23021: इत्थंभूतलक्षणे¶
Padacheda: इत्थंभूत-लक्षणे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
Any mark or attribute, by which is indicated the existence of a particular state or condition, is put in the 3rd case to express this relation.
Vasu English Translation¶
Any mark or attribute, by which is indicated the existence of a particular state or condition, is put in the 3rd case to express this relation. जटाभिस्तापसः ‘he is an ascetic by (the fact of his having) matted hair.’ अपि भवान् कमण्डलुना छात्रमद्राक्षीत् ‘your honor might see the student by the fact of his having a kamandalu.’ So also छात्रेणोपाध्यायम् ‘a teacher by the fact of having students.’ शिखया परिव्राजकम् ‘a Parivrajaka by a tuft of hair.’ But not so here, कमण्डलुपाणिछात्रः ‘ a student has kamandalu in his hand.’ Because here in the compound, कमण्डलुपाणि is hidden the mark.
Why do we say ittha-bhuta? Observe वृक्षं प्रति विद्योतनं.
Bhashya¶
इत्थंभूतलक्षणे 479 (309 तृतीयानियमसूत्रम् ॥ 2।3। 2। आ.4) (समासान्तर्गतात्तृतीयावारणाधिकरणम्। (1495 आक्षेपवार्तिकम् ॥ 1 ॥) - इत्थंभूतलक्षणे तत्स्थे प्रतिषेधः - (भाष्यम्) इत्थंभूतलक्षणे तत्स्थे प्रतिषेधो वंक्तव्यः। अपि भवान्कमण्डलुपाणिं छात्रामद्राक्षीदिति ॥ (1496 समाधानवार्तिकम् ॥ 2 ॥) - न वेत्थंभूतस्य लक्षणेनापृथग्भावात् - (भाष्यम्) न वा वक्तव्यम्?। किं कारणम्। इत्थं भूतस्य लक्षणेनापृथग्भावात्। यत्रेत्थं भूतस्य पृथग्भूतं लक्षणं तत्र भवितव्यम्। न चात्रेत्थंभूतस्य पृथग्भूतं लक्षणम् ॥ (आक्षेपभाष्यम्) किं वक्तव्यमेतत्? ॥ (समाधानभाष्यम्) नहि ॥ कथमनुच्यमानं गंस्यते? तथा त्द्ययं प्राधान्येन लक्षणं प्रतिनिर्दिशति - इत्थंभूतस्य लक्षणमित्थंभूतलक्षणं तस्मिन्नित्थंभूतलक्षण इति ॥ इत्थंभूत ॥ 21 ॥
Kashika¶
कञ्चित् प्रकारं प्राप्त इत्थंभूतः, तस्य लक्षणमित्थंभूतलक्षणम्। ततस्तृतीया विभक्तिर्भवति। अपि भवान् कमण्डलुना छात्रमद्राक्षीत्। छात्रेणोपाध्यायम्। शिखया परिव्राजकम्। इह न भवति — कमण्डलुपाणिश्छात्र इति, लक्षणस्य समासेऽन्तर्भूतत्वात्। इत्थंभूत इति किम्? वृक्षं प्रति विद्योतनम्।
Siddhanta Kaumudi¶
कंचित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः ॥
Balamanorama¶
इत्थंभूतलक्षणे - इत्थंभूतलक्षणे । अयं प्रकार इत्थं, तं भूतः=प्राप्तः-इत्थंभूतः । ‘भू प्राप्तौ’ इति चौरादिकात् ‘आधृषाद्वा’ इति णिजभावे गत्यर्थाकर्मकेत्यादिना कर्तरि क्तः । लक्षणं=ज्ञापकम् । प्रकारविशेषं प्राप्तस्य ज्ञापके इत्यर्थः । तदाह — कंचित्प्रकारमिति । जटाभिस्तापस इति । तपोऽस्यास्तीति तापसः ।तपस्सहरुआआभ्यां विनीनी॑अण्चे॑ति मत्वर्थीयोऽण्प्रत्ययः । तापसत्ववति वर्तते । लक्ष्यलक्षणभावस्तृतीयार्थः । तदाह — जटाज्ञाप्येति । नच ज्ञाने करणत्वादेव तृतीया सिद्धेति वाच्यं, करणत्वाऽविवक्षायां लक्ष्यलक्षणभावमात्रविवक्षायां तृतीयार्थत्वात् ।
Tattvabodhini¶
इत्थंभूतलक्षणे - जटानामित्थंभूतलक्षणत्वमुपपदयति -जटाज्ञाप्येति । जटाभिज्र्ञाप्यं यत्तापसत्वं, तद्विशिष्ट इत्यर्थः ।
Padamanjari¶
