22027: तत्र तेनेदमिति सरूपे¶
Padacheda: तत्र | S | 0 | 0 |
तेन् | S | 3 | 1 |
इदम् | S | 1 | 1 |
इति | S | 0 | 0 |
सरूपे | S | 1 | 2 |
Sutrartha¶
Vasu English Summary¶
Two homonymous words (both being in the locative case or both being in the instrumental case) are compounded, the sense being ‘this happens therein or with that’. The compound so formed is बहुव्रीही।
Vasu English Translation¶
Two homonymous words (both being in the locative case or both being in the instrumental case) are compounded, the sense being ‘this happens therein or with that’. The compound so formed is बहुव्रीही। The word तत्र means ‘a word in the locative case,’ and तेन ‘a word in the instrumental case.’ The word सरूप or ‘similar form’ applies to both. The word इति indicates that the meaning of the compound so formed should be learned from popular usage, therefore it means, ‘seizing, striking, fighting.’ All these senses are implied by इति. The word is exhibited in the locative case, if the sense is that of seizing; and the word is exhibited in the instrumental case, when the sense is that of striking; the word indicated by the word इदमिति is युद्ध; as केरोषुकेशोषु च गृहीत्वा इदं युद्ध वृत्तं = केशाकेशि (6.3.137) and (V.4.127.) ‘ hair to hair, fighting by pulling each other’s hair’; कचाकचि ‘hair against hair’; दण्डैश्च दण्डैश्च प्रहृत्य इदं युद्धं वृत्तं = दण्दादण्डि ‘stick against stick, fight with stick and stave;’ so also मूशलामूशली. In the above examples the samasanta affix is added at the end by rule (5.4.127); and all such words are Aryaya or indeclinable. The final vowel of the first term is lengthened by Rule (6.3.137).
Why do we say ‘having the same form’? We cannot form such a compound from the following : हलैश्च मुषलैश्च प्रहृत्य इदं युद्धं वृत्तम् .
Bhashya¶
तत्र तेनेदमिति सरूपे (448) (286 बहुव्रीहिसंज्ञासूत्रम् ॥ 2 । 2। 2 । आ.5सू.) (प्रत्याख्याननिराकरणाधिकरणम्) (1407 प्रत्याख्यानवार्तिकम् ॥ 1 ॥) ॥ तृतीयासप्तम्यन्तेषु च क्रियाभिधानादशिष्यो बहुव्रीहिः ॥ (भाष्यम्) तृतीयासप्तम्यन्तेषु चाशिष्यो बहुव्रीहिः। किं कारणम्?। क्रियाभिधानात्। क्रियाभिधीयते। तत्र अन्यपदार्थ इत्येव सिद्धम्। (1408 प्रत्याख्याननिराकरणवार्तिकम् ॥ 2 ॥) ॥ न वैकशेषप्रतिषेधार्थम् (पूर्वदीर्घार्थं च) ॥ (भाष्यम्) नवाऽशिष्यः। किं कारणम्?। एकशेषप्रतिषेधार्थमिदं वक्तव्यम् ॥ पूर्वदीर्घार्थं च। पूर्वदीर्घार्थं चेदं वक्तव्यम्। केशाकेशि ॥ (प्रत्याख्यानसाधकभाष्यम्) स्यदेतत्प्रयोजनं यदि नियोगतोनेनैव दीर्घत्वं स्यात्। अथेदानीमन्येषामपि दृश्यते इति दीर्घत्वं न प्रयोजनं भवति ॥ (1409 वार्तिकम् ॥ 3 ॥) ॥ मत्वर्थे वा पूर्वस्य विधानात् ॥ (व्याख्याभाष्यम्) अथ वा मत्वर्थे पूर्वो योगः। अमत्वर्थार्थोयमारम्भः ॥ (1410 वार्तिकम् ॥ 4 ॥) ॥ कबभावार्थं वा ॥ (व्याख्याभाष्यम्) अथ वा कब् मा भूदिति ॥ तत्र तेनेदम् ॥ 28 ॥
