21053: कुत्सितानि कुत्सनैः

Padacheda: कुत्सितानि | S | 1 | 3 |

कुत्सनैः | S | 3 | 3 |

Sutrartha


Vasu English Summary

Case-inflected words expressing vileness are compounded with case-inflected words, expressing contempt and the resulting compound is तत्-पुरुष ।

Vasu English Translation

Case-inflected words expressing vileness are compounded with case-inflected words, expressing contempt and the resulting compound is तत्-पुरुष । As वैयाकरणसूचि ‘a bad or dull grammarian.’ Here it might be asked is the word व्याकरणं ‘grammar’ a word of contempt, or the word वैयाकरण ‘grammarian’? Neither ‘Grammar’ (it being a part of Vedanga,) nor the person who studies it i.e., the grammarian, can be an object of contempt ordinarily.

The word ‘grammarian’ is, however, the expression of contempt in an indirect way, thus :- The person studying grammar but not studying it well, becomes an object of contempt and such a despicable person becomes also contaminated. The word खसूचि is a term of contempt per se. It literally means, a person who on being asked a question, and not possessing ready wit and intelligence to answer it, scratches his head and contemplates vacancy (खंसूचयति) and tries to divert the questioner’s attention by exclaiming ‘how beautifully clear is the sky,’ such a person is called खसूचिः.

Such compounds are confined to cases where the reason for the use of any particular term is to express contempt with regard to the signification of that term. So we can not form a compound of the sentence वैयाकरणश्चौरः ‘the thief grammarian;’ for, contempt is not expressed with regard to the signification of the word ‘grammarian.’ But when the term ‘grammarian’ itself is used in a contemptuous signification, then a compound will be formed.

This aphorism is commenced in order to introduce an exception to sútra 57, by which an adjective stands as the first member in a compound. By the present sútra, however, the attributive word will stand as the second member.

Other examples of such compounds are: याज्ञिककितवः ‘one who hankers after performing sacrifices for persons for whom one ought not to perform sacrifices’ मीमंसक-दुर्दुरूढः ‘an unbelieving logician,’ ‘an athiest.’

No compound can be formed under this aphorism, if both the words are not used in an opprobatory signification as such. Therefore it is not in the following case. कुत्सितोब्राह्मणः ‘the bad Brahmana’ &c.

Bhashya

कुत्सितानि कुत्सनैः (401) (256 तत्पुरुषसंज्ञासूत्रम् ॥ 2 । 1 । 3 आ.3 सू.) (उदाहरणनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) किमुदाहरणम् ? ॥ (समाधानभाष्यम्) वैयाकरणखसूचिः ॥ (आक्षेपभाष्यम्) किं व्याकरणं कुत्सितम्, आहोस्विद्वैयाकरणः? ॥ (समाधानभाष्यम्) वैयाकरणः कुत्सितः। तस्मिन्कुत्सिते तत्स्थमपि कुत्सितं भवति ॥ कुत्सितानि ॥ 52 ॥

Kashika

कुत्सितवाचीनि सुबन्तानि कुत्सनवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। शब्दप्रवृत्तिनिमित्तकुत्सायामयं समास इष्यते। विशेषणं विशेष्येण० (२.१.५७) इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः। वैयाकरणखसूचिः। निष्प्रतिभ इत्यर्थः। याज्ञिककितवः। अयाज्ययाजनतृष्णापर उच्यते। मीमांसकदुर्दुरूटः नास्तिकः। कुत्सितानीति किम्? वैयाकरणश्चौरः। नह्यत्र वैयाकरणत्वं कुत्स्यते। कुत्सनैरिति किम्? कुत्सितो ब्राह्मणः॥

Siddhanta Kaumudi

कुत्स्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूढः ॥

Balamanorama

कुत्सितानि कुत्सनैः - कुत्सितानि । वर्तमाने क्तः, व्याख्यानात् । तदाह — कुत्स्यमानानीति । कुत्सनैरिति करणे ल्युट् । प्राग्वदिति । समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । वैयाकरणखसूचिरिति । वैयाकरणश्चासौ खसूचिश्चेति विग्रहः । यः प्रक्रियां पृष्टःसन् प्रश्नं विस्मारयितुमाकाशं दर्शयति पश्यति वा स एवमुच्यते । अत्र वैयाकरणः प्रक्रियाविस्मरणान्निन्द्यः । खसूचनं निन्दाहेतुः । मीमांसकदुर्दुरूट इति ।दुल उत्क्षेपे॑चुरादिः दुर्पूर्वादौणादिकाः कूटप्रत्ययः ।बहुलमन्यत्रापी॑ति णेर्लुक् । रलयोरभेदाद्रः । यो मीमांसामधीत्याऽन्यथा जानानो दुराक्षेपं करोति स एवमुच्यते । विशेष्यस्य पूर्वनिपातार्थं सूत्रम् । विशेषणसमासे तु विशेषणस्य पूर्वनिपातः स्यात् ।

