21067: युवा खलतिपलितवलिनजरतीभिः¶
Padacheda: युवा | S | 1 | 1 |
खलति-पलित-वलिन-जरतीभिः | S | 3 | 3 |
Sutrartha¶
Vasu English Summary¶
The word युवा ‘young’ is compounded with the words खलति ‘bald headed’, पलित ‘grey-haired’, वलिन ‘wrinkled’, जरति ‘decayed’, when they are in agreement (same case) and the resulting compound is तत्-पुरुष ।
Vasu English Translation¶
The word युवा ‘young’ is compounded with the words खलति ‘bald headed’, पलित ‘grey-haired’, वलिन ‘wrinkled’, जरति ‘decayed’, when they are in agreement (same case) and the resulting compound is तत्-पुरुष । The word जरतीभि is exhibited in the feminine gender, in the aphorism, with the object of indicating the existence of the following maxim of interpretation प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्।।
‘A Prátipadika denotes, whenever it is employed in grammar, also such a crude form as is derived from it by the addition of an affix denoting gender.’
As, युवा + खलतिः = युवखलतिः. So also युवतिः खलती - युवखलती in the feminine: ‘bald in youth.’ So युवपलितः fem. युवपलिता, ‘grey-haired in youth’ युववलिनः fem. युववलिना ‘wrinkled in youth’ यवजरन् fem. युवजरती ‘appearing old in youth,’ (prematurely old.)
Bhashya¶
युवा खलतिपलितवलिनजरतीभिः (415) (263 तत्पुरुषसमाससंज्ञासूत्रम् ॥ 2 । 1। 3 ॥ आ.10) (लिङ्गविशिष्टपरिभाषासाधनाधिकरणम्) (आक्षेपभाष्यम्) अयुक्तोयं निर्देशः। समानाधिकरणेन इति वर्तते। कः प्रसङ्गो यद्व्यधिकरणानां समासः स्यात्? ॥ (समाधानभाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः - यथाजातीयकमुत्तरपदं तथाजातीयकेन पूर्वपदेन समासो भवति - इति। किमेतस्य ज्ञापने प्रयोजनम्?। प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति इत्येषा परिभाषा न कर्तव्या भवति ॥ युवा ख ॥ 66 ॥
Kashika¶
खलत्यादिभिः समानाधिकरणैः सह युवशब्दः समस्यते, तत्पुरुषश्च समासो भवति। जरतीभिरिति स्त्रीलिङ्गनिर्देशः प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति ज्ञापनार्थः। युवा खलतिः, युवखलतिः। युवतिः खलती, युवखलती। युवा पलितः, युवपलितः। युवतिः पलिता, युवपलिता। युवा वलिनः, युववलिनः। युवतिर्वलिना, युववलिना। युवा जरन्, युवजरन्। युवतिर्जरती, युवजरती॥
Siddhanta Kaumudi¶
पूर्वनिपातनियमार्थं सूत्रम् । लिङ्गविशिष्टपरिभाषया युवतिशब्दोऽपि समस्यते । युवा खलतिः युवखलतिः । युवतिः खलती युवखलती । युवजरती । युवत्यामेव जरतीधर्मोपलम्भेन तद्रूपारोपात्समानाधिकरण्यम् ॥
Balamanorama¶
युवा खलतिपलितवलिनजरतीभिः - युवा खलति । युवन्शब्दः खलत्यादिभिः समानाधिकरणैः समस्यते, स तत्पुरुष इत्यर्थः । विशेषणसमासेन सिद्दे किमर्थमिदमित्यत आह — पूर्वेति । युवन्शब्दस्य खलत्यादिशब्दानां च गुणवाचित्वाद्विशेषणत्वे कामचारात्पूर्वनिपातस्याऽनियमे प्राप्ते तन्नियमार्तमिदं सूत्रमित्यर्थः । खलतिः=केशहीनशिराः ।पलितं जरसा शौक्लयं॑ ‘वलिनो वलिभः समौ’ इत्यमरः । युवखलतिरिति । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नलोपः । ननु युवेति पुंलिङ्गनिर्देशात् कथं युवतिशब्दस्य समास इत्यत आह — लिङ्गविशिष्टेति । युवखलतीति ।पुंवत्कर्मधारये॑ति पुंवत्त्वम् । युवजरतीति । जरती=वृद्धा । युवतिश्चासौ जरती चेति विग्रहः ।पुंवत्कर्मधारये॑ति पुंवत्त्वम् । ननु युवतिः कतं जरती स्यादित्यत आह — युवत्यामेवेति ।
