21036: चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः¶
Padacheda: चतुर्थी | S | 1 | 1 |
तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः | S | 3 | 3 |
Sutrartha¶
Vasu English Summary¶
A word ending with the Dative -4th case is compounded with what denotes that which is for the purpose of what ends with the Dative -4th case and so too with the words अर्थ ‘on account of’, बलि ‘a sacrifice’, हित ‘salutary’, सुख ‘pleasure’ and रक्षित ‘kept’ and the resulting compound is तत्-पुरुष ।
Vasu English Translation¶
A word ending with the Dative -4th case is compounded with what denotes that which is for the purpose of what ends with the Dative -4th case and so too with the words अर्थ ‘on account of’, बलि ‘a sacrifice’, हित ‘salutary’, सुख ‘pleasure’ and रक्षित ‘kept’ and the resulting compound is तत्-पुरुष । The words सुप, सुपा are understood in this sutra and the whole sutra qualifies these words.
By the expression तदर्थ ‘for the purpose thereof,’ the special relation of a material and its modification alone is by Patanjali here held to be intended. As यूपाय दारुः = यूपदारुः ‘wood for stake’ (that is wood which by modification will be changed into a stake). कुण्डलहिरण्यं ‘gold for ear-ring.’ But not so here. रन्धनाय स्याली ‘pot for cooking.’ अवहननायोलूखलम् ‘the wood mortar for threshing. From this sûtra we may also infer that the Dative case conveys also the sense of ‘for the purpose thereof.’ The word तदर्थार्थ is taken as one word by some, meaning ‘a thing serviceable thereto.’ See VI.2.44. For accent, see VI.2.45.
Vart:- With the word अर्थ the compound so formed is a Nitya compound (an invariable compound) and agrees in gender with the word which it qualifies; as, ब्राह्मणार्थम् पयः ‘milk for the sake of *Brahmans;’ and ब्राह्मणार्था यवागूः ‘gruel for the Brahmanas.’ So also कुवेरबलिः ‘a sacrifice for *Kuvera_’ महाराजबलिः ‘a sacrifice for the great Raja.’ गोहितं ‘ what is good for cows.’ अश्वहितं ‘what is good for horses’ गोसुखं ‘what is pleasant for cows’ गोरक्षितं ‘what is kept for cows,’ (as grass).
Bhashya¶
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (384) (246 तत्पुरुषसंज्ञासूत्रम् ॥ 2.1.2 आ. 25 ॥ (पाणिनीयन्यासेदूषणाधिकरणम्) (आक्षेपभाष्यम्) किं चतुर्थ्यन्तस्य तदर्थमात्रेण समासो भवति? ॥ (इष्टापत्तिभाष्यम्) एवं भवितुमर्हति ॥ (1266 दूषणवार्तिकम् ॥ 1 ॥) ॥ चतुर्थी तदर्थमात्रेण चेत्सर्वप्रसङ्गोविशेषात् ॥ (व्याख्याभाष्यम्) चतुर्थी तदर्थमात्रेण चेत्सर्वप्रसङ्गः सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण सह समासः प्राप्नोति। अनेनापि प्राप्नोति - रन्धनाय स्थाली अवहननायोलूखलमिति ॥ किं कारणम्?। अविशेषात्। नहि कश्चिद्विशेष उपादीयते - एवंजातीयकस्य चतुर्थ्यन्तस्य तदर्थेन सह समासो भवतीति। अनुपादीयमानविशेषे सर्वप्रसङ्गः ॥ (1267 दूषणवार्तिकम् ॥ 2 ॥) ॥ बलिरक्षिताभ्यां चानर्थकं वचनम् ॥ (व्याख्याभाष्यम्) बलिरक्षिताभ्यां च समासवचनमनर्थकम्। योहि महाराजाय बलिः स महाराजार्थो भवति। तत्र तदर्थ इत्येव सिद्धम् ॥ (पूर्वाचार्यन्यासेदूषणाधिकरणम्) (पूर्वाचार्यन्यासभाष्यम्) यदि पुनर्विकृतिश्चतुर्थ्यन्ता प्रकृत्या सह समस्यते इत्येतल्लक्षणं क्रियते ॥ (1268 दूषणवार्तिकम् ॥ 3 ॥) ॥ विकृतिः प्रकृत्येति चेदश्वघासादीनामुपसंख्यानम् ॥ (व्याख्याभाष्यम्) विकृतिः प्रकृत्या इति चेदश्वघासादीनामुपसंख्यानं कर्तव्यम्। अश्वघासः श्वश्रूसुरं हस्तिविधा इति ॥ (1269 वार्तिकम् ॥ 4 ॥) ॥ अर्थेन नित्यसमासवचनम् ॥ (व्याख्याभाष्यम्) अर्थशब्देन नित्यं समासो वक्तव्यः। ब्राह्मणार्थं क्षत्रियार्थम् ॥ (आक्षेपभाष्यम्) किं विकृतिश्चतुर्थ्यन्ता प्रकृत्या सह समस्यत इत्यतोर्थेन नित्यसमासो वक्तव्यः? ॥ (समाधानभाष्यम्) नेत्याह। सर्वथाऽर्थेन नित्यसमासो वक्तव्यः विग्रहो मा भूदिति ॥ (1270 द्वितीयखण्कडवार्तिकम् ॥ 5 ॥) ॥ सर्वलिङ्गता च ॥ (व्याख्याभाष्यम्) सर्वलिङ्गता च वक्तव्या। ब्राह्मणार्थं पयः ब्राह्मणार्थः सूपः ब्राह्मणार्था यवागूरिति ॥ (आक्षेपभाष्यम्) किमर्थेन नित्यसमास उच्यते इत्यतः सर्वलिङ्गता वक्तव्या? ॥ (समाधानभाष्यम्) नेत्याह। सर्वथा सर्वलिङ्गता वक्तव्या। किं कारणम्?। अर्थशब्दोयं पुल्लिङ्गः, उत्तरपदार्थप्रधानश्च तत्पुरुषः, तेन पुल्लिङ्गस्यैव समासस्याभिधानं स्यात् स्त्रीनपुंसकलिङ्गस्य न स्यात् ॥ (आक्षेपभाष्यम्) तत्तर्हीदं बहु वक्तव्यम्। ।विकृतिः प्रकृत्येति वक्तव्यम् ॥अश्वघासादीनामुपसंख्यानं कर्तव्यम् ॥अर्थेन नित्यसमासो वक्तव्यः सर्वलिङ्गता च वक्तव्या ॥ (समाधानभाष्यम्) न वक्तव्यम्। यत्तावदुच्यते - विकृतिः प्रकृत्येति वक्तव्यम् इति। न वक्तव्यम्। आचार्यप्रवृत्तिर्ज्ञापयति - विकृतिश्चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति। यदयं बलिरक्षितग्रहणं करोति ॥ कथं कृत्वा ज्ञापकम्?। यथाजातीयकानां समासे बलिरक्षितग्रहणेनार्थः तथाजीतीयकानां समासः। यदि च विकृतिश्चतुर्थ्यन्ता प्रकृत्या सह समस्यते न तदर्थमात्रेण। ततो बलिरक्षितग्रहणमर्थवद्भवति ॥ (द्वितीयवार्तिकप्रत्याख्यानभाष्यम्) यदप्युच्यते - अश्वघासादीनामुपसंख्यानं कर्तव्यम् इति ॥ न कर्तव्यम्। अश्वघासादयः षष्ठीसमासा भविष्यन्ति। यद्धि यदर्थं भवति अयमपि तत्राभिसंबन्धो भवति - अस्येदम् इति। तद्यथा - गुरोरिदं - गुर्वर्थमिति ॥ (आक्षेपभाष्यम्) ननु च स्वरे भेदो भवति - चतुर्थीसमासे सति पूर्वपदप्रकृतिस्वरत्वेन भवितव्यम्। षष्ठीसमासे सति पुनरन्तोदात्तत्वेन ॥ (समाधानभाष्यम्) नास्ति भेदः। चतुर्थीसमासेपि सत्यन्तोदात्तत्वेनैव भवितव्यम्। कथम्?। आचार्यप्रवृत्तिर्ज्ञापयति - विकृतिश्चतुर्थ्यन्ता प्रकृतिस्वरा भवति, न चतुर्थीमात्रम् इति। यदयं चतुर्थी तदर्थे अर्थे क्ते च इत्यर्थग्रहणं क्तग्रहणं च करोति ॥ कथं कृत्वा ज्ञापकम्?। यथाजातीयकानां प्रकृतिस्वरत्वेऽर्थग्रहणेन क्तग्रहणेन चार्थः, तथाजातीयकानां प्रकृतिस्वरत्वम्। यदि च विकृतिश्चतुर्थ्यन्ता प्रकृत्या भवति न चतुर्थीमात्रम्, ततोर्थग्रहणं क्तग्रहणं चार्यवद्भवति ॥ (तृतीयवार्तिकप्रत्याख्यानभाष्यम्) यदप्युच्यते - अर्थेन नित्यसमासो वक्तव्यः इति। न वक्तव्यः। सर्थप् प्रत्ययः करिष्यते ॥ किं कृतं भवति? ॥ न चैव हि कदाचित्प्रत्ययेन विग्रहो भवति। अपि च सर्वलिङ्गता सिद्धा भवति ॥ (आक्षेपभाष्यम्) यदि सर्थप् प्रत्ययः क्रियते, इत्संज्ञा न प्राप्नोति ॥ यथापि कथंचिदित्संज्ञा स्यात्, एवमपि श्यर्थं भ्र्वर्थमङ्गस्य इतीयङुवङौ स्याताम् ॥ (समाधानभाष्यम्) एवं तर्हि बहुव्रीहिर्भविष्यति ॥ किं कृतं भवति? भवति वै कश्चिदस्वपदविग्रहो बहुव्रीहिः। तद्यथा - शोभनं मुखमस्याः सुमुखीति ॥ (आक्षेपभाष्यम्) नैवं शक्यम्। इह हि महदर्थमित्यात्त्वकपौ प्रसज्येयाताम्। (समाधानभाष्यम्) एवं तर्हि तदर्थस्योत्तरपदस्यार्थशब्द आदेशः करिष्यते ॥ किं कृतं भवति?। न चैव हि कदाचिदादेशेन विग्रहो भवति। अपि च सर्वलिङ्गता सिद्धा भवति ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? ॥ (समाधानभाष्यम्) न वक्तव्यम्। योगविभागः करिष्यते - चतुर्थी सुबन्तेन सह समस्यते ॥ ततः - तदर्थार्थ तदर्थस्य चोत्तरपदस्यार्थशब्द आदेशो भवति ॥ (आक्षेपभाष्यम्) इहापि तर्हि समासः प्राप्नोति - छात्राय रुचितं छात्राय स्वदितमिति ॥ (समाधानभाष्यम्) आचार्यप्रवृत्तिर्ज्ञापयति - तार्दथ्य या चतुर्थी सा समस्यते, न चतुर्थीमात्रम् इति। यदयं हितसुखग्रहणं करोति ॥ कथं कृत्वा ज्ञापकम्?। यथा जातीयकानां समासे हितसुखग्रहणेनार्थस्तथाजातीयकानां समासः ॥ यदि च तार्दथ्ये या चतुर्थी सा समस्यते, न चतुर्थीमात्रम्; ततो हितसुखग्रहणमर्थवद्भवति ॥ (आक्षेपभाष्यम्) इहापि तदर्थस्योत्तरपदस्यार्थशब्द आदेशः प्राप्नोति - यूपाय दारु यूपदारु ॥ (समाधानभाष्यम्) वा च विधास्यते ॥ (आक्षेपभाष्यम्) इहापि तर्हि विभाषा प्राप्नोति - ब्राह्मणार्थ क्षत्रियार्थमिति ॥ (समाधानभाष्यम्) एवं तर्ह्यचार्यप्रवृत्तिर्ज्ञापयति - प्रकृतिविकृत्योर्यः समासः तत्र तदर्थस्योत्तरपदस्य वाऽर्थशब्द आदेशो भवति अन्यत्र नित्यः, इति। यदयं बलिरक्षितग्रहणं करोति ॥ (आक्षेपभाष्यम्) एवं तर्हि - उदकार्थो वीवधः स्थानिवद्भावादुदभावः प्राप्नोति। तस्मान्नैवं शक्यम्। न चेदेवम्, ।अर्थेन नित्यसमासो वक्तव्यः ॥सर्वलिङ्गता च। ॥ (समाधानभाष्यम्) नैष दोषः। इदं तावदयं प्रष्टव्यः - अथेह ब्राह्मणेभ्यः इति कैषा चतुर्थी? ॥ तार्दथ्य इत्याह ॥ यदि तार्दथ्ये चतुर्थी, अर्थशब्दस्य प्रयोगेण न भवितव्यम् - उक्तार्थानामप्रयोग इति ॥ (आक्षेपभाष्यम्) समासोपि तर्हि न प्राप्नोति ॥ (समाधानभाष्यम्) वचनात्समासो भविष्यति ॥ (चतुर्थवार्तिकप्रत्याख्यानभाष्यम्) यदप्युच्यते - ।सर्वलिङ्गता वक्तव्या। इति ॥ न वक्तव्या। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य ॥ चतुर्थी ॥ 35