22035: सप्तमीविशेषणे बहुव्रीहौ

Padacheda: सप्तमी-विशेषणे | S | 1 | 2 |

बहुव्रीहौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

A word with the seventh case-affix and an epithet are to be placed first in the बहुव्रीही compound.

Vasu English Translation

A word with the seventh case-affix and an epithet are to be placed first in the बहुव्रीही compound. In a Bahuvrihi, all words are upasarjana, and hence there is no rule for their arrangement. The present aphorism declares that rule; as कण्ठेकालः ‘who is black in the throat’. So also उरसिलोमा, चित्रगुः, शवलगुः.

Bhashya

सप्तमीविशेषणे बहुव्रीहौ (455) (290 पूर्वनिपातनियमसूत्रम् ॥ 2.2.2 आ. 9 सू.) (न्यूनतापूरणाधिकरणम्) (1448 पूर्वनिपातवार्तिकम् ॥ 1 ॥) ॥ बहुव्रीहौ सर्वनामसंख्ययोरुपसंख्यानम् ॥ (भाष्यम्) बहुव्रीहौ सर्वनामसंख्ययोरुपसंख्यानं कर्तव्यम् ॥ विश्वदेवः। विश्वयशाः। द्विपुत्रः। द्विभार्यः ॥ (आक्षेपभाष्यम्) अथ यत्र संख्यासर्वनाम्नोरेव बहुव्रीहिः कस्य तत्र पूर्वनिपातेन भवितव्यम्? ॥ (समाधानभाष्यम्) परत्वात्संख्यायाः - द्व्यन्याय त्र्यन्याय ॥ (1449 पूर्वनिपातवार्तिकम् ॥ 3 ॥) ॥ वा प्रियस्य ॥ (भाष्यम्) वा प्रियस्य पूर्वनिपातो भवतीति वक्तव्यम्। प्रियगुडः गुडप्रियः ॥ (1450 पूर्वनिपातबाधकवार्तिकम् ॥ 4 ॥) ॥ सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् ॥ (भाष्यम्) सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परा सप्तमी भवतीति वक्तव्यम्। गडुकण्ठः गडुशिराः ॥ सप्तमीवि ॥ 35 ॥

Kashika

सर्वोपसर्जनत्वाद् बहुव्रीहेरनियमे प्राप्ते नियमार्थं वचनम्। सप्तम्यन्तं विशेषणं च बहुव्रीहिसमासे पूर्वं प्रयोक्तव्यम्। कण्ठेकालः। उरसिलोमा। विशेषणम् — चित्रगुः। शबलगुः॥ सर्वनामसंख्ययोरुपसंख्यानम्॥ सर्वश्वेतः। सर्वकृष्णः। द्विशुक्लः। द्विकृष्णः। अनयोरेव मिथः संप्रधारणायां परत्वात् संख्यायाः पूर्वनिपातः। द्व्यन्यः। त्र्यन्यः॥ वा प्रियस्य पूर्वनिपातः॥ गुडप्रियः। प्रियगुडः॥ सप्तम्याः पूर्वनिपाते प्राप्ते गड्वादिभ्यः सप्तम्यन्तं परम्॥ गडुकण्ठः। गडुशिराः। कथं वहेगडुः? प्राप्तस्य चाबाधा व्याख्येया॥

Siddhanta Kaumudi

सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं प्रयोज्यम् । कण्ठेकालः । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः । चित्रगुः ।<!सर्वनामसंख्ययोरुपसख्यानम् !> (वार्तिकम्) ॥ सर्वश्वेतः । द्विशुक्लः ।<!मिथोऽनयोः समासेसंख्या पूर्वं शब्दपरविप्रतिषेधात् !> (वार्तिकम्) ॥ द्व्यन्यः ।<!संख्याया अल्पीयस्याः !> (वार्तिकम्) ॥ द्वित्राः । द्वन्द्वेऽपि ॥ द्वादश ।<!वा प्रियस्य !> (वार्तिकम्) ॥ गुडप्रियः । प्रियगुडः ।<!गड्वादेः परा सप्तमी !> (वार्तिकम्) ॥ गडुकण्ठः । क्वचिन्न । वहेगडुः ॥

Laghu Siddhanta Kaumudi

सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं स्यात्। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः॥

