21060: क्तेन नञ्विशिष्टेनानञ्¶
Padacheda: क्तेन | S | 3 | 1 |
नञ्-विशिष्टेन | S | 3 | 1 |
अनञ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
A word ending with the affix क्त and not having the negative augment नञ् is compounded with the same word ending with the affix क्त but which is distinguished from the former, by having the augment नञ् and the resulting compound is तत्-पुरुष ।
Vasu English Translation¶
A word ending with the affix क्त and not having the negative augment नञ् is compounded with the same word ending with the affix क्त but which is distinguished from the former, by having the augment नञ् and the resulting compound is तत्-पुरुष । Thus कुताकृतं ‘done and not done,’ भुक्ताभुक्तं ‘eaten and not eaten,’ पीतापीतं ‘drunk and not drunk,’ उदितानुदेतं ‘spoken and not spoken.’
The intermediate augment न or the इ, as in the following two examples, do not make the forms dissimilar. अशितानशितेन जीवति क्लिष्टाक्लिशितेन वर्त्तते ॥
Vart:-The compounds कृतापकृत, &c. should also be included.
आकृतिगणोयम्
(1). कृतापकृत. (2). भुक्तविभुक्त. (3). पीतवीपित. (4). गतप्रत्यागत. (5). वातानुयात. (6). क्रयाक्रयिका. (7). पुटापुटिका. (8). फलाफलिका. (9). मानोन्मानिका.
Vart:-The compounds like शाकपार्थिव should also be enumerated, and there is elision of the second member in these compounds. As शाकप्रियः पार्थिवः = शाकपार्थिवः ‘the king beloved by the people of his era.’ i.e., an era making king.
(1). शाकपार्थिव. (2). कुतपसौश्रुत. (3). अजातौल्वलि.
Bhashya¶
क्तेन नञ्ञ्विशिष्टेनानञ्ञ् (408) (232 तत्पुरुषसमाससंज्ञासूत्रम् ॥ 2। 1। 3 आ.9 सू.) (व्याख्याभाष्यम्) (1326 आक्षेपवार्तिकम् ॥ 1 ॥) ॥ नञ्ञ्विशिष्टे समानप्रकृतिग्रहणम् ॥ (व्याख्याभाष्यम्) नञ्ञ्विशिष्टे समानप्रकृतिग्रहणं कर्तव्यम्। इह मा भूत् - सिद्धं चाभुक्तं चेति ॥ (1327 आक्षेपवार्तिकम् ॥ 2 ॥) ॥ अनञ्ञिति च ॥ (व्याख्याभाष्यम्) अनञ्ञिति च प्रतिषेधो वक्तव्यः। इह मा भूत् - कर्तव्यमकृतमिति ॥ (1328 आक्षेपवार्तिकम् ॥ 3 ॥) ॥ नुडिडधिकेन च ॥ (व्याख्याभाष्यम्) नुडिडधिकेन च समासो वक्तव्यः। इहापि यथा स्यात् - अशितानशितेन जीवति। क्लिष्टाक्लिशितेनेति ॥ (अवधारणार्थत्वे प्रथमवार्तिकद्वयप्रत्याख्यानतृतीयवार्तिकावश्यकताभाष्यम्) किमुच्यते समानप्रकृतिग्रहणं कर्तव्यमिति, यदा नञ्ञ्विशिष्टेनेत्युच्यते। न चात्र नञ्ञ्कृत एव विशेषः। किं तर्हि?। प्रकृतिकृतोपि। अयं विशिष्ठशब्दोस्त्येवावधारणे वर्तते। तद्यथा - देवदत्तयज्ञदत्तावाढ्यावभिरूपौ दर्शनीयौ पक्षवन्तौ, देवदत्तस्तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः। स्वाध्यायेनैवेति गम्यते। अन्ये गुणाः समा भवन्ति ॥ अस्त्याधिक्ये वर्तते। तद्यथा - देवदत्तयज्ञदत्तावाढ्यावभिरूपौ दर्शनीयौ पक्षवन्तौ देवदत्तस्तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः स्वाध्यायेनाधिकः। अन्ये गुणा अविवक्षिता भवन्ति ॥ तद्यदा ता वदवधारणे विशिष्टशब्दस्तदा नैवार्थः समानप्रकृतिग्रहणेन, नेह भविष्यति - सिद्धं चाभुक्तं चेति। नाप्यनञ्ञिति प्रतिषेधेन, नेह भविष्यति - कर्तव्यमकृतमिति ॥ नुडिडधिकेनापि तु तदा समासो न प्राप्नोति ॥ (आधिक्यार्थत्वेन प्रथमवार्तिकद्वयावश्यकता तृतीयवार्तिकानावश्यकताभाष्यम्) यदाधिक्ये विशिष्टशब्दस्तदा समानप्रकृतिग्रहणं कर्तव्यमिह माभूत् - सिद्धं चाभुक्तं चेति। अनञ्ञिति च प्रतिषेधो वक्तव्यः। इह मा भूत् - कर्तव्यमकृतमिति ॥ नुडिडधिकेनापि समासः सिद्धो भवति। तत्राधिक्ये विशिष्टशब्दं मत्वा समानप्रकृतिग्रहणं चोद्यते ॥ अवधारणं नञ्ञा चेद् नुडिडि्वशिष्टेन न प्रकल्पेत ॥ अथ चेदधिकविवक्षा, कार्यं तुल्यप्रकृतिकेन ॥ 1 ॥ इति ॥ (न्यूनतापूर्त्यधिकरणम्) (1329 आक्षेपवार्तिकम् ॥ 4 ॥) ॥ कृतापकृतादीनां चोपसंख्यानम् ॥ (व्याख्याभाष्यम्) कृतापकृतादीनां चोपसंख्यानं कर्तव्यम्। कृतापकृतम्। भुक्तविभुक्तम्। पीतविपीतम् ॥ (1330 न्यासान्तरेणाक्षेपबाधकवार्तिकम् ॥ 5 ॥) ॥ सिद्धं तु क्तेन विसमाप्तावनञ्ञ् ॥ (व्याख्याभाष्यम्) सिद्धमेतत्?। कथम्। क्तान्तेन क्रियाविसमाप्तावनञ्ञ् क्तान्तं समस्यत इति वक्तव्यम् ॥ (1331 आक्षेपवार्तिकम् ॥ 6 ॥) ॥ गतप्रत्यागतादीनां चोपसंख्यानम् ॥ (भाष्यम्) गतप्रत्यागतादीनां चोपसंख्यानं कर्तव्यम् ॥ गतप्रत्यागतम्। पातानुपातम्। पुटापुटिका। क्रयाक्रयिका। फलाफलिका। मानोन्मानिका ॥ क्तेन नञ्ञ् ॥ 59 ॥
Kashika¶
नञैव विशेषो यस्य सर्वमन्यत् प्रकृत्यादिकं तुल्यम्, तद् नञ्विशिष्टम्, तेन नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सहानञ् क्तान्तं समस्यते, तत्पुरुषश्च समासो भवति। कृतं च तदकृतं च, कृताकृतम्। भुक्ताभुक्तम्। पीतापीतम्। उदितानुदितम्। नुडिटौ तद्भक्तत्वान्नैव भेदकौ। अशितानशितेन जीवति। क्लिष्टाक्लिशितेन वर्तते॥ कृतापकृतादीनामुपसंख्यानम्॥ कृतापकृतम्। भुक्तविभुक्तम्। पीतविपीतम्। गतप्रत्यागतम्। यातानुयातम्। क्रयाक्रयिका। पुटापुटिका। फलाफलिका। मानोन्मानिका॥ समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च॥ शाकप्रधानः पार्थिवः, शाकपार्थिवः। कुतपसौश्रुतः। अजातौल्वलिः॥
