 1 ॥) - प्रत्यधिकरणं वचनोत्पत्तेः संख्यासामानाधिकरण्याच्च द्विगोरेकवचनविधानम् - (भाष्यम्) प्रत्यधिकरणं वचनोत्पत्तिर्भवति ॥ किमिदं प्रत्यधिकरणमिति? अधिकरणमधिकरणं प्रति प्रत्यधिकरणम् ॥ संख्यासामानाधिकरण्याच्च। संख्यया बह्वर्थया चास्य सामानाधिकरण्यम्। प्रत्यधिकरणं वचनोत्पत्तेः संख्यासामानाधिकरण्याच्च बहुषु बहुवचनम् इति बहुवचनं प्राप्नोति। इष्यते चैकवचनं स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति द्विगोरेकवचनविधानम्। एवमर्थमिदमुच्यते ॥ (काकुभाष्यम्) अस्ति प्रयोजनमेतत्। किं तर्हीति ॥ (अनुप्रयोगेप्येकवचनसाधनाधिकरणम्) (1555 आक्षेपवार्तिकम् ॥ 2 ॥) - तत्रानुप्रयोगस्यैकवचनाभावोऽद्विगुत्वात् - (भाष्यम्) तत्रानुप्रयोगस्यैकवचनं न प्राप्नोति पञ्चपूलीयम् इति ॥ किं कारणम्? अद्विगुत्वात्। द्विगुरेकवचनम् इत्युच्यते। न चात्रानुप्रयोगो द्विगुसंज्ञः ॥ (1556 समाधानाय न्यासान्तरवार्तिकम् ॥ 3 ॥) - सिद्धं तु द्विग्वर्थस्यैकवद्वचनात् - (भाष्यम्) सिद्धमेतत् ॥ कथम्? द्विग्वर्थ एकवद्भवतीति वक्तव्यम् ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम् ? (समाधानभाष्यम्) न वक्तव्यम्। नेदं पारिभाषिकस्य वचनस्य ग्रहणम्। किं तर्हि? अन्वर्थग्रहणम् - उच्यते वचनम्, एकस्यार्थस्य वचनमेकवचनमिति ॥ (एकशेषेबहुवचनसाधनाधिकरणम्) (1557 आक्षेपवार्तिकम् ॥ 4 ॥) - एकशेषप्रतिषेधश्च - (भाष्यम्) एकशेषे च प्रतिषेधो वक्तव्यः। पञ्चपूली च पञ्चपूली च पञ्चपूली च पञ्चपूल्यः ॥ (1558 समाधानवार्तिकम् ॥ 5 ॥) - न वान्यस्यानेकत्वात् - (भाष्यम्) न वा वक्तव्यः ॥ किं कारणम्? अन्यस्यानेकत्वात्। नैतद्द्विगोरनेकत्वम् ॥ कस्य तर्हि? द्विग्वर्थसमुदायस्य ॥ (तद्धितार्थद्विगौ एकवद्भावपरिहाराधिकरणम्) (1559 आक्षेपवार्तिकम् ॥ 6 ॥) - समाहारग्रहणं च तद्धितार्थप्रतिषेधार्थम् - (भाष्यम्) समाहारग्रहणं च कर्तव्यम्। किं प्रयोजनम्? तद्धितार्थप्रतिषेधार्थम्। तद्धितार्थे यो द्विगुस्तस्य मा भूत् - पञ्चकपालौ पञ्चकपाला इति ॥ (समाधानाय प्रत्याक्षेपभाष्यम्) किं पुनरयं पञ्चकपालशब्दः प्रत्येकं परिसमाप्यते, आहोस्वित्समुदाये वर्तते? (संदेहबीजभाष्यम्) किं चातः? (प्रथमपक्षाङ्गीकारेविशेषप्रदर्शनभाष्यम्) यदितावत्प्रत्येकं परिसमाप्यते, पुरस्तादेव चोदितं परिहृतं च ॥ (द्वितीयपक्षाङ्गीकारभाष्यम्) अथ समुदाये वर्तते ॥ (1560 द्वितीयपक्षे विशेषप्रदर्शनवार्तिकम् ॥ 7 ॥) - न वा समाहारैकत्वात् - (भाष्यम्) न वैतत् समाहारैकत्वादपि सिध्यति ॥ (प्रथमपक्षाङ्गीकारभाष्यम्) एवं तर्हि प्रत्येकं परिसमाप्यते ॥ पुरस्तादेव चोदितं परिहृतं च ॥ (व्याख्यान्तरभाष्यम्) अपर आह - न वा समाहारैकत्वात् ॥ न वा योगारम्भेणैवार्थः। किं कारणम्? समाहारैकत्वादेकवचनं भविष्यति ॥ द्विगुरेक ॥ 1 ॥