Padamanjari

कुत्सितानीति।’कुत्स अवक्षेपणे’ मत्यादिसुत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्वर्तमाने क्तः। बहुवचननिर्देशादुभयत्रार्थग्रहणं न स्वरूपग्रहणमित्याह - कुत्सितवाचीनीति। वैयाकरणखसूचिरिति। सूचयतेः ठिच्चऽ इतीकारः। यः पृष्टः सन् प्रश्नं विस्मारयितुं खं सूचयति उ खं निरीक्षते - अहो निर्मलं गगलमिति, स एवसुच्यते। अत्र व्याकरणस्य वेदाङ्गस्याध्ययनं प्रशस्तमपि प्रतिभानाभावेन निष्फलत्वात्कुत्स्यते। याज्ञिककितव इति। किं तवास्तीति धनमात्रप्रश्नेन जात्यादिनिरपेक्षो द्यौउते प्रवर्तमानः कितवः। इह तु कितव इव कितवः, यो याज्ञिको याज्यस्य धनसतामेवापेक्षते न यागार्हताम्, स याज्ञिककितव इत्युच्यते, तदाह - अयाज्ययाजकस्तृष्णपपर इति। मीमांसकदुर्दुरूट इति।’दुल उत्क्षेपे’ , दुःपुर्वः औणादिकः कूटप्रत्ययः।’बहुलमन्यत्रापि’ इति णिलुक्, लरयोरेकविषयत्वस्मरणाद् दुर्दुरुट इति भवति। वैयाकरणश्चौर इति। कथमेतत्प्रत्युदाहरणम्, यावता चौरतवेन गर्ह्यमाणत्वाद्भवत्येव वैयाकरणकुत्सा, तत्रह - न ह्यत्रेति। प्रत्यासतेः शब्दप्रवृतेः शब्दप्रवृत्तिनिमितकुत्सायां समासेन भवितव्यम्, अत्र च वैयाकरणः कुत्स्यते चौरत्वेन, न तु वैयाकरणत्वम्। कुत्सिनो ब्राह्मण इति। अत्र’विशेषणं विशेष्यण’ इति भवितव्यमेव समासेन। यदि नेष्यते, बहुलग्रहणं शरणम्॥

Nyaas

कुत्सितशब्दोऽयमिह रूढिमाचष्टे। तथा च निष्ठा भूतकालं नोपादत्ते। कुत्सनशब्देन च कुत्साहतुर्धर्मो गृह्रते - कुत्स्यते गह्र्रतेऽनेनेति कृत्वा। बहुवचननिर्देशस्तु स्वरूपविधेर्निरासार्थः। तेन कुत्सितवादिना कुत्सनवचनैः सह समासो विज्ञायते, न तु कुत्सितशब्दस्य कुत्सनशब्देन। अत आह - कुत्सितवाचीनि इत्यादि। शब्दप्रवृत्तिनिमित्तकुत्सायामयं समासो वेदितव्यः। कुतः पुनरेतल्लभ्यते? प्रत्यासत्तेः। शब्दस्य हि प्रवृत्तिनिमित्तं प्रत्यासन्नम्, अतस्तत् कुत्सायामेव समासेन भवितुं युक्तम्। वैयाकरणखसूचिः इति। वैयाकरणश्चासौ खसूचिश्चेति विग्रहः। यः पृष्टः सन् व्याकरणे खमाकाशं सूचयतीति निरीक्षते निष्प्रतिभो भवति स एवमुच्यते। अत्र हि वैयाकरणत्वं वैयाकरणशब्दस्य प्रवृत्तिनिमित्तं तत् कुत्स्यते; तत्पुनः व्याकरणाध्येतृसम्बन्धः, व्याकरणवेदितृसम्बन्धो वा।तेन हि निमित्तेन वैयाकरणशब्दो पुरुषे वर्तते। एवमन्यत्रापि शब्दप्रवृत्तिनिमित्तकुत्सायां समासो वेदितव्यः। याज्ञिककितवः इति। कितव इव कितवः। यथा हि कितवः किं तवास्तीति धनवत्तामात्रमपेक्षमाणो द्यूते प्रवर्तते, न तु तस्य जात्यादिकमपेक्षते; तथा याज्ञिकोऽपि याजने प्रवर्तमानो यस्तृष्णयाऽयाज्यस्य धनवतामात्रमपेक्षते, न तु तस्य यागार्हतां स याज्ञिककितव इत्युच्यते। अत आह- अयाज्ययाजनतृष्णापर उच्यते इति। मीमांसकदुर्दुरूढः इति। मीमांसको मीमांसाध्ययनफलमनवाप्य नास्तिको जात इति प्रतीयते।वैयाकरणश्चौरः इति। ननु चौरत्वेन गह्र्रमाणो वैयाकरणः कुत्सितो भवत्येव। तदभिषायी च वैयाकरणशब्दः। तत्कथमिदं प्रत्युदाहरणमुपपद्यत इत्याह - न ह्यत्र ` इत्यादि। प्रत्यासत्तेर्हि शब्दप्रवृत्तिनिमित्तस्य कुत्सायां ससासेन भवितव्यम्। न चेह वैयाकरणशब्दस्य प्रवृत्तिनिमित्तं कुत्स्यते; यस्माच्चौरोऽपि सम्यक् व्याकरणं वेत्त्यधीते वा। तस्मान्नात्र शब्दप्रवृत्तिनिमित्तं कुत्स्यते, किं तर्हि? यत्र तद्वैयाकरणत्वं वर्तते स कुत्स्यते, वैयाकरणत्वन्तु तस्योपलक्षणमेव केवलम्, योऽसौ वैयाकरणः स चौरः, यथा - यः कम्पते सोऽआत्थ इति। अत्र कम्पनमआत्थस्योपलक्षणम्। `कुत्सितो बाहृणः इति। भवत्यत्र कुत्सितशब्दः कुत्सिताभिधायी। न तु ब्राआहृणशब्दः कुत्सनवचनः॥पापाणकशब्दौ कुत्सनाभिधायिनौ इत्युक्तम्। यद्येवमत्र पूर्वेणैव सिद्धः समासः, किमर्थमिदनुच्यत इत्याशङ्क्याह - तयोः इत्यादि। यदि पूर्वेण स्यात् समासः, ततः कुत्सितशब्दस्य प्रथमानिर्दिष्टत्वात् पूर्वेनिपातः स्यात्, पापापणकशब्दयोस्तु परनिपातः। तस्मात् पूर्वनिपातार्थमिदमारभ्यते। कुत्सितग्रहणं विस्पष्टार्थम्। अन्यथा पूर्वयोगादेव कुत्सित इत्यनुवर्तिष्यत इति तन्न कर्तव्यमेव स्यात्॥

