22025: संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये

Padacheda: संख्यया | S | 3 | 1 |

अव्यय-आसन्न-अदूर-अधिक-संख्याः | S | 1 | 3 |

संख्येये | S | 7 | 1 |

Sutrartha


Vasu English Summary

indeclinable words and the words आसन्न ‘near’, अदूर ‘near’, अधिक ‘more’ and the words called संख्या (Numerals) are compounded with another संख्या word, when the sense is that of a numeral or संख्या। The compound is बहुव्रीही।

Vasu English Translation

indeclinable words and the words आसन्न ‘near’, अदूर ‘near’, अधिक ‘more’ and the words called संख्या (Numerals) are compounded with another संख्या word, when the sense is that of a numeral or संख्या। The compound is बहुव्रीही। Thus उपदशाः (5.4.73) ‘those who are near ten i.e. nine or eleven.’ Similarly उपविंशः ‘nineteen or twenty-one’ (6.4.142). So also आसन्नदशाः ‘nine or eleven.’ अदूरदशाः ‘nine or eleven.’ अधिकदशाः ‘eleven.’

So also two ‘numerals’ may be compounded; as, द्वित्राः ‘two or three.’ द्विदशाः ‘twenty.’

Why do we say with a numeral’? Observe पंच ब्राह्मणाः ‘five Brahmanas.’

Why do we say ‘with an Indeclinable &c’? Witness ब्राह्मणाः पंच. Why do we say ‘when denoting a numeral’? Observc अधिका विंशतिर्गवाम्’ of cows more than twenty.’