Kashika¶
द्विगुः समास एकवचनं भवति। एकस्य वचनमेकवचनम्। एकस्यार्थस्य वाचको भवतीत्यर्थः। तदनेन प्रकारेण द्विग्वर्थस्यैकवद्भावो विधीयते, द्विग्वर्थ एकवद् भवतीति। समाहारद्विगोश्चेदं ग्रहणम्, नान्यस्य। पञ्च पूलाः समाहृताः पञ्चपूली। दशपूली। द्विग्वर्थस्यैकत्वादनुप्रयोगेऽप्येकवचनं भवति — पञ्चपूलीयं शोभनेति॥
Siddhanta Kaumudi¶
द्विग्वर्थः समाहार एकवत्स्यात् । स नपुंसकम् (SK821) इति नपुंसकत्वम् । पञ्चानां गवां समाहारः पञ्चगवम् ॥
Laghu Siddhanta Kaumudi¶
द्विग्वर्थः समाहार एकवत्स्यात्॥
Balamanorama¶
द्विगुरेकवचनम् - द्विगुरेकवचनम् । अत्रसमाहारग्रहणं कर्तव्य॑मिति वार्तिकात्समाहार इति लभ्यते । वक्तीति वचनम् । बाहुलकः कर्तरि ल्युट् । सामान्ये नपुंसकम् । समाहारे द्विगुरेकार्थप्रतिपादकः स्यादिति लभ्यते । तत्र यदि समाह्यियत इति कर्मणि घञि समाहारशब्दः समाह्मतप्रधानः तदा समाह्मतगतद्वित्वबहुत्वयोः एकत्वानुपपत्तेरतिदेशः सम्पद्यते । तदाह — द्विग्वर्थः समाहार एकवदिति । यदा समाहरणं समाहारः=समूहः, तदा तस्यैकत्वादेव सिद्धमिति नेदं सूत्रमारम्भणीयमिति भाष्ये स्पष्टम् । केचित्तु समूहस्य वस्तुत एकत्वेऽपि उद्भूतावयवभेदविवक्षया द्विबहुवचनव्यावृत्त्यर्थमिदम् । एवं चात्र उद्भूतावयवभेदविवक्षा न कर्तव्येति फलतीत्याहुः ।स नपुंसकमिति । समाहारे द्विगुद्र्वन्द्वश्च नपुंसकं स्यादिति तदर्थो मूले वक्ष्यते ।[इति द्विगुसमासः] ।
Tattvabodhini¶
द्विगुरेकवचनम् - द्विगुरेकवचनम् । वक्तीति वचनम् । बाहुलकात्कर्तरि ल्युट् ।सामान्ये नपुंसकम् । द्विगुः समास एकर्थप्रतिपादको भवतीत्यर्थः । न च वस्तुतोऽनेकार्थस्यैकार्थत्वं कथंचिदुपपद्यत इति सामर्थ्यादतिदेशः संपद्यत इत्याह — एकवत्स्यादिति ।समाहारे॑इति तूपसङ्ख्यानाल्लभ्यते । समाहारे यो द्विगुस्तदर्थ एकवदित्यवयः । समाहारे किम् । तद्धितार्थे माभूत् । पञ्चसु कपालेषु संस्कृताः पञ्चकपालाः, पञ्चभिर्गोभिः क्रीताः पञ्चगवः पटाः । पञ्चगवे पञ्चगवानीत्यत्र तु प्रथम् द्विगर्थस्यैकवद्भावे कृते योऽयमेकशेषे कृते द्विगर्थसमुदायस्तस्याऽद्विगर्थत्वाद्बहिरङ्गत्वाच्चैतवद्भावो न भवतीति स्थितमाकरे । यदातद्धितार्थ॑इति सूत्रेसमाहारे॑इति कर्मसाधनस्तदा समाह्मतप्रधानो द्विगुरिति बहुत्वे प्राप्तेऽनेन एकवद्भावः क्रियते । यदा तु भावसाधन एव समाहारस्तदा समूहप्रधानत्वाद्द्विगोः, समूहस्य चैकत्वात्सिद्धमेकत्वमिति नास्य प्रयोजनम् । न चस नपुंसक॑मिति नपुंसकत्वार्थमेकत्वविधानमितिवाच्यं, समुदायवाचकेषुसामान्ये नपुंसक॑मित्यभ्युपगमे बाधकाऽभावादित्याहुः । वस्तुतस्तुतद्धितार्त॑इति सूत्रे समाहार इति भावे घञ्न तु कर्मणि ।