23024: अकर्तर्यृणे पञ्चमी¶
Padacheda: अकर्तरि | S | 7 | 1 |
ऋणे | S | 7 | 1 |
पञ्चमी | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
A word implying ‘debt’, considered as a ‘cause’ but not as कर्तृ or agent, takes the 5th case-affix.
Vasu English Translation¶
A word implying ‘debt’, considered as a ‘cause’ but not as कर्तृ or agent, takes the 5th case-affix. Ex. शताद्बद्धः ‘he has been bound on account of a debt of a hundred pieces.’
Why do we say ‘when not denoting the agent ?’ Observe शतेन बन्धितः; ‘a debt of hundred has thrown him in prison’; here शत being considered as a prayojaka hetu, is an agent and takes the third case-affix.
Kashika¶
हेताविति वर्तते। कर्तृवर्जितं यदृणं हेतुः, ततः पञ्चमी विभक्तिर्भवति। तृतीयापवादो योगः। शताद् बद्धः सहस्राद् बद्धः। अकर्तरीति किम्? शतेन बन्धितः। शतमृणं च भवति, प्रयोजकत्वाच्च कर्तृसंज्ञकम्॥
Siddhanta Kaumudi¶
कर्तृवर्जितं यदृणं हेतुभूतं ततः पञ्चमी स्यात् ॥ शताद्बद्धः । अकर्तरि किम् ? शतेन बन्धितः ॥
Balamanorama¶
अकर्तर्यृणे पञ्चमी - अकर्तर्यृणे । ‘हेतौ’ इति सूत्रमनुवर्तते । अकर्तरि हेतुभूते ऋणे विद्यमानादित्यर्थः । फलितमाह-कर्तृवर्जितमिति । कर्तृसंज्ञारहितमित्यर्थः । शताद्बद्ध इति । नियमितकाले प्रत्यर्पणाऽभावे सति सुवर्णादिशतेन ऋणेन हेतुना अधर्मणो बद्ध इत्यर्थः । हेतुतृतीयापवादः । शतेन बन्धित इति ।अधर्मण उत्तमर्णेने॑ति शेषः । बन्धेर्हेतुमण्ण्यन्तात्कर्मणि क्तः । अधमर्ण उत्तमर्णेन बद्ध इत्यण्यन्तस्यार्थः । शतेन ऋणेन प्रयोजककत्र्रा उत्तमर्णेन प्रयोज्यकत्र्रा बन्धनं कारितोऽधमर्ण इति ण्यन्तस्यार्थः । अत्र शतमृणं प्रयोजकत्वात् कर्तृसंज्ञं हेतुसंज्ञे च,तत्प्रयोजको हेतुश्चे॑त्यत्र चकारेण कर्तृसंज्ञाया अपि विधानात् । ततश्च शतशब्दात् कर्तरि तृतीयां बाधित्वाऽपवादत्वात्पञ्चमी स्यात्, अतोऽकर्तरीत्युक्तमिति भावः । शतस्य हेतुत्वेऽपि कर्तृत्वान्न ततः पञचमीति भावः ।
Tattvabodhini¶
अकर्तर्यृणे पञ्चमी - पञ्चमी स्यादिति । तृतीयापवादोऽयम् । शतेनेति । शतमिह उत्तमर्णाय धार्यमाणत्वादृणं,॒तत्प्रयोजको हेतुश्च॑ इति चकारात्कर्तृसंज्ञं च । बन्धित इति । ण्यन्ते प्रयोजककर्तुः शतस्य हेतुसंज्ञाप्यस्तीति पञ्चम्यत्र स्यादेवातोऽत्राऽकर्तरित्युक्तमिति भावः । योगविभागादिति । एतच्चहेतुमनुष्येभ्यः — ॑ इति सूत्रे पदमञ्जर्यां स्पष्टम् ।
Padamanjari¶
अकर्तर्यृणे पञ्चमी॥ बन्धित इति। बन्धेर्ण्यन्तस्य निष्ठान्तस्य रूपम्ऽ शतमृणं च भवतीति। उतमर्णाय धार्यमाणत्वात्। प्रयोजकत्वाच्च कर्तृसंज्ञकमिति। तत्प्रयोजको हेतुश्चऽ इति चकारेण कर्तृ संज्ञाविधानात्। ननु च पूर्वसूत्रे लौकिकस्य हेतोर्ग्रहणम्, अयं तु शास्त्रीयः; शास्त्रीयस्यापि लौकिकत्वमस्त्येव। अथ वा कस्य हेतोः पूर्वसूत्रे शास्त्रीयस्याग्रहणम् - कर्तरि सिद्धा तृतीयेति? न त्वेवम्, पञ्चम्या असिद्धत्वादिहार्थमेव सामान्यग्रहणं स्यात्॥
Nyaas¶
`शतेन बन्धितः`इति। बन्धेण्र्यन्तस्य निष्ठायामेतद्रूपम्। `शतमृणञ्च भवति`इति। उत्तमर्णाय देयत्वात्। प्रयोजकत्वात् कर्त्तृसंज्ञेति, तत्प्रयोजको हेतुश्च (1.4.55) इति चकारात् कर्त्तृसंज्ञाविधानात्। ननु लौकिको हेतुः पूर्वसूत्रे गृहीतः, स चेहानुवर्तत इति तत एव पञ्चमी विधीयते, न चात्र लौकिको हेतुः, किं तर्हि? पारिभाषिक इति प्राप्त्यभावादकर्तरीति प्रतिषेधोऽनर्थकः? नैतदस्ति;तत्र हि शास्त्रीये हेतौ तृतीया सिद्धेवेति लौकिकस्य हेतौग्र्रहणम्, इह तु पञ्चमी विधीयते। न चातर्ासौ शास्त्रीये हेतौ केनचित् सिध्यति। द्वावपीह हेतू गृह्रेते। अथ वा शास्त्रीयस्यापि हेतोर्लौकिकं हेतुत्वमविरुद्धमेव। यो हि बन्धने प्रयुङ्क्ते स तत्साधनयोग्यो भवत्येव॥
Praudhamanorama¶
शतेनेति। शतमिह उत्तमर्णाय धार्यमाणत्वादृणम्। ‘तत्प्रयोजको हेतुश्च’ इति चकारेण कर्तृसंज्ञा च।
Prakriyasarvasvam¶
हेतुभूतादृणादकर्तृत्वेन विवक्षितात् पञ्चमी । शताद्बद्धः । कर्तृत्वे शतेन बन्धितः ॥
Sutra Prayogas¶
ऋणाद्बद्ध (भट्टिकाव्यम्): अकर्तर्घृणे इति पञ्चमी।