Siddhanta Kaumudi¶
नञ्विशिष्टेन क्तान्तेनानञ् क्तान्तं समस्यते । कृतं च तदकृतं च कृताकृतम् ।<!शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् !> (वार्तिकम्) ॥ शाकप्रियः पार्थिवः शकपार्थिवः । देवब्राह्मणः ॥
Balamanorama¶
क्तेन नञ्विशिष्टेनानञ् - क्तेन नञ्विशिष्टेनानञ् । नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह नञ्रहितं क्तान्तं समस्यते, तत्पुरुष इत्यर्थः । कृतं च तदिति । एकदेशस्य करणात्कृतम्, एकदेशान्तरस्याऽकरणात्तदेवाऽकृतम् । पूर्वनिपातनियमार्थम् । सिद्धं च तदभुक्तं चेत्यत्र तु नायं समासः, विशिष्टशब्दो ह्यत्राधिकवाची । यथादेवदत्ताद्यज्ञदत्तः स्वाध्यायेन विशिष्ट॑ इत्युक्ते अधिक इति गम्यते । नञैव विशिष्टं । नञ्मात्राधिकेन क्तान्तेनेति लभ्यते । एवंच समानप्रकृतिकत्वं क्तान्तयोः पर्यवसन्नमिति बोध्यम् । शाकपार्थिवादीनामिति ।वर्णो वर्णेने॑ति सूत्रभाष्ये इदं वार्तिकं पठितम् । शाकपार्थिव इति । शाकः प्रियो यस्य स शाकप्रियः ।वा प्रियस्ये॑ति प्रियशब्दस्य परनिपातः शाकप्रियश्चासौ पार्थिवश्चेति विग्रहे बहुव्रीहिगर्भो विशेषणसमासः । तत्र पूर्वखण्डे बहुव्रीहौ उत्तरपदस्य प्रियशब्दस्य लोपः । देवब्राआहृण इति । देवाः प्रिया यस्य स देवप्रियः, स चासौ ब्राआहृणश्चेति विग्रहः । पूर्ववदुत्तरपदलोपः । देवपूजको ब्राआहृण इति वा विग्रहः ।
Padamanjari¶
विशिष्टशब्दोऽयमधिके वर्तते, तच्चाधिक्यं क्वचित्सावधारणम्, तद्यथा - देवदतो यज्ञदतात्स्वाध्यायेन विशिष्टः, स्वाध्यायेनैव विशिष्टोऽन्ये गुणाः समा इति गम्यते। क्वचिन्निरवधारणम्, तद्यथा - देवदतो यज्ञदत्स्वाध्यायेन विशिष्टः, स्वाध्यायेन तावद्विशिष्टोऽन्ये गुणाः समा भूयांसो वा नेतन्निरुप्यते। वाक्यस्यैकरूपत्वेऽर्थप्रकरणादिना विशेषणिर्णयः। तत्र निरञ्धारणपक्षे - सिध्दं च तदभक्तं चेत्यत्रापि स्यात्, क्तान्तयोः प्रकृतिभेदेऽपि नव तावधिक इति विशिष्टग्रहणं चानर्थकं स्यात्, क्तेन सनञा नञित्येव वाच्यं स्यात्, अतः सावधारणपक्षमाश्रित्याह - नञैव विशेषो यस्येति। प्रकृत्यादिकमित्यादिशब्देन प्रत्ययोपसर्गयोर्ग्रहणम् तत्र सिध्दं च तदभक्तं चेति प्रकृतिरतुल्या, कर्तव्यमकृतमिति