पञ्चगव॑मित्यत्र पञ्च गव#ः समाह्मता इत्यर्थाभ्युपगमे समाह्यियमाणानां बहुत्वेन एकवचनानुपपत्तेः । न चद्विगुरेकवचन॑मिति सूत्रान्नैवमिति वाच्यम्, पञ्चखट्वीत्यसिद्धेः । तत्र हि पञ्च खट्वाः समाह्मताः, पञ्चसु खट्वासु समाह्मतास्वित्येवं विग्रहसंभवेन नियतविभक्तित्वाऽभावादेविभक्ति चापूर्वनिपाते इत्यप्रवृत्तेरनुपसर्जनत्वात्गोस्त्रियो॑रिति ह्रस्वो न स्यात् । ततश्चआबन्तो वे॑ति स्त्रीत्वपक्षेद्विगोः॑इत्यदन्तलक्षणो ङीब्न स्यात् । भावसाधनत्वे त्वेकविभक्तित्वादुपसर्जनत्वमव्याहतमेव । समाहारापेक्षया नियमेन वर्तिपदानां षष्ठन्तत्वात्, तथा च पञ्चखट्वीत्यादिरूपं निर्बाधमेवेति दिक् । स नपुंसकमिति । एतस्यार्थो मूल एव स्फुटीभविष्यति ।
Padamanjari¶
द्विगुरेकवचनम्॥ अत्र यदि पारिभाषिकमेकवचनं गृह्यएतानुप्रयोगत एकवचनं न स्यान् - पञ्चपूलीयं शोभनेति, तस्याद्विगुत्वाद्’द्विगोः’ इति पञ्चम्या च निर्द्देशः स्यात्, अतोऽन्वर्थस्यैकवचनस्येदं ग्रहणमिति मत्वाऽऽह - एकस्य वचनमेकवचनमिति। वक्तीति वचनम्,’कृत्यल्युटो बहुलम्’ इति कर्तरि ल्युट्, एकस्यार्थस्य वचनमेकवचनमिति कर्मणि षष्ठयाः समासः। तत्र चैकस्यार्थस्य वाचर्क भवतीति सामान्यनोपक्रमः, पश्चात्किं तदित्यपेक्षायां द्विगुरित्यस्य पुंल्लिङ्गस्य सम्बन्ध इत्येकवचनमिति नपुंसकोपपतिः। एतदेव व्यनक्ति - एकस्यार्थस्येति। एवं च द्विगुरेकार्थस्य वाचको भवति। यदि द्विग्वर्थ एको भवति, न च वस्तुतोऽनेकार्थस्य वचनशतेनाप्येकार्थत्वामापादयितुं शक्यमिति सामर्थ्यादतिदेशो विज्ञायते, तदाह - तदनेन प्रकारेणेति। तदिति वाक्योपन्यासे किमुक्तं भवतीत्याहद्विग्वर्थ एकवद्भवतीति। समाहारद्विगोश्चेदं ग्रहणमिति। तद्वितार्थे यो द्विगुस्तस्यैकवद्भावो मा भूदित्येवमर्थ पञ्चभैर्गोभिः क्रीताः पञ्चगवः पटा इति। अथ क्रियमाणेऽपि समाहारग्रहणे इह कस्मान्न भवति - पञ्चपूली च पञ्चपूली च पञ्चपूल्य इति, शिष्यमाणस्यद्विगुत्वातदर्थस्यैकवद्भावः प्राप्नोति? न वा; बहिरङ्गत्वाद्, बहिरङ्गोऽयं द्विग्वर्थः सत्येव द्विगावेकशेषात्प्रगभावादेकशेषे सति पश्चादुपजायमान्तवादन्तरङ्गे प्राथमकल्पिके द्विग्वर्थे चरितार्थ एकवद्भावोऽत्र न भविष्यति। यद्येवम्, पञ्चगवः पटा इत्यत्राप्येवमेव भविष्यति? सत्यम्; यदा पटाः प्रत्येकं पञ्चभिर्गोभिः