Balamanorama

सप्तमीविशेषणे बहुव्रीहौ - सप्तमीविशेषणे ।उपसर्जनं पूर्व॑मित्यतः पूर्वमित्यनुवर्तते । प्रत्ययग्रहणपरिभाषया सप्तमीति तदन्तग्रहणं । तदाह — सप्तम्यन्तमिति । कण्ठेकाल इति ।कण्ठे तिष्ठतीति कण्ठेस्थः, स कालो यस्येति विग्रहः ।सुपी॑ति योगविभागात्कः ।सप्तम्युपमानपूर्वपदस्ये॑ति बहुव्रीहि समासः, स्थशब्दलोपश्चे॑ति ‘अनेकमन्यपदार्थे’ इति सूत्रे भाष्ये स्पष्टम् ।अमूर्धमस्तका॑दिति सप्तम्या अलुक् । अत एवेति । यद्यपि कण्ठेस्थशब्दः प्रथमान्त एवात्र बहुव्रीहौ पूर्वपदं, तस्य कालशब्देन सामानाधिकरण्यमस्त्येवेति कथं सप्तमीग्रहणं व्यधिंकरणपदबहुव्रीहिज्ञापकम् । किंच विशेषणत्वादेव सिद्धे किं वा सप्तमीग्रहणेन । तथापि यदा स्थपदमनादृत्य ‘कण्ठे’ इत्यस्याधिकरणत्वं, तस्य च कालरूपे उत्तरपदार्थे उपसङ्क्रमस्तदा ‘कण्ठे’ इत्यस्याऽप्रथमान्तत्वाद्बहुव्रीहेरप्रसक्तेस्तत्र सप्तम्यन्तस्य पूर्वनिपातविधिरभित्तिचित्रायितः स्यात् । ततश्च सप्तमीग्रहणादप्रथमान्तोऽपि बहुव्रीहिः क्वचिदस्तीति विज्ञायते इति योज्यम् । तेनसच्चास्त्रजन्मा हि विवेकलाभः॑ इत्यादि सिद्धम् । चित्रगुरिति । उभयोरपि प्रथमानिर्दिष्टत्वेन विग्रहे नियतविभक्तिकत्वेन चान्यतरस्य प#ऊर्वनिपाते प्राप्ते उत्तरपदविशेषणस्यैव पूर्वनिपातार्थं विशेषग्रहणमिति भावः । सर्वनामसङ्ख्ययोरिति ।बहुव्रीहौ पूर्वनिपातस्ये॑ति शेषः । सर्वओत इति । रार्वः ओतो यस्येति विग्रहः । उभयोरपि गुमवचनत्वेन विशेषणविशेष्यभावे कामचारादन्यतरस्य पूर्वनिपाते प्राप्ते सर्वनामत्वात्सर्वशब्दस्यैव पूर्वनिपातः । उपसर्जनत्वेऽपि भूतपूर्वगत्या सर्वनामत्वम् । त्रिशुक्ल इति । त्रयः शुक्ला यस्येति विग्रहः । उभयोरपि कामचारेण पूर्वनिपाते प्राप्ते सङ्ख्यात्वत्रिशब्दस्यैव पूर्वनिपातः । ‘द्विशुक्ल’ इत्यत्र तु सर्वनामत्वादेव सिद्धम् । ननु द्वौ अन्यौ यस्य द्व्यन्य इति बहुव्रीहौ सर्वनामसङ्ख्ययोरन्त्यतरस्य पाक्षिकः पूर्वनिपातः स्यादित्यत आह — मिथोऽनयोरिति । सर्वनामसङ्ख्ययोरित्यर्थः । सङ्ख्या पूर्वमिति ।प्रयोज्ये॑ति शेषः । शब्दपरेति । एकस्मिन्नेव सूत्रे सर्वनामसङ्क्ययोः समासोपात्तत्वेऽपि सर्वनामसङ्क्याशब्दयो सङ्ख्याशब्दस्य पाठतः परत्वमादाय विप्रतिषेधसूत्रप्रवृत्तेरित्यर्थः । सङ्क्याया अल्पीयस्या इति । न्यूनाधिकसङ्ख्यावाचकशब्दानां समासे न्यूनसङ्ख्यायाः पूर्वप्रयोग इति वक्तव्यमित्यर्थः । द्वित्रा इति । द्वौ वा त्रयो वेति विग्रहेसङ्ख्ययाव्यये॑ति बहुव्रीहिः । ननुद्वन्द्वे घी॑त्यतो ‘द्वन्द्वे’ इत्यनुवृत्तौअल्पाच्तर॑मिति सूत्रभाष्येऽस्य वार्तिकस्य पाठाद्बहुव्रीहौ कथमस्य प्रवृत्तिरित्यत आह — द्वन्द्वेऽपीति । इदंच वार्तिकं द्वन्द्वेऽद्वन्देऽपि प्रवर्तत इत्यर्थः । द्वादसेति । द्वौ च दश चे॑ति द्वन्द्वः । तत्पुरुषे तु शतानां विंशतिः विंशतिशतमित्युदाहार्यम् ।तदस्मिन्निधिकमिति दशान्ताड्डः॑ इति सूत्रबाष्ये सहरुआआणां शतमित्यर्थे शतसहरुआमिति भाष्यकैयटयो प्रयोगोऽत्रमानमिति शब्देन्दुशेखरे स्थितम् ।वा प्रियस्येति । बहुव्रीहौ पूर्वं प्रयोगो वक्तव्य इत्यर्थः । गड्वादेः परा सप्तमीति ।बहुव्रीहौ योज्येति वक्तव्य॑मिति शेषः । गडुकण्ठ इति । गडुः कण्ठे यस्येति विग्रहः । गडुर्नाम ग्रीवादिगतो दुर्मांसगोलः । असंज्ञात्वात् ‘हलदन्तात्’ इत्यलुङ् न । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । वहेगडुरिति । वहः=स्कन्धः, तन्मिन् गडु-दुर्मांसग्रन्तिर्यस्येति विग्रहः । निष्ठा । निष्ठान्तमिति ।क्तक्तवतूनिष्ठे॑ति वक्ष्यति, तदन्तमित्यर्थः । कृतकृत्य इति । कृतं कृत्यं येनेति विग्रहः । उभयोरपि क्रियाशब्दात्वाद्विशेषणत्वे कामचारादन्यतरस्य पूर्वनिपाते प्राप्ते निष्ठान्तस्य पूर्वनिपातः । जातिकालेति ।जातिकालसुखादिभ्योऽनाच्छादनात्क्तः, इति स्वरविधिना ज्ञापितमिदमिति भाष्ये स्पष्टम् । जातिपूर्वस्योदाहरणमाह — सारङ्गजग्धीति सारङ्गः=हरिणः, जग्धः=भक्षितो यया इति विग्रहः ।अस्वाङ्गपूर्वपदाद्वे॑ति ङीष् । कालपूर्वस्योदाहरति — मासजातेति । मासो जातो यस्या इति विग्रहः । टाप् । सुखपूर्वस्योदाहरति — सुखजातेति । सुखं जातं यस्या इति विग्रहः । प्रायिकमिति । व्याख्यानमेवात्र शरणम् । कृतकट इति । कृतः कटो येनेति विग्रहः । उदकत्वस्य जातित्वेऽपि न पीतशब्दस्य परनिपातः ।