Bhashya

संख्ययाव्ययासन्नादूराधिक संख्याः संख्येये (283) (283 बहुव्रीहिसंज्ञासूत्रम् ॥ 2 । 2 ।2 आ.2) (द्वित्रादिशब्दार्थाधिकरणम्) (आक्षेपभाष्यम्) द्वित्राः त्रिचतुरा इति कोयं समासः? ॥ (समाधानभाष्यम्) बहुव्रीहिरित्याह ॥ (आक्षेपभाष्यम्) कोस्य विग्रहः? ॥ (समाधानभाष्यम्) द्वौ वा त्रयो वेति ॥ (आक्षेपभाष्यम्) भवेद्यदा बहूनामानयनं तदा बहुवचनमुपपन्नम्। यदा तु खलु द्वावानीयेते तदा न सिध्यति। (समाधानभाष्यम्) तदापि सिद्धम् ॥ कथम्?। केचित्तावदाहुः - अनिर्ज्ञातेर्थे बहुवचनं प्रयोक्तव्यमिति। तद्यथा - कति भवतः पुत्राः, कति भवतो भार्या इति ॥ अपर आह - द्वौ वेत्युक्ते त्रयो वेति गम्यते। त्रयो वेत्युक्ते द्वौ वेति गम्यते। सैषा पञ्ञ्चाधिष्ठाना वाक् तत्र युक्तं बहुवचनम् ॥ (द्विदशादिशब्दार्थाधिकरणम्) (आक्षेपभाष्यम्) अथ द्विदशाः त्रिदशा इति कोयं समासः? ॥ (समाधानभाष्यम्) बहुव्रीहिरित्याह ॥ (आक्षेपभाष्यम्) कोस्य विग्रहः? ॥ (समाधानभाष्यम्) द्विर्दश द्विदशा इति। (1398 आक्षेपवार्तिकम् ॥ 1 ॥ ॥ संख्यासमासे सुजन्तत्वात्संख्याप्रसिद्धिः ॥ (भाष्यम्) संख्यासमासे सुजन्तत्वात्संख्येत्यप्रसिद्धिः। नहि सुजन्ता संख्यास्ति ॥ (समाधानभाष्यम्) एवं र्तत्द्येवं विग्रहः करिष्यते - द्वौ दशतौ द्विदशा इति ॥ (आक्षेपभाष्यम्) एवमपि अत्कारान्तत्वात्संख्येत्यप्रसिद्धिः। न ह्यत्कारान्ता संख्यास्ति ॥ (प्रथमप्रोक्तविग्रहाभ्युपगमभाष्यम्) अस्तु तर्ह्ययमेव विग्रहः - द्विर्दश द्विदशा इति ॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - ।संख्यासमासे सुजन्तत्वात्संख्येत्यप्रसिद्धिरिति ॥ (1399 आक्षेपबाधकवार्तिकम् ॥ 2 ॥) ॥ नवाऽसुजन्तत्वात् ॥ (भाष्यम्) न वा एष दोषः। किं कारणम्?। असुजन्तत्वात्। सुजन्तत्वादित्युच्यते। न चात्र सुजन्तं पश्यामः ॥ (आक्षेपभाष्यम्) किं पुनः कारणं वाक्ये सुज् दृश्यते, समासे न दृश्यते? ॥ (1400 समाधानवार्तिकम् ॥ 3 ॥) ॥ सुजभावोभिहितार्थत्वात् समासे ॥ (भाष्यम्) समासे सुजभावः ॥ किं कारणम्?। अभिहितार्थत्वात्। अभिहितः सुजर्थः समासेनेति कृत्वा समासे सुज् न भविष्यति ॥ (प्रत्याक्षेपभाष्यम्) किं च भोः सुजर्थे इति समास उच्यते? ॥ (समाधानभाष्यम्) न खलु सुजर्थ इत्युच्यते गम्यते तु सुजर्थः। कथम्?। यावता संख्येयो यः संख्यया संख्यायते। स च क्रियाभ्यावृत्त्यर्थः। स चोक्तः समासेनेति कृत्वा समासे सुज् न भविष्यति ॥ (प्रत्याख्यानाधिकरणम्) (1401 प्रत्याख्यानवार्तिकम् ॥ 4 ॥) ॥ अशिष्यः संख्योत्तरपदः संख्येयवाभिधायित्वात् ॥ (भाष्यम्) अशिष्यः संख्योत्तरपदो बहुव्रीहिः ॥ किं कारणम्?। संख्येयवाभिधायित्वात्। संख्येयं वार्थश्चाभिधीयते तत्रान्यपदार्थ इत्येव सिद्धम् ॥ (प्रत्याख्याननिराकरणभाष्यम्) भवेत्सिद्धमधिकविंशाः अधिकत्रिंशा इति, यत्रैतद्विचार्यते विंशत्यादयो दशदर्थे वा स्युः परिमाणिनि वेति। इदं तु न सिध्यति - अधिकदशा इति, यत्र नियोगतः संख्या संख्येये एव वर्तते ॥ (उपदशादिशब्दार्थाधिकरणम्) (आक्षेपभाष्यम्) अथोपदशा इति कोयं समासः? ॥ (समाधानभाष्यम्) बहुव्रीहिरित्याह ॥ (आक्षेपभाष्यम्) कोस्य विग्रहः? ॥ (समाधानभाष्यम्) दशानां समीपे उपदशा इति ॥ (आक्षेपभाष्यम्) कस्य पुनः सामीप्यमर्थः? ॥ (समाधानभाष्यम्) उपस्य ॥ (आक्षेपभाष्यम्) यद्येवं, नान्यपदार्थो भवति ॥ (प्रत्याख्यानभाष्यम्) तत्र च प्रथमानिर्दिष्टं संख्याग्रहणं शक्यमकर्तुम् ॥ (1402 संख्याग्रहणस्थापनवार्तिकम् ॥ 5 ॥ ) ॥ मत्वर्थे वा पूर्वस्य विधानात् ॥ (भाष्यम्) अथ वा मत्वर्थे पूर्वो योगः। अमत्वर्थार्थोयमारम्भः ॥ (1403 प्रत्याख्याननिराकरणवार्तिकम् ॥ 6 ॥) ॥ कबभावार्थं वा ॥ (भाष्यम्) अथ वा कब् मा भूदिति ॥ संख्ययाऽव्य ॥ 25 ॥

Kashika

संख्येये या संख्या वर्तते तया सहाव्ययासन्नादूराधिकसंख्याः समस्यन्ते, बहुव्रीहिश्च समासो भवति। अव्यय — उपदशाः। उपविंशाः। आसन्नदशाः। आसन्नविंशाः। अदूरदशाः। अदूरविंशाः। अधिकदशाः। अधिकविंशाः। संख्या — द्वित्राः। त्रिचतुराः। द्विदशाः। संख्ययेति किम्? पञ्च ब्राह्मणाः। अव्ययासन्नादूराधिकसंख्या इति किम्? ब्राह्मणाः पञ्च। संख्येय इति किम्? अधिका विंशतिर्गवाम्॥

Siddhanta Kaumudi

संख्येयार्थया संख्ययाऽव्ययादयः समस्यन्ते स बहुव्रीहिः । दाशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः । बहुव्रीहौ संख्येये- (SK851) इति वक्ष्यमाणो डच् ॥