क्रिताः, यदा तु बहवः पटाः संहताः पञ्चभिर्गोभिः क्रियन्ते तदाऽयमेकशेषस्याविषयः। यदि तर्हि समाहारद्विगोर्ग्रहणम्, नार्थोऽनेन, कथम्? समाहारःउ समूहः, तस्यैकत्वाद्यौउथं वनमित्यादिवदेकवचनं भविष्यति। यदि तर्हि समाह्रियत इति समाहार इति कर्मसाधनः समाहारशब्दः, तदाऽपेक्षितपरस्पराः पञ्चपूलाः समासार्थ इति बहुवचनप्रसङ्गेऽतिदेश आरभ्यते, तदाह - प्रत्यधिकरणं वचनोत्पतेः संख्यासामानाधिकरण्याच्च द्विगोरेकवचनविधानमिति। अधिकरणं द्रव्यम्, संख्यावाची पञ्चादिशब्दः, यत्संख्याविशिष्ट्ंअ द्रव्यमभिधीयते तदभिधानयोग्यं वचनमुत्पद्यते। पञ्चपूलीशब्देन पञ्चपूलाः समाह्रियमाणा उच्यन्ते, अतः समासार्थस्य पञ्चादिभिः सामानाधिकरण्याद् द्विवचनबहुवचनप्रसङ्गे एकवचनं विधीयत इत्यर्थः। संख्यासामानाधिकरण्यादित्यनेन कर्मसाधनत्वं समाहारशब्दस्य दर्शयति, भावसाधने तु वैयदिकरण्यंपञ्चानां पूलानाम्। न वा समाहारैकत्वादिति, अयमर्थः - तिरोहितावयवभेदः समूहरूपः समाहारो द्विग्वर्थस्तस्यैकत्वाद्वनादिवदेकवचनसिद्धेर्नात्र सूत्रेण प्रयोजनम्। अवश्यं च तद् भावसाधनः समाहार आश्रयणीयः अन्यथा पञ्चानां खट्वानां समाहारः पञ्चखट्वीत्यत्र वा टाबन्त इति स्त्रीत्वपक्षेखट्वाशब्दस्यानुपसर्जनत्वात् ह्रस्वो न स्यात्। अनुपसर्जनत्वं चाप्रथमानिर्द्दिष्टत्वादनेकविभक्तित्वाच्च। भावसाधने तु पञ्चानां खट्वानां समाहारः, समाहारं समाहारेणेति समासार्थस्य नानाविभक्तियोगेऽपि खट्वाशब्दस्य नित्यं षष्ठ।ल्न्तत्वात् ठेक विभक्ति चऽ इत्युपसर्जनत्वाद् ह्रस्वत्वं सिध्यति, एकवचनमित्येतदुतरार्थं कर्तव्यमेव। पञ्चपूलीति। ठकारान्तोतरपदो द्विगुः स्त्रियां भाष्यतेऽ इति स्त्रीलिङ्गत्वाद्’द्विगोः’ इति ङीप्॥
Nyaas¶
अत्र यदि पारिभाषिकमेकवचनं गृह्रेत तदानुप्रयोग एकवचनं न स्यात् - पञ्चपूलीयं शोभनेति, अनुप्रयोगस्याद्विगुत्वात्। यदि पारिभाषिकमेकवचनमिहाभिप्रेतं स्यात् तदा द्विगोरेकवचनमित्येवं ब्राऊयात्, तस्मादन्वर्थस्यैकवचनस्येदं ग्रहणं न पारिभाषिकस्येति मनसि कृत्वाह - एकस्य वचनमेकवचनम् इति। एतेनैकवचनशब्दस्य षष्ठीसमासतां दर्शयन्नन्वर्थतां दर्शयति। एकस्य वचनं वाचकमेकवचनमिति। वक्तीति वचनम्, कृत्यल्युटो बहुलम् (3.3.113) इति कर्तरि ल्युट्। एकवचनस्यैवार्थं पर्यायान्तरेण स्पष्टीकर्तुमाह - एकार्थस्य इत्यादि। ननु चैकवचनमिति पुंल्लिङ्गेन भवितव्यम्; कथम्? द्विगोः पुंल्लिङ्गत्वात्; न; लिङ्गसामान्यस्य विवक्षितत्वान्नपुंसकलिङ्गेनैव सामान्येन निर्देशः कृत इत्यदोषः। तदनेन प्रकारेण इति। अन्वर्थस्यैकवचनशब्दग्रहणात्मकेनेत्यर्थः। नचानेकार्थाभिधायिनः