Tattvabodhini

सप्तमीविशेषणे बहुव्रीहौ - सप्तमीविशेषणे । यदा कण्ठे किंचिदस्तीति ज्ञायते, तस्य विशेषणं काल इथि, तदेदं सप्तमीग्रहणम् । अन्यदा तु तेन विनापि विशेषणत्वादेव सिद्धम् । चुत्रगुरिति । न चउपसर्जनं पूर्व॑मित्येवेदं सिध्यतीति वाच्यं,बहुव्रीहौ सप्तमी॑त्युक्ते तक्र कोण्ढिन्यन्यायेनोपसर्जनपूर्वत्वस्य बाधापत्तेरतो विशेषणग्रहणं कृतम् ।सर्वनामसङ्ख्योरुपसङ्ख्यानम् । सर्वनामेति । कथं तर्हितः परो यस्मात्सतपरः॑इति , कथं चजहत्स्वार्थे वृत्तिः॑इति । इह हि जहस्त्वं पदं यं स जहत्स्वः, सोऽर्थधो यस्यामिति बहुव्रीहिगर्भो बहुव्रीहिः । तथा च स्पपरशब्दयोः सर्वनामत्वात्पूर्वनिपातेन भाव्यमिति चेत् । अत्राहुः — सूत्र भाष्यप्रयोगात्स्वपरशब्दयोर्न पूर्वनिपातः । राजदन्तादित्वाद्वा सिद्धिमिति । द्विशुक्ल इति । यद्यपि सर्वनामत्वेनैव द्विशब्दस्य पूर्वनिपातत्वं सिध्यति, तथापित्रिशुक्ल॑इत्यादिसिद्धये वार्तिके सङ्ख्याग्रहणं कृतम् । ननु सङ्ख्याया अल्पाच्तरत्वेनसङ्ख्यासर्वनाम्नो॑रिति वाच्ये विपरीतोच्चारणमयुक्तमित्याशङ्क्याह — ।मिथोऽनयोः समासे सङ्ख्या पूर्वम् । मिथोऽनयोरिति । विपरीतोच्चारणमेवात्र लिङ्गमिति भावः ।सङ्ख्याया अल्पीयस्याः । अल्पीयस्या इति । अल्पार्थवाचिकाया इत्यर्थः । गड्वादेः परा सप्तमी । गड्वादेरिति । आदिशब्दः प्रकारवाची । तेन पद्मं नाभौ यस्य पद्मनाभः । ऊर्णा नाभौ यस्य ।ङ्यापोः — ॑इति ह्रस्वः । ऊरेंनाभ इति सिद्द्यतीत्याहुः ।जातिकालसुखादिभ्यः परा निष्ठा वाच्या । जातिकालेति । एतच्चजातिकालसुखादिभ्योऽनाच्छादना॑दित्यनेन ज्ञापितमिति भावः । सारङ्गजग्धीति । सारङ्गो जग्धो यया सा ।अस्वाङ्गपूर्वपदाद्वे॑ति ङीष्॥ कथं तर्हिचारुस्मितश्चारुहसितः॑इत्यादि । अत्राहुः — ॒नपुंसके भावे क्तः॑इति क्तस्य न पूर्वनिपातः, निष्ठाशब्देन विहितस्यैवेह ग्रहणागदिति ।प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ । क्विचिन्नेति । आहिताग्न्यीदित्वकल्पनादनभिधानद्वेति भावः । इति तत्त्वबोधिनीव्याख्यायां बहुव्रीहिप्रकरणम् ।अथ भावकर्मप्रक्रिया ।

