22038: कडाराः कर्मधारये

Padacheda: कडाराः | S | 1 | 3 |

कर्मधारये | S | 7 | 1 |

Sutrartha


Vasu English Summary

The words कडाराः and the like, are optionally placed first in the कर्मधार्य।

Vasu English Translation

The words कडाराः and the like, are optionally placed first in the कर्मधार्य। Thus कडारजैमिनिः or जैमिनिकडारः Kadarajaiminih or jaiminikadarah. ‘The tawny Jaimini.’

1.कडार. 2. गडुल. 3. खञ्ज. 4.खोड. 5.काण. 6.कुण्ठ. 7.खलति . 8. गौर. 9.वृद्ध. 10. भिक्षुक. 11. पिङ्ग. 12. पिङ्गल. 13. ( पिङ्गल). 14. तद्ध. 15.तनु 16. जठर. 17. बधिर. 18. मठर. 19.कञ्ज. 20. बर्बर.

This sūtra enjoins an option where by general rule guna words being attributes would have invariably stood first.

Why do we say ‘in the *karmadharaya compound’? Observe कडारपुरुषो ग्रामः ‘a village of tawny men,’ which is *Bahuvreehi_. Here ends the force of (1.4.1) and (2.1.3).

Bhashya

कडाराः कर्मधारये (458) (292 पूर्वनिपातसूत्रम् ॥ 2.2.2।आ. 11 सू.) (बहुवचनस्याद्यर्थकत्वबोधनाधिकरणम्) (1458 वार्तिकम् 8) ॥ कडारादयः ॥ (भाष्यम्) कडारादय इति वक्तव्यम्। इहापि यथा स्यात् - गडुलशाण्डिल्यः साण्डिल्यगडुलः। खण्डवात्स्यः। वात्स्यखण्डः ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? ॥ (समाधानभाष्यम्) न वक्तव्यम्। बहुवचननिर्देशात् कडारादय इति विज्ञास्यते ॥ कडाराः ॥ 38 ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते द्वितीयस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ॥ पादश्च समाप्तः ॥

Kashika

गुणशब्दानां विशेषणत्वात् पूर्वनिपाते प्राप्ते विकल्प उच्यते। कडारादयः शब्दाः कर्मधारये समासे वा पूर्वं प्रयोक्तव्याः। कडारजैमिनिः। जैमिनिकडारः॥ कडार। गडुल। काण। खञ्ज। कुण्ठ। खञ्जर। खलति। गौर। वृद्ध। भिक्षुक। पिङ्गल। तनु। वटर।कर्मधारय इति किम्? कडारपुरुषो ग्रामः॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य द्वितीयः पादः॥

Siddhanta Kaumudi

कडारादयः शब्दाः कर्मधारये वा पूर्वं प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः ॥

Padamanjari

कडाराः कर्मधारये॥ बहुवचननिर्द्दशादाद्यर्थोऽवगम्यत इत्याह - कडारादय इति॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां द्वितीयाध्यायस्य द्वितीयः पादः॥

Nyaas

कडारादयो ये गुणशब्दास्तेषां विशेषणत्वं भवतीत्याह - गुणशब्दानाम् इत्यादि। गतार्थम्॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांद्वितीयाध्यायस्यद्वितीयः पादः

Prakriyasarvasvam

कर्मधारये कडाराद्या वा पूर्वं स्युः । कडारगडुल्काणखञ्जकुण्डखोडखलति- गौरपिङ्गलवृद्धभिक्षुकवठरतनवः । कडारः पिङ्गः । कुण्डो जारजः । खोडः पङ्गुः । वठरो मूर्खः । तनुरल्पः । कडारांशुकमंशुककडारमित्यादि ।। अथैतत्समासान्ताः—