शब्दस्य वचनशतैरप्येकार्मथाभिधायित्वं शक्यते कर्त्तुम्; शब्दानामर्थाभिधायित्वस्य स्वाभाविकत्वात्; उच्यते चेदं वचनम्, ततः सामर्थ्यादतिदेशोऽयं विज्ञायत इत्यत आह - द्विग्वर्थस्यैकवद्भावो विधीयते इति। अस्यैवार्थं स्पष्टीकर्तमाह - द्विग्वर्थ एकवद्भवति इति। यद्येवम्, तद्धितार्थो यो द्विगुस्तस्याप्यकवद्भावः प्राप्नोति - पञ्चसु कपालेषु संस्कृतौ संस्कृता वा पञ्चकपालौ पञ्चकपाला वेत्यत आह - समाहारद्विगोश्च इत्यादि। चकारोऽवधारणे। समाहारद्विगोरेवेति यावत्। कथं पुनः समाहारद्विगोरेव ग्रहणं लभ्यते? एवं मन्यते - द्वन्द्वश्च (2.4.2) इत्यत्र चकारेण द्विगुरनुकृष्यते। यस्मिन्नर्थे द्वन्द्व एकार्थीभवति तस्मिन्नेवार्थे द्विगोरप्येकवद्भावो यथा स्यादिति। द्वन्द्वश्च समाहार एवैकार्थीभवति, नान्यत्र। तस्मात् द्विगोरप्येकवद्भावस्तत्रैव भवति; अतः समाहारद्विगोरेवेदं ग्रहणं युक्तं भवति। यदि तर्हि समाहारद्विगोरेवेदं ग्रहणं तदा निष्प्रयोजनोऽतिदेशः, तथा हि - समाहारो द्विगोरर्थः, समाहारश्च भावसाधनः, समाहरणं समाहारः = समुदायः, स चैक एव। तत्र न्यायप्राप्तमेवैकवचनमिति निष्फलः सूत्रारम्भः? नैतदस्ति; यतः समुदायिभ्योऽनन्यः समुदायः इत्यस्मिन् दर्शनेऽनेकद्रव्यात्मकत्वात् समुदायस्यैकवचनं न सिद्ध्यतीतीदमारब्धम्। तथा चोक्तं भाष्ये - प्रत्यधिकरणं वचनोत्पत्तेः संख्यासामानाधिकरण्याच्च द्विगोरेकवचने विधानम् इति। प्रत्यधिकरणम् = प्रतिद्रव्यम्। वचनस्योत्पत्तौ प्रत्यभिधेयद्रव्यसमवायिनी संख्याविभक्तिः प्रयोजिकोत्पद्यते। द्विगोश्च योऽर्थः सोऽनेकद्रव्यात्मकः। तथा हि - पञ्च समाह्मताः। समाह्यियमाणानां पूलानां पञ्चसंख्यावच्छिन्नत्वात् संख्यासामानाधिकरण्याच्च पञ्चैतानि द्रव्याणीति कृत्वा समुदायस्यैकवचनं न सिद्ध्यति। तत्रासत्यस्मिन् वचने बहुत्वात् बहुवचनं स्यात्। अत एवद्भावो विधीयत इति वाक्यार्थः।समुदायिभ्योऽन्यः समुदायः इत्यस्मिन् दर्शने सूत्रमिदं प्रत्याख्यातव्यमेव। तथा चोक्तं भाष्ये - न वा समाहारैकत्वात् इति। न वा योगारम्भेणैवार्थः। यस्मादेकोऽयमर्थः समाहारो नाम। तत्रैकत्वादेकवचनं भविष्यतीति वाक्यार्थः। पञ्चपूली इति। अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते (वा।156) इति स्त्रीत्वे सति द्विगोः` (4.1.21) इति ङीप्। अर्थस्यैकत्वात् इत्यादिनाऽर्थातिदेशस्य फलं दर्शयति॥
Prakriyasarvasvam¶
समाहारद्विगुरेकार्थवचनः स्यात् ॥
Sutra Prayogas¶
पञ्चवट्यां (रघुवंशम्): द्विगुरेकवचनम् इति एकवचनम्।
त्रिसन्ध्यम् (शिशुपालवधम्): द्विगुरेकवचनम् इति नपुंसकत्वम् ।