प्रत्ययः, प्रकृतं चानपकृतं चेत्युपसर्गः, एवं च पूर्वपदमपि क्तान्तमेव लभ्यत इत्याह - अनञ्क्तान्तमिति। अनञिति शक्यमकर्तुम्, न हि पूर्वपदे सनञि उतरपदे नञधिको भवति। कृतं च तदकृतं चेति। अवयवधर्मेणायं समुदायस्य व्यपदेशः, एकमेव च वस्त्वेकदेशकरणात्कृतं च भवत्येकदेशाकरणादकृतं चेति नात्र कश्चिद्विरोधः। यदि तर्हि सावधारणपक्ष आश्रीयते, एवं सति यस्य नुडपरो।धिकैडागमे वा, तेन सह समासो न स्यादित्यत आह - नुडिटाविति। नुडिड्ग्रहणमागमोपलक्षणम्, न्यायस्य तुल्यत्वातेनच्छन्नाच्छन्नमिति तुगधिकस्यापि गहणम्। अशितानशितेनेति। ठश भोजनेऽ’तस्मन्नुडचि’ । क्लिष्टाक्लिशितनेति।’क्लिशः क्त्वानिष्ठयोः’ इति पक्षे इट्; तत्र नुट् प्रत्ययान्तभक्तः, इट् प्रत्ययभक्तस्तुक् नञ्भक्त इति सर्वेषामुतरपदेऽन्तर्भावः। इह तु छाताच्छितमिति’शाच्छाएरन्यतरस्याम्’ इतीत्वे कृते नेनाधिक्यात्समासो न प्राप्नोति? अत्र केचिदाहुः - नुडिड्ग्रहण मर्थाभेदकस्य विकारमात्रस्योपलक्षणम्, तेनेहापि समासो भवतीति। त्रातात्राण मर्थाभेदकस्य विकारमात्रस्योपलक्षणम्, तेनेहापि समासो भवतीति। त्रातात्राणमित्यत्र तु निष्ठानत्वस्यासिध्दत्वाद्भेदकत्वाभावः, गौणत्वात्सामानाधिकरण्यस्य पूर्वेण न प्राप्नोतीत्यारम्भः। पूर्वनिपातनियमार्थश्च - कृताकृतमित्येव यथा स्यात्, अकृतमिति मा भूत्। कृतापकृमिति। एकदेशस्येष्टस्य करणादेकदेशस्य चानिष्टस्य करणादेकमववस्तु कृतं भवत्यपकृतं च। भुक्तं च तदत्यवहऋतत्वात्, विभुक्तं चाशोभनत्वाद्भुक्तविभुक्तम्, विशब्दोऽत्रोशोभनत्वं द्योतयति विरूपम्। एवं पीनविपीतम्। गमनमु गतम्, प्रत्यागमनमु प्रत्यागतम्, तत् क्षुण्णभुवा प्रत्यागमनेन सह चरितं गमनं गतप्रत्यागतम्, यातं च तदनुयातं तदानीमेव पुनर्गमनात् यातानुयातम्। क्रयाक्रयिकेति। ठल्पेऽ इति कप्रत्ययः, तदन्तश्च स्वभावात्स्त्रियां वर्तते। क्रयाक्रयिकेति ठन्येपामपि दृश्यतेऽ इति दीर्घः। महान् क्रयः क्रयशब्देनोच्यते गोबलीवर्दन्यायेन। एवं पुटापुटिका, फलाफलिका, मानोन्मानिकेति। शाकपार्थवादीनामिति।’सिध्दये’ इति शेषः। पृथोरपत्यं पार्थवः, केचित्पाथिवेति पठन्ति, पृथिव्या ईश्वरः पार्थिवः,’तस्येश्वरः’ इत्यञ्, तस्याभ्यवहार्येषु शाकं प्रियत्वात्प्रधानम्। तत्र साहचर्यादेव तद्व्यपदेशत्वलाभादुतरपदलोपो न वक्तव्यः। समासस्तु वक्तव्यः, गौणत्वात्सामानाधिकरण्यस्य॥
Nyaas¶