इत्थम्भूतलक्षणे॥ इदंशब्दात्सन्निहितवाचिनः प्रकारवचने थाल्, ठिदमस्थमुःऽ इति थमुप्रत्यये कृते इत्थमिति भवति। न चात्र किञ्चित्सन्निहतमस्तीतीत्थंशब्दः सन्निहितपरित्यागेन प्रकारविशेषमाचष्टे,’भू प्राप्तावात्मनेपदी च’ ,ठा धृषाद्वाऽ इति णिजभावपक्षे गत्यर्थत्वात्कर्तरि क्तप्रत्ययस्तदाह - कञ्चिदिति। तस्येति कर्मणि षष्ठी। लक्ष्यते येनेति लज्ञणम्। येन श्वेतच्छत्रादिना राजत्वादिप्रकारविशेषापन्नतयान्यो लक्ष्यते तदित्थम्भूतलक्षणम्। तत्रेति। वर्तमानादित्यर्थः। कमण्डलुना छात्त्रोपाध्याययोर्गच्छतोश्छात्रस्य हस्ते कमण्डलुर्भवति, कमण्डलुना छात्त्रोऽयमिति ज्ञातवानित्यर्थः। यद्येवम्, ईद्दशे ज्ञाने कमण्डलोः करणत्वादेव तृतीया सिद्ध्यति? एवं तर्हि प्रमाता प्रमिति दशायामेवात्मनः प्रमितिविशेषं प्रतिपादयितुं वाक्यं प्रयुङ्क्ते - कमण्डलुनायं छात्र इति, तदा ज्ञानक्रियाया अप्रतिभासादप्रतिपाद्यत्वाच्च करणत्वासम्भवः। उदाहरणं त्वेवं व्याख्येयम् - कमण्डलुना छात्र इत्येवं रूपं ज्ञानमभूदिति। कोऽर्थः? अद्राक्षीदिति निदिष्टस्य द्रष्टुअर्ज्ञानविशेपोऽत्र कथ्यते, न प्रयोक्तुरित्यर्थः। इह कमण्डलुपाणिश्छात्र इति बहुव्रीहौ कृते कमण्डलुशब्दातृतीया प्राप्नोति; न च प्रत्यलक्षणेनाप्रत्यय इति प्रातिपदिकसंज्ञाप्रतिषेधः,’न ङिसंबुद्ध्योः’ इति लिङ्गत्; न च’सुपो धातुप्रातिपदिकयोः’ इति संप्रत्युत्पन्नायास्तृतचीयाया लुग्लभ्यते, तस्याः समास्प्रातिपदिकं प्रत्यनव्यवत्वादित्यत आह - इह न भवतीति। समासेऽन्तभूतत्वादिति। समासार्थं प्रति गुणभूतत्वादित्यर्थः। इत्थम्भूतस्य लक्षणं यत्प्रधानं तत्र तृतीया। बहुव्रीहौ तु वर्तिपदानां स्वार्थोपसर्जनान्यपदार्थाभिधायित्वान्नास्ति प्राधान्यम्॥
Nyaas¶
कञ्चित् प्रकारमित्यनेन इत्यमित्यस्यार्थमाचष्टे। तथा हि प्रकारवचने इदमस्थमुः (5.3.24) इति थमुप्रत्यये विहिते इत्थमित्येद्रूपं भवति। सामान्यस्य भेदको विशेषः प्रकार उच्यते। आपन्न इत्यनेन भूतशब्द्सयार्थमाचष्टे। तथा हि - भू प्राप्तावात्मनेपदी (धातुपाठः-1844) इत्यस्य चौरादिकस्य आ धृषाद्वा (धातुपाठः-805) इत्यस्यानन्तरम्) इति यदा णिज् नास्ति तदा क्तप्रत्यये भूत इति रूपं भवति। तस्येतीत्वम्भूतस्य। लक्षणम् इति। लक्ष्यते चिह्न्यतेऽनेनेति लक्षणम् = चिह्नम्। अपि भवान् कमण्डलुना छात्रमाद्राक्षीत् इति। अत्र मनुष्यत्वं सामान्यम्, तस्य च्छात्रत्वं प्रकारःच; तं प्राप्तस्य च्छात्रस्य कमण्डलुर्लक्षणम्। छात्रेणोपाध्यायम् इति। मनुष्यत्वं सामान्यम्, तस्योपाध्यायत्वं प्रकारः; तं प्राप्तस्योपाध्यायस्य लक्षणं छात्रः। शिखया परिव्राजकम् इति। मनुष्यत्वं सामान्यम्, परिव्राजकत्वं प्रकारः। तं प्राप्तस्य परिव्राजकस्य लक्षणं शिखा।लक्षणस्य समासेऽन्तर्भूतत्वात् इति। एकार्थीभावद् बहुव्रीह्रर्थेन लक्षणार्थस्यापृथग्भावादित्यर्थः। बहुव्रीहावेव वाच्यत्वेनान्तर्भावो लक्षणस्येति गतार्थत्वात् तृतीया न भवति। इत्थम्भूतलक्षण इति किम्? वृक्षं परि विद्योतते विद्युत्। नात्र विद्योतनत्वप्राप्तस्य कस्यचिद्वृक्षेण लक्षणम्। किं तर्हि? विद्योतनस्यैव॥
Prakriyasarvasvam¶
एवं भूतोऽयमिति ज्ञातुं चिह्नभूतेऽर्थे तृतीया स्यात् । पुस्तकेनायं विद्वान् याति । तेन चिह्नेन विद्वानिति स्फुटोऽयं यातीत्यर्थः ॥
Sutra Prayogas¶
कैशैः (रघुवंशम्): इत्थंभूतलक्षणे इति तृतीया।
मध्येन (भट्टिकाव्यम्): इत्थंभूतलक्षणे इति तृतीया।