Kashika¶
तत्रेति सप्तम्यन्तं गृह्यते। तेनेति तृतीयान्तम्। सरूपग्रहणं प्रत्येकमभिसंबध्यते। तत्रेति सप्तम्यन्ते सरूपे पदे तेनेति च तृतीयान्ते इदमित्येतस्मिन्नर्थे समस्येते, बहुव्रीहिश्च समासो भवति। इतिकरणश्चेह विवक्षार्थो लौकिकमर्थमनुसारयति। ततो ग्रहणम्, प्रहरणम्, कर्मव्यतिहारः, युद्धं च समासार्थ इति सर्वमितिकरणाल्लभ्यते। यत् तत्रेति निर्दिष्टं ग्रहणं चेत् तद् भवति, यत् तेनेति निर्दिष्टं प्रहरणं चेत् तद् भवति, यदिदमिति निर्दिष्टं युद्धं चेत् तद् भवति। केशेषु केशेषु च गृहीत्वेदं युद्धं प्रवृत्तम्, केशाकेशि। कचाकचि। दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तम्, दण्डादण्डि। मुसलामुसलि। इच् कर्मव्यतिहारे (५.४.१२७) इतीच् समासान्तः, स चाव्ययम्। अन्येषामपि दृश्यते (६.३.१३७) इति पूर्वपदस्य दीर्घत्वम्। सरूपग्रहणं किम्? हलैश्च मुसलैश्च प्रहृत्येदं युद्धं प्रवृत्तम्॥
Siddhanta Kaumudi¶
सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदं युद्धं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे द्योत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो लभ्यते । इच्समासान्तो वक्ष्यते । तिष्ठद्गुप्रभृतिष्विच्प्रत्ययस्य पाठादव्ययीभावत्वमव्यत्वं च । अन्येषामपि दृश्यते (SK3539) दीर्घः । केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैर्दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि ॥
Balamanorama¶
तत्र तेनेदमिति सरूपे - तत्र तेन । समास इति, बहुव्रीहिरिति चाधिकृतम् ।तत्रे॑त्यनेन सप्तम्यन्ते पदे विवक्षिते । ‘ग्रहणविषये’ इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम् ।तेने॑त्यनेन तु तृतीयान्ते पदे विवक्षिते ।प्रहरणविषये॑इति, प्रथमाद्विवचनान्तं तद्विशेषणमध्ताहार्यम् । ‘सरूपे’ इति प्रथमाद्विवचनान्तं पदविशेषणम् । ‘ग्रहणविषये’ इति ‘प्रहरणविषये’ इति तु सप्तम्यन्तयोस्तृतीयान्तयोश्च यथासङ्ख्यमन्वेति ।इद॑मित्यर्थनिर्देशः ।युद्धं प्रवृत्त॑मिति तद्विशेष्यमध्याहार्यम् । कर्मव्यतिहारे द्योत्ये॑इत्यपयध्याहार्यम् । तदाह — सप्तम्यन्ते इति । प्रथमाद्विवचनमिदम् । ग्रहणविषये इति । गृह्रते अस्मिन्निति ग्रहणं=केशादि । अधिकरणे ल्युट्, तत् विषयः=वाच्यं ययोस्ते ग्रहणविषये । ग्रहणवाचके इति यावत् । प्रहरणविषये इति । प्रह्यियते अनेनेति प्रहरणं =दण्डादि । तत्-विषयः=वाच्यं ययोस्ते प्रहरणविषये । प्रहरणवाचके इति यावत् । अत्रापिसरूपे॑पदे इन्यन्वेति । इदं युद्धं प्रवृत्तमित्यर्थे इति ।इद॑मिति सामान्यार्थनिर्देशः ।युद्ध॑मिति विशेषणिर्देशः । अतः केशाकेशि युद्धिमिति न पुनरुक्तिः । परस्परग्रहणं परस्परप्रहरणं च कर्मव्यतिहारः । ननु ‘ग्रहणविषये’प्रहरणविषये॑इत्यध्याहारे किं प्रमाणमित्यत आह — इतिशब्दादिति । इतिशब्दो लौकिकप्रसिद्धप्रकारवचनः ।केशाकेशी॑त्यादिलौकिकप्रयोगे यावानर्थः प्रसिद्धस्तावत्यर्थेऽयं बहुव्रीहिर्भवतीत्यर्थः ।