अयं विशिष्टशब्दोऽस्त्येव सावधारण आधिक्ये वर्तमानः। यथा - देवदत्तयज्ञदत्तावाढआवभिरूपौ प्रेक्षावन्तौ। देवदत्तस्तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः; स्वाध्यायेनैवाधिक इति गम्यते। अन्ये तु गुणाः समाना एव भवन्ति। अस्ति च निरवधारण आधिक्ये वर्तमानः, यथा - देवदत्तयज्ञदत्तावाढआविभिरूपौ प्रेक्षावन्तौ। देवदत्तस्तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः, स्वाध्यायेनाधिक इति गम्यते। अन्ये तु गुणाः समाना भूयांसो वा, ते न विवक्षिता भवन्ति। यद्यपि चाभिन्नरूपमेव वाक्यद्वयमेतत्, तथापि प्रकरणादेः कुतश्चिदर्थभेदो गम्यते, यथा - आराच्छब्दे दूरान्तिकार्थभेदः। तत्र यदि निरवधारण आधिक्ये वर्तमानो विशिष्टशब्दो गृह्रेत, तदा सिद्धं च तदभुक्तञ्चेत्यत्रापि स्यात्, अस्त्यत्र नञाधिकं क्तान्तम्। तस्मात् सावधारण आधिक्ये वर्तमानं विशिष्टशब्दं परिगृह्राह - नञैव विशेषो यस्य इत्यादि। प्रकृत्यादिकम् इति। आदिशब्देन प्रत्ययोपसर्गयोः परिग्रहः। अनञ् इति। अविद्यामानो नञ् यस्मिन् क्तान्ते तदनञ्। कृतञ्च तदकृतञ्च इति। कथं पुनरेकमेव वस्तु कृतं स्यादकृतञ्च? अवयवधर्मेण समुदायस्य तथा व्यपदेशाददोषः। कृतभागसम्बन्धात् कृतम्, अकृतभागसम्बन्धात् तदेवाकृतमित्युच्यते। अथ वा- यदर्थं कृतं तत्रासामर्थ्यादकृतम्, यथा - पुत्रकार्यासामर्थ्यात् पुत्रोऽप्यपुत्र इति। यदि नञेव विशेषो यस्य सर्वमन्यत् प्रकृत्यादिकं तुल्यं तेन समासः, एवं सति यस्य नुडप्यधिक इडागमो वा, तेन सह समासो न भवतीत्याह - नुडिटौ इत्यादि। यत्तु नञ्विशिष्टं क्तान्तं तद्भक्तौ नुडिटौ, अतस्तद्ग्रहणेन गृह्रेते, अतो नास्य भेदकौ तौ। अभेदकावित्यर्थः। तेन तदधिकमपि नञ्विशिष्टमेव भवतीति तेन समासो भवत्येव। अशितानशितेन इति। तस्मान्नुडचि (6.3.74) इति नुट्। क्लिष्टाक्लिशितेन ति। क्लिशः क्त्वानिष्ठयोः (7.2.50) इति पक्षे इट्। अनञिचि शक्यमकर्तुम्। यदि स नञ् समस्येत तदा नञ्विशिष्टता नोपपद्यते; द्वोयरपि नञ्सम्बन्धात्। तस्मान्नञ्विशिष्टग्रहणादेवानञ् समस्यत इत्येषोऽर्थो लभ्यत इत्यनञ्ग्रहममनर्थकम्। तत् क्रियते विस्पष्टार्थम्।कृतापकृतादीनाम् इत्यादि। कृतापकृतप्रभृतीनामुपसंख्यानम् = प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् - बहुलग्रहणमिहानुवर्तते, तेन कृतापकृतादीनामपि समासी भवतीति। कृतापकृतम् इति। तदेकदेशस्येष्टस्य करणात् कृतम्। अपकृतञ्च तदेकदशस्यानभिमतस्य करणात्। भुक्तविभुक्तम् इति। भुक्तं त्वभ्यवह्मतत्वात्, विभुक्तञ्चाशोभनत्वात्। विशब्दोऽत्राशोभवत्वं प्रतिपादयति विरूपवत्। अथ वा- भुक्तञ्च तत्प्रत्यागतञ्चेति गतप्रत्यागतम्। यातञ्च