Balamanorama

संख्ययाऽव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये - सङ्ख्यया । शेषग्रहणम्, ‘अनेकमन्यपदार्थे’ इति च निवृत्ते ।बहुव्रीहि॑रित्यनुवर्तते । ‘सुप्सुपा’ इति च । ‘सङ्ख्येये’ इतयेतत्सङ्ख्ययेत्यत्रान्वेति । सङ्ख्यया परिच्छेद्यं-सङ्ख्येयम् ।तत्रार्थे विद्यमानया सङ्ख्यये॑ति लभ्यते । सङ्ख्या शब्दश्चायं न स्वरूपपरः, किंतु एकादिशतान्तशब्दपरः । तदाह — सङ्ख्येयार्थया सङ्क्ययेति । एकादिशब्देन सुबन्तेनेत्यर्थः । अव्ययादय इति । अव्यय-आसन्न-अदुर-सङ्ख्या एते सुबन्ता इत्यर्थः । अत्रापि सङ्ख्याशब्दो न स्वरूपपरः, किंतु एकादिशब्दपर एव । अत्रेदमवधेयम्-विशतेः प्रागेकादिशब्दाः सङ्ख्येयेषु वर्तन्ते, विशेष्यलिङ्गाश्च । दसादयो नित्यबहुवचनान्ताः । विंशत्यादिशब्दास्तु नित्यमेकवचनान्ताः, सङ्ख्यायां सङ्ख्येये च वर्तन्ते, नवतिपर्यन्ताः नित्यस्त्रीलिङ्गाश्च । यता विंशतिब्र्राआहृणाः, ब्राआहृणानां विंशतिरिति । यदा विंशत्यादिः सङ्ख्या, ततो द्वित्वबहुवचने स्तः । यथा गवां द्वे विंशती इति । चत्वारिंशदिति गम्यते । गवां तिरुआओ विंशतय इति । षष्ठिरिति गम्यते ।विंशत्याद्याः सदैकत्वे सङ्ख्याः सङ्ख्येयसङ्क्ययोः । सङ्ख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ।॑इत्यमरः । अत्राव्ययस्योदाहरति — उपदशा इति । उपशब्दस्य समीपार्थकस्याव्ययीभाव उक्तः । इह तु समीपवर्त्तिनि उपशब्दो वर्तते । दशसमीपवर्तिन इत्यर्थः । ततश्च अन्यपदार्थवृत्तित्वाऽभावादप्रथमान्तत्वाच्च ‘अनेकमन्यपदार्थे’ इत्यप्राप्ते वचनमिदम् । तस्य दशानां वृक्षादीनां समीपवर्तिनो गवादय इत्यर्थभ्रमं वारयति — नवैकादश वेत्यर्थ इति । सामीप्यमिह दशन्शब्दार्थगतदशत्वापेक्षम्, एकार्थीभावबलात् । तथाच दशत्वसमीपवर्तिसङ्ख्यावत्सु उपशब्द इति फलति । ततश्च दशत्वसमीपवर्तिसङ्ख्यावन्त इति बोधपर्यवसानं भवति । डजिति । उपदशन्शब्दाड्डचि ‘नस्तद्धिते’ इति टिलोप इति भावः ।

Tattvabodhini

संख्ययाऽव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये - यः स्त्रीप्रत्यय इति । टाबादिः । प्राचा तु ङीषेवोपत्तस्तदयुक्तमिति ध्वनयन्नुदाहपरति — शूद्राभार्य इति । ब्राआहृणीति । शाङ्र्गरवादितवीन्ङीन् । प्राचा तुङीष् न पुंव॑दिति व्याख्यायब्राआहृणीभार्य॑इत्युदाहृतं, तद्रभसात् । सौत्रस्यैवेति । व्याख्यानादिति भावः ।न कोपधायाः॑इति निषेधस्तुभस्याढे॑इति प्राप्तस्यापि भवत्येव । तेन विलेपिकाया धम्र्यं वैलेपिकमिति सिद्धम् । यदिअण्पहिष्यादिभ्यः॑इत्यणि पुंवद्भावः स्यात्तर्हीकारोऽत्र न श्रूयेत । एतच्चन कोपधायाः॑इति सूत्रे भाष्ये स्पष्टम् । प्रासङ्गिकं समाप्य प्रकृतमनुसरति — सङ्ख्ययेति । सामानाधिकरण्यास्यान्यपदार्थवृत्तेश्च विरहात्पूर्वोणाऽप्राप्तौ वचनम् । दशानामिति । उपगता दश येषामिति न विगृहितं, पूर्वेणैव सिद्धेः । उपदशा इति । उपशब्दः समीपे समीपिनि च वरितते । आद्येऽव्ययीभावः, द्वितीये तु बहुव्रीहिरिति विवेकः । नव एकादश वेत्यर्थ इति । सङ्ख्याद्वारकसम्बन्धस्याऽन्तरङ्गत्वादिति भावः । तेन दशानां वृक्षादीनां समीपे ये सन्ति गवादयस्तेउपदशा॑ इति न प्रयुज्यन्ते । सूत्रे तीति लुप्तषष्ठीकमित्याशयेनाह — ।