Praudhamanorama

कुत्सितानि कुत्सनैः ॥ कुत्स अवक्षेपणे । मत्यादिसूत्रे चकारस्यानुक्तसमुच्चयाऽर्थत्वाद् वर्तमाने क्त इत्याशयेनाह - कुत्स्यमानानीति । तदर्थकानीत्यर्थः । वैयाकरणखसूचिरिति । सूचयतेरच इः । यः पृष्टः सन् प्रश्नं विस्मारयितुं खं सूचयति- ‘अहो निर्मलं गगनमि’ति, स एवमुच्यते । दुर्दुरूट इति । दुल उत्क्षेपे । दुःपूर्वः । औणादिकः कूटप्रत्ययः । ‘बहुलमन्यत्राऽपी’ति णिलुक् । रलयोरेकविषयत्वस्मरणाद्रः । विशेष्यस्य पूर्वनिपाताऽर्थ सूत्रम् । प्रायेणाग्रेऽप्येवमेव । शब्दप्रवृत्तिनिमित्त- कुत्सायामेवाऽयं, संनिधानात् । तेनेह न - ‘मीमांसको दरिद्रः’ । पूर्वसूत्रेति । पापाणकशब्दौ कुत्सनाऽभिधायिनौ, तयोः पूर्वसूत्रेण समासे सति परनिपातः स्यात् । तस्मात्पूर्वनिपाताऽर्थमिदं सूत्रमिति भावः । लाक्षणिकमिति । अत एव सामानाधिकरण्यात् ‘मृगीव चपला मृगचपला’ इत्यादौ पुंवद्भावः । उत्तरपदोपस्थितश्यामत्वचापलादिद्वारमेवेह सादृश्यं गृह्यते, संनिधानात् । ‘वागर्थाविवे’त्यादावपि हि संनिहितसंपर्कादिद्वारकमेवसादृश्यं प्रतीयते । कथं तर्हि उपमानपरतेति चेत् । भूतपूर्वगत्या शक्याऽर्थमादायेत्यवेहि । सामान्यवचनत्वं चोपमानोपमेयसाधारणधर्मविशिष्टोपमेयपरत्वं बोद्ध्यम् ।

Prakriyasarvasvam

कुत्सितवाचीनि कुत्सनाथैः समस्यन्ते। शाब्दिकखसूचिः। निष्प्रतिभ इत्यर्थः। तेन शाब्दिकत्वं कुत्स्यते । एवं मीमांसकदुर्दुरुटः । नास्तिकार्थोऽयम् । दुर्दुरूट इति दीर्घमाह भोजः। एवं मानुषखेटः। नरापशदः। नराधमः इत्यादि॥