Tattvabodhini¶
युवा खलतिपलितवलिनजरतीभिः - युवखलतीति ।कृदिकारादक्तिनः॑इति ङीष् ।पुंवत्कर्मधारये॑ति युवतिशब्दस्य पुंवद्भावः । जरतीति ।जीर्यतीति ।जीर्यतेरतृन्॒उगितश्चे॑ति ङीष् । एवं युवपलितः युववलिन इत्युदाहार्यम् । वलिनशब्दः पामादिः ।
Padamanjari¶
संज्ञायूनो गहणे गार्ग्यायणः खलतिरित्यादाबेव तु स्यान्न च तस्य जरतीशब्देन सामानाधिकरण्यम्। न च गार्ग्यायणी युवतिरस्ति; सत्रियां युवसंज्ञाप्रातिषेधात्, अतो युवेति स्वरूपग्रहणमित्याह - युवाशब्द इति। खलत्यादिभिः समानाधिकरणैरिति। कथं पुनर्युवशब्दस्य जरतीशब्देन सामानाधिकरण्यम् पुंल्लिङ्गस्य स्त्रीलिङ्गेनेति, तत्राह - स्त्रीलिङ्गनिर्देश इति। अस्यां हि परिभाषायां सत्यां युवशब्दस्य ग्रहणे युवतिशब्दस्यापि ग्रहणादुपपद्यते युवतिजरतीशब्दयोः समानाधिकरण्यम्, असत्यां तु नोपपद्यत इत्यर्थापत्या परभाषा ज्ञायते। युवखलतीति।’कृदिकारादक्तिनः’ ‘सर्वतो’ क्तिन्नर्थादित्येकेऽ इति ङीष्। वलिशब्दः पामादिः। युवजरन्निति। जरद्भिरित्यपि पाठः केनचिदाचार्येण बोधित इति पुल्लिङ्गेनापि समासो भवतीति भावः। युवतिर्जरतीति। कथं विरुध्दवाचनोः सामानाधिकरण्यम्, अन्योऽन्याधर्मोपलम्भातद्रूपत्वारोपाद्भविष्यति। यद्येवम्, विभिन्नलिङ्गयोरप्येवमेव समानाधिकरण्यसम्भवात्कथं परिभाषा ज्ञाप्यत इति चिन्त्यम्; युवशब्दस्य पूर्वानिपातनियमार्थं वचनम्, अनियमो हि गुणशब्दत्वात्स्यात्॥
Nyaas¶
खलत्यादिभिः समानाधिकरणैः इत्यादि। यद्येवम्, किमर्थं जरतीभिरिति स्त्रीलिङ्गेन निर्देशः, जरद्भिरित्येवं नाम निर्देशः कर्तव्यः स्यात्, न हि जरतीशब्देन स्त्रीलिङ्गेन युवशब्दस्य पुंलिङ्गस्य सामानाधिकरण्यमुपपद्यत इत्याह - जरतीभिरिति स्त्रीलिङ्गेन निर्देशः इत्यादि। कथं पुनरनेन निर्देशेनैषा परिभाषा शक्यते ज्ञापयितुम्? यद्येषा न स्यात् तदा जरतीभिरित्येवं निर्देशोऽनर्थकः स्यात्। तथा च समानाधिकरणाधिकारात् समानाधिकरणेन जरतीशब्देनायं समासो विज्ञायते। न च तेन स्त्रीलिङ्गेन पुंसि वर्तमानस्य युवशब्दस्य सामानाधिकरण्यं भवति, तदेष निर्देशः कथमर्थवान् भवति? यद्येषा परिभाषाऽवतिष्ठते ! तस्यां हि सत्यां युवशब्दस्य ग्रहणे युवतिशब्दस्य ग्रहणं भवतीत्युपपद्यते। युवतिजरतीशब्दयोः सामानाधिकरण्यम्, तस्मश्च सति तयोः समासः। तेदवं जरतीभिरिति निर्देशो ज्ञापयति - एषा परिभाषाऽस्तीति। नन्वेवमपि जरत्या समास उच्यमाने जरता न प्राप्नोति - युवजरन्निति? नैष दोषः; वृत्त्यन्तरे हि जरद्भिरिति पठते। उभयथाऽप्याचार्येण शिष्याः प्रतिपादिता इत्युभयं सिध्यति॥
Prakriyasarvasvam¶
खलतिर्गतकेशः । युवखलतिरित्यादि । जरतीति स्त्रीत्वोक्तिर्युवतेरप्येभिः समासज्ञापनार्थैव । तेन युवजरन्नित्यपि स्यात् । युवतिः खलतिः युवखलतिः । युवपलितेत्यादि । पुंवत्त्वं प्राग्वत् ॥