Padamanjari

संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये॥ उपदशा इति।’बहुव्रीहौ संख्येये डजबहुगणात्’ इति डचि टिलोपः, दशानां समीपे ये भवन्ति त उच्यन्ते, ते पुनर्नवैकादश वा। पूर्वपदार्थप्रधानोऽयं समासः। उपशब्दोऽयमाराच्छब्देनैकार्थत्वात्समीपे समीपिनि च वर्तते। तत्र समीपिप्राधान्येऽयं बहुव्रीहिः। सामीप्यप्राधान्ये ठव्ययं विभक्तिसमीपऽ इत्यव्ययीभावः। उपदशं दन्तोष्ठा इति। अत्र धर्मधर्मिणोपभेदोपचारात्सामानाधिकरण्यम्। उपविशा इति।’ति विंशतेर्डिति’ इति लोपः। आसन्ना दशानामासन्नदशाः, तेऽपि नवैकादश वा। अधिकदशास्त्वेकादश। द्वौ वा त्रयो वा द्वित्राः, वार्थेऽयं समासः। वार्थश्च यदि विकल्पः स्यात्, ततो यदि द्वौ भवतस्तदा बहुवचनं न स्यात्। तस्मात्संशयोऽत्र वार्थः, स चानियतसंख्याविमर्शः, तत्र तु त्रयोऽपि सर्वदा परिस्फुरन्तीति तदपेक्षं बहुवचनम्। अथ वा - पञ्चैवात्र सर्वदा भवन्ति, कथम्? विमर्शज्ञानमुभयपक्षालम्बि एकं च तत्र, यथा - द्वौ वा त्रयो वा पुरुषा आनीयन्तामित्यत्र पुरुषशब्दे तिङ्न्ते च बहुवचनमेव भवति, कस्य हेतोः? मिश्रितेषु तयोर्वृतेः। एवं द्वित्रिपदमपि मिश्रितेषु वर्तत इति सैषा पञ्चाधिष्ठाना वाक्, अतो बहुवचनमेव भवति। आनयनादिकार्थं तु द्वयोस्त्रयाणां वा यथारुचि भवति। वाक्यवदेव समासस्य चैषा हि आपत्, अतस्तेषु मिश्रितेषु वृत्तिः, तेन द्वौ वा पुरुषा आनीयन्तामिति वाक्ये द्विशब्दाद् द्विवचनमेव भवति। त्रिचतुरा इति।’चतुरो’ च्प्रकरणे त्र्युपाभ्यामुपसंख्यानम्ऽ इत्यच्। द्विदशा इति। अत्र द्विशब्देन दशत्वावृत्तिगता द्वित्वसंख्या प्रतिपाद्यते, न दशत्वसंख्या; एकत्वात्। नापि संख्यायुक्ताः, बहुत्वात्। तत्र वाक्ये सुचमन्तरेणाभ्या वृतेरनवगमात्सुच् भवति, ततश्चास्वपदविग्रहः क्रियते - द्विर्दश द्विदशा इति। वृतौ तु स्वभावादेव सुचमन्तरेणाभ्यावृत्तिसंख्यां द्विशब्द एवाहेति संख्यावाचित्वात्समस्यते। नन्वत्र वार्थः सुजर्थश्चान्यपदार्थे इति पूर्वेणैव सिद्धम्, तन्न; सुचः स्वार्थिकत्वातदर्थोऽपि पदार्थ एव। मत्वर्थे पूर्वयोगः; अमत्वर्थार्थोऽयमारम्भः। ननु प्राप्तोदकादि प्रथमार्थं वर्जयित्वा सर्वविभक्त्यर्थेषु यथाभिधानं भवतीत्युक्तम्, एवं तर्हि प्रथमार्थेऽपि यथा स्यादित्ययमारम्भः। अथ प्रथमार्थं वर्जयित्वेत्येतदनाद्दत्य यथाभिधानं भवतीत्युच्यते, एवं तर्हि तस्यैव प्रपञ्चः संख्यायाः समासः, अव्ययानां तु चतुर्दशादिभिः संख्येयवाचिभिः समासो विधेय एव। केचितु ये विंशत्यादयः संख्याने वर्तन्ते तैः पूर्वेणैव सिद्धम् - अधिका विंशतिर्येषां त इमेऽधिकविंशाः, विंशतिसंख्या आसन्ना येषां ते आसन्नविंशा इति, तत्र’सर्वनामसंख्ययोः’ इति विंशतिशब्दस्य पूर्वनिपातः प्राप्नोति, तस्माद्विंशत्याद्यर्थमप्यव्ययादीनां ग्रहणं कर्तव्यमेव॥