Padamanjari

सप्तमीविशेषमे बहुव्रीहौ॥ कण्ठेकाल इति। यदा कण्ठे किञ्चिदस्तीति निर्ज्ञाते काल इति विशेषणं प्रयुज्यते तदा सप्तमीग्रहणेन प्रयोजनम्, अन्यदा तु विशेषणत्वादेव सिद्धम्। सम्प्रधारणायामिति। इदमस्तु इदमेवेति निरूपणाऊउसम्प्रधारणा। परत्वादिति। शब्दपरविप्रतिषेधादित्यर्थः। एवमर्थमेव च’संख्यासर्वनाम्नोः’ इति नोक्तम्। गड्वादिभ्य इति गड्वादयः प्रयोगतो द्रष्टव्याः॥

Nyaas

सर्वनामसंख्ययोः इति। यत्र गुणवचनेन सह समासः सोऽस्य विषयः। यत्र तु द्रव्यवाचिना तत्र सर्वनामंख्ययोर्विशेषणत्वादेव पूर्वनिपातः सिद्धः।सप्तम्याः पूर्वनिपाते इत्यादि। सप्तम्यन्तस्य पूर्वनिपाते प्राप्ते गड्वादिभ्यः परवचनं कर्तव्यमिति। सप्तम्य्नतं परमुच्यते = कथ्यते येन व्याख्यानेन तत् परवचनम्। तत्रेदं व्याख्यानम् - आहितादेराकृतिगणत्वाद् गडुककण्ठप्रभृतयस्तत्रैव द्रष्टव्याः,तेन गड्वादिभ्यः परं सप्तम्यन्तं भविष्यति। कथं वहेगडुः इति। यदि गड्वादिभ्यः सप्तम्याः परवचनमिति भावः। प्राप्तस्य च बाधा व्याख्येया इति। तत्रेदं व्याख्यानम् - वाहिताग्न्यादिषु (2.2.37) इत्यतो वाग्रहणं क्रियते, सा च व्यवस्थितविभाषा विज्ञायते। तेन प्राप्तस्य परनिपातस्य बाधनं भविष्यति॥

Prakriyasarvasvam

बहुव्रीहौ सप्तम्यन्तं विशेषणं च पूर्वं प्रयोज्यम् ।

Vartika

सर्वनामसंख्ययोरुपसंख्यानम् ।

Sutra Prayogas

  • पिनाकपाणिं (कुमारसम्भवम्): प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः (वार्तिकम्) इति साधु।

  • सीरपाणेः (किरातार्जुनीयम्): सप्तमीविशेषणे बहुव्रीहौ इति ज्ञापकाद्यधिकरणपदो बहुव्रीहिः।

  • गुणप्रियः (किरातार्जुनीयम्): वा प्रियस्य इति परनिपातः।