Tattvabodhini¶
तत्र तेनेदमिति सरूपे - तत्र तेनेदं । ग्रहण विषय इति । गृह्रते अनेनेति ग्रहणं=केशादि । तद्विषयो=वाच्यो ययोस्ते सरूपे । प्राह्यियते अनेनेति प्रहरणं=दण्डादि, तद्विषयो=वाच्यो ययोरिति प्राग्वत् । कर्मव्यतिहारः=परस्परग्रहणं, परस्परप्रहरणं च । ननुग्रहणविषये सप्तम्यन्ते समस्येते, प्रहरणविषये तृतीयान्ते चे॑त्यादिविषयविशेषः सूत्राक्षरैः कथं लभ्यत इत्यत आह -इति शब्दादिति । स हि लौकिकीं विवक्षां दर्शयति । लोके केशाकेशीत्यादिप्रयोगे यावानर्थः प्रतीयते तावत्यर्थे बहुव्रीहिर्भवतीत्यर्थः ।
Padamanjari¶
तत्र तेनेदमिति सरूपे॥ इतिकरण इत्यादि। ततः समासाल्लौकिकस्य यदि विवक्षा भवति - एवमर्थं समासो भवति, नान्यार्थमित्येवमर्थं सूचयितुमितिशब्द इत्यर्थः, तेन किं सिद्धं भवतीत्याह - लौकिकमर्थमिति। कः पुनरसौ लौकिकोऽर्थ इत्याह - ततश्चेत्यादि। एतदेव विवृणोति - यतत्रेत्यादि। गृह्यतेऽस्मिन्निति ग्रहणमुकेशादि, प्रहरणमुदण्डादि, कर्मव्यतीहारःऊउपरस्परग्रहणं परस्परप्रहरणं च। स चाव्ययमिति। तिष्टद्गुप्रभृतिषु पाठेनाव्ययत्वात्। नन्वत्र युद्धस्यान्यपदार्थत्वात्पूर्वेणैव सिद्धम्, न; वैयधिकरण्यादेकशेषप्रसङ्गाच्च। तथा हि - ग्रहणप्रहरणे च केशादीनां सहविवक्षितत्वादेकविभक्तित्वाच्चैकशेषः प्राप्तोऽनेन वचनेन बाध्यते। कथम्? न समूहविवक्षायां बहुव्रीहिसंज्ञा, समूहश्चैकशेषे नोपपद्यते। ननु चासत्यस्मिन्पूर्वयोगेनैव परत्वादेकशेषो बाधिष्यते? न शक्यते बाधितुम्; अन्तरङ्ग एकशेषः बहुव्रीहिश्चान्यपदार्थापेक्षत्वाद्बहिरङ्गः॥
Nyaas¶
इतिकरणः इत्यादि। समासादभिमतेऽर्थे इतिकरणो यमर्थं प्रतिपादयति तं दर्शयितुमाह - लौकिकमर्थमनुसारयति इति। अनुगमयति प्रबोधयतीति यावत्। स पुनर्लौकिकोऽर्थो ग्रहणादिरिति दर्शयन्नाह ततः इत्यादि। यस्मादितिकरणो लौकिकमर्थमनुसारयति ततो हेतोर्गर्हणादिरिति सर्वं लभ्यते। यत्तत्रेत्यादिना कर्मव्यतीहार इति परस्परग्रहणम्, परस्परग्रहणञ्चेतिकरणादेव लभ्यत इति वेदितव्यम्। स्वरूपविधिरत्रेतिकरणादेव न भवतीति वेदितव्यम्। दण्डैश्चेति करणे तृतीया। स चाव्ययम् इति। तिष्ठद्गुप्रभृतिषु पाठादव्ययीभावः; अव्ययीभावश्च (2.4.18) इत्यव्ययसंज्ञाविधानात्। सरूपम् इति। समानस्य ज्योतिरवचनस्य (6.3.84) इत्यादिना सभावः॥
Prakriyasarvasvam¶
तत्र गृहीत्वेदमित्यर्थे तेन प्रहृत्येदमित्यर्थे च सरूपे पदे मिथः समस्येते, स च बहुव्रीहिसंज्ञः । युधि परस्परकरणे द्योत्य एवेति भोजसूत्रे ।।