Nyaas

उपदशाः इति। बहुव्रीहौ संख्येये डजबहुगणात् (5.4.73) इति डच् समासान्तः, टिलोपश्च। दशानां समीपे ये वर्तन्ते ते तथोच्यन्ते, ते पुनर्नवैकादश वा। पूर्वपदार्थप्रधानोऽयं समासः। यद्येवम्, कस्तह्र्रव्ययीभावस्यास्य च विषयविभागः; सोऽव्ययीभावोऽवव्ययस्य समीपे वर्तमानस्य अव्ययं विभक्ति (2.1.6) इत्यादिना पूर्वपदार्थप्रदान एव विधीयते? उच्यते - यदा समीपिनः प्राधान्यं तदा बहुव्रीहिः,यदा तु समीपस्य प्राधान्यं तदाव्ययीभावः- इत्येष विषयविभागः। उपविंशाः इति। पूर्ववड्डच्। तिर्विशतेर्डिति (6.4.142) इति टिलोपः। आसन्नदशाः इति। दशानामासन्ना आसन्नदशाः। ते च पूर्ववन्नवैकादश वा। अदूरदशाः इति। दशानामदूरा ये, ते पुनः पूर्वोक्ता एव। अधिकदशाः इति। दशानामधिकाः , ते पुनरेकादशादयः। द्वित्राः इति। द्वौ वा त्रयो वति विग्रहः। वार्थेचायं समासः। वार्थश्चायं संशयः, न विकल्पः। यदि वार्थ इह विकल्प आश्रीयते ततो यदा द्वौ भवतः, तदा बहुवचनं न स्यात्। तस्मात् संशयोऽत्र वार्थः। संशयिते चार्थे बहुवचनं भवति, यथा - कित भवतः पुत्राः। उक्तञ्च भाष्ये - अविज्ञातेऽर्थे बहुवचनं प्रयोक्तव्यम् इति। तत्कथम्? संशयज्ञ#आनस्योभयपक्षरामर्शित्वेन बह्वर्थविषयत्वात्। उभयपक्षापरामर्शित्वे संशय एव न स्यात्। अथ वा - पञ्चैवात्र सदा भवन्ति, न कदाचिद्द्वौ त्रयो वेति। तथा च द्वित्रा इत्युक्ते पञ्चैवेति गम्यते। सैषा पञ्चाधिष्ठानावागिति ततो युक्तं बहुवचनम्। यदि तर्हि वार्थेऽयं समासः, तस्यार्थस्यान्यपदार्थत्वात् पूर्वेणैव सिद्धः समासः? न सिद्ध्यति, मत्वर्थे हि पूर्वयोगः; अमत्वर्थोऽयं योगः। अथ वा - प्रथमार्थे वर्जयित्वाऽन्यत्र विभक्त्यर्थे पूर्वेण समासः। प्रथमार्थमिदं वचनम्। त्रिचतुराः इति। चतुरोऽच्प्रकरणे चतुरस्त्र्युपाभ्यामुपसंख्यानम् (वा।639) इत्यच् समासान्तः। द्विदशाः इति। द्विर्दशेति विग्रहः। सुजर्थेऽयं समासः। दशसम्बन्धिनी याऽऽवृत्तिर्दशशब्देन लक्ष्यमाणा सा द्विशब्देनाख्यायते। सुजर्थश्च प्रत्ययार्थो नान्यपदार्थ इति पूर्वेण न सिद्ध्यति। अथ वा - प्रथमार्थेऽपिचायम्, अमत्वर्थेऽपि; अतः पूर्वेण न सिध्यति। समास एव सुजर्थं गमयितुं समर्थ इति वृत्तौ सुज् न प्रयुज्यते।अधिका विंशतिर्गवाम् इति। विंशतिशब्दोऽत्र संख्यान एव वर्तते; न तु संख्येये द्रव्ये॥

Prakriyasarvasvam

अव्ययादयस्सङ्ख्येयेर्थे सङ्ख्यया समस्यन्ते, स च बहुव्रीहिसंज्ञः ॥

Sutra Prayogas

  • द्वित्राणि (रघुवंशम्): संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये इति बहुव्रीहिः।

  • त्रिदशान् (कुमारसम्भवम्): संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये इति बहुव्रीहिः।

  • त्रिचतुरेषु (किरातार्जुनीयम्): संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये इति बहुव्रीहिः।