23045: नक्षत्रे च लुपि¶
Padacheda: नक्षत्रे | S | 7 | 1 |
च | S | 0 | 0 |
लुपि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
When an affix declaring the time of an Asterism is elided by लुप् – लुबविशेषे (4.2.4), the 7th and the 3rd case-affixes are used after the word, whose affix is also elided.
Vasu English Translation¶
When an affix declaring the time of an Asterism is elided by लुप् – लुबविशेषे (4.2.4), the 7th and the 3rd case-affixes are used after the word, whose affix is also elided. Ex. पुष्येण पुष्ये वा पायसमश्नीयात् ‘when the moon is in the Asterism of Pushya, let him drink milk.’ See Rules (4.2.4) and (4.2.5). So also मघाभिः पललौदनं मघासु पललौदनम्. But not so here पंचालेषु वसति ‘he lives in Panchala’. Here the country is meant, and not a star, though here also there is elision of the Taddhita affix.
Why do we say ‘lup elision’? Observe मघासु ग्रहः ‘the planet in the Magha.’ Here there is no elision. But why not in अद्यपुष्यः, अद्यकृत्तिका. Because they do not denote location, which is understood. It is when location is expressed by such words that we may use the third case-affix in the alternative.
Bhashya¶
नक्षत्रे च लुपि 503 (322 कारकसप्तमीसूत्रम् ॥2.3.2 आ.17 सू.) (अनिष्टापत्तिवारणाधिकरणम्) (आक्षेपभाष्यम्) इह कस्मान्न भवति - अद्य पुष्यः अद्य मघा? ॥ (समाधानभाष्यम्) अधिकरण इति वर्तते ॥ नक्षत्रे ॥ 45 ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य तृतीयपादे द्वितीयमाह्निकम् ॥
Kashika¶
तृतीयासप्तम्यावनुवर्तेते। लुबन्ताद् नक्षत्रशब्दात् तृतीयासप्तम्यौ विभक्ती भवतः। पुष्येण पायसमश्नीयात्, पुष्ये पायसमश्नीयात्। मघाभिः पललौदनम्, मघासु पललौदनम्। नक्षत्र इति किम्? पञ्चालेषु वसति। लुपीति किम्? मघासु ग्रहः। इह कस्माद् न भवति — अद्य पुष्यः, अद्य कृत्तिका। अधिकरण इति वर्तते। वचनं तु पक्षे तृतीयाविधानार्थम्॥
Siddhanta Kaumudi¶
नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यौ स्तोऽधिकरणे । मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् । मूले श्रवणे इति वा । लुपि किम् ? पुष्ये शनिः ॥
Balamanorama¶
नक्षत्रे च लुपि - नक्षत्रे च लुपि । ‘नक्षत्रे ‘ इत्यनन्तरंप्रकृत्यर्थे सती॑ति शेषः । लुप्शब्देन लुप्संज्ञाया लुप्तप्रत्ययार्थो विवक्षितः । तदाह — नक्षत्रे प्रकृत्यर्थे इति । अधिकरण इति ।सप्तम्यधिकरणे चे॑त्यत मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । मूलेनेति । मूलनक्षत्रयुक्तकाल इत्यर्थः ।नक्षत्रेण युक्तः कालः॑ इत्यण् । ‘लुबविशेषे’ इति तस्य लुप् । अधिकरणे किम् । मूलं प्रतीक्षते । नक्षत्र इति किम् । पञ्चालेषु तिष्ठति । इह ‘जनपदे’ इति लुप् ।
Tattvabodhini¶
नक्षत्रे च लुपि - नक्षत्रे च लुपि । लुप्शब्दोऽत्रार्थविशेषे लाक्षणिक इत्याशयेनाह — यो लुप्संज्ञयेत्यादि । अधिकरण इति । एतच्चसप्तम्यधिकरणे च॑ इत्यतो मण्डूकप्लुत्यानुवर्तत इति भावः । अधिकरणे किम्, मूलं प्रतीक्षते, मूलाय स्पृहयति । मूलेनेति ।नक्षत्रेण युक्तः कालः॑ इत्यणोलुबविशेषे॑ इति लुप् । नक्षत्र इति किम् । पञ्चालेषु तिष्ठति । इहजनपदे लुप् इथि लुप् ।
Padamanjari¶
नक्षत्रे च लुपि॥ नक्षत्रे प्रकृत्यर्थे सति यो लुप्संज्ञया लुप्यमानस्य प्रक्ययस्यार्थस्तत्र वर्तमानादिति सूत्राक्षरान्वयः। यच्चोच्यते - नक्षत्रे लुपीतित पञ्चम्यर्थे सप्तमी लुबन्तान्नक्षत्रवाचिन इत्यर्थ इति, तत्रोतराभ्यां फल्गुनीभ्यां नोतरा गच्छेदिति विशेषणान्नस्यात्, तस्यालुबन्तत्वात्। कथं तर्हि लुबन्तान्नक्षत्राभिधायिनः शब्दादिति वृत्तिः? प्रायोवृत्यैतदुक्तम् - लुबन्तार्थाभिधायी प्रायेण लुबन्तो भवति। लुबर्थाभिधायिनः शब्दमात्रादित्यर्थः। लुबन्तादिति। लुबन्ते समाप्तावस्येति बहुव्रीहिः, स्थानिर्वारकं च लुपोऽन्त्यावयवत्वं द्रष्टव्यम्। अधिकरण इति वर्तत इति। एवं च पुष्पं प्रतीक्षते, पुष्पाय स्पृहयति, पुष्पस्य समीप इत्यादावपि न भवति॥
Nyaas¶
नक्षत्रे च लुपीति सुब्व्यत्ययेन पञ्चम्यर्थे सप्तमीविधानम्। अत एवाह - लबन्तान्नक्षत्रशब्दात् इत्यादि। पुष्येण इत्यादि। नक्षत्रेण युक्तः कालः (4.2.3) इति विहितस्याणः लुबविशेषे (4.2.4) इति लुप्। पञ्चालेषु वसतीत्यत्रापि तस्य निवासः (4.2.69) इति विहितस्याणः जनपदे लुप् (4.2.81) इति लुप्।मघासु ग्रहः इति। सामीप्येऽधिकरण एव सप्तमी। अत्र नक्षत्रेण युक्तः कालः (4.2.3) इत्यस्यार्थस्याविवक्षितत्वादण् न भवति। अद्य पुष्यः इति। पूर्ववदण्, लुप्। अधिकरणे (2.3.36) इत्यनुवर्तते। न चेहाधिकरणत्वं विवक्षितमिति भावः॥
Praudhamanorama¶
मूलेनेति। ‘नक्षत्रेण युक्तः कालः’ इत्यणो ‘लुबविशेषे’ इति लुप्।
Prakriyasarvasvam¶
लुबन्तान्नक्षत्रादधिकरणे सप्तमीतृतीये स्तः । पुष्ये गच्छेत्, पुष्येण गच्छेत् । ‘लुबविशेषे’ (४-२-४) इति लुप् ॥
Sutra Prayogas¶
मघासु (भट्टिकाव्यम्): नक्षत्रे च लुपि इति सप्तमी।