तत्पूर्वमनुयातञ्च पश्चात् यातानुयातम्। क्रयाक्रयिका #इति। महान् क्रयः क्रयशब्दोनोच्यते, अल्पस्तु क्रयिकाशब्देन। क्रयावयवसम्बन्धात् क्रयः, क्रयिकावयवसम्बन्धात् क्रयिता, क्रयश्चासौ क्रयिका चेति क्रयाक्रयिका। अन्येषामपि दृश्यते (6.3.137) इति दीर्घः। एवं पुटश्चासौ पुटिका चेति पुटापुटिका। फलञ्च तत् फलिका चेति फलफलिका। मानञ्च तदुन्मानिका चेति मानोन्मानिका। समानाधिकरणाधिकारे इत्यादि। अत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनन्तु पूर्ववदेव॥पूज्यचमानवचनैरिति वचनात् इत्यादि। पूज्यमनत्वं ह्रवमुत्तरपदस्य भवति यदि पूजावचना भवन्ति, नान्यथा; तस्मात् पूज्यमानग्रहणात् सदादयः पूजावचना विज्ञायन्ते। अत एव सच्छब्देन शतृशानचोग्र्रहणं न भवति, न हि तौ पूजामाहतुः। उत्कृष्टा गौः कद्र्दमात् इति। उद्धृतेत्यर्थः। अथ कथं महाद्रुमः, महोदधिरिति समासः, न ह्यत्र पूजा गम्यते, किं तर्हि? प्रमाणातिरेक उत्तरपदार्थस्य? यद्यप्येवम्, तथापि बहुलग्रहणानुवृत्तेर्भविष्यति॥
Prakriyasarvasvam¶
अनञ् क्तान्तं नञ् मात्रविशिष्टेन तेनैव क्तान्तेन समस्यते । कृताकृतम् । भुक्ताभुक्तम् । विकल्पकृतत्वादर्धकृतत्वाद्वैकस्यैव कृतत्वमकृतत्वं च । नुडिटौ तदंशत्वान्न भेदकौ । अशितानाशितेन जीवति । अत्र नञः परस्य नुट् । क्लिष्टा- क्लिशितेन वर्तते । ‘कृतापकृतादीनामुपसंख्यानम् । कृतापकृतभुक्तापभुक्तापीतवि- पीतगतप्रत्यागतयातानुयात्क्रयाक्रयिकापुटापुटिकाफलाफलिकामानोन्मानिकाश्च । ‘भुक्तविसुक्त’मिति वृत्तिपाठः । इष्टानिष्टत्वादेकमेव सम्यक् कृतं चापकृतं च स्यात् । एककालीनत्वादेकमेव गतं च तत् प्रत्यागतं च । एवं तदानीमेव पुनर्गमनात् यातं च तदनुयातं च । अनुः पुनरर्थे । क्रयो महान् क्रयः । अल्पः क्रयः क्रयिका । ‘अन्येषापि दृश्यते’ (६-१-१३७) इति दीर्घः । क्रयाक्रयिका । महाल्परूपः क्रय इत्यर्थः । एवमर्धविवासादिना महाल्परूपं सम्पुटं पुटापुटिका । तथैव बह्वल्परूपं फलं फलाफलिका । क्वचित् परिमाणोन्मानयोरेकेनान्यसिद्धौ मानोन्मानिका । ‘शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च । शाकप्रियः पार्थिवः शाकपार्थिवः । देवपूजको ब्राह्मणो देवब्राह्मणः । शिवब्राह्मणः । सहस्रबाहुरर्जुनः सहस्रार्जुनः । आणिपृष्ठो माण्डव्यः आणिमाण्डव्यः । परशुरामः इत्यादि । पञ्चाधिका दश पञ्चदशेत्यादिसंख्यासु । तथा तृतीयोंऽशस्त्र्यंश इत्यादौ पूरणप्रत्ययलोपो ज्ञेयः ॥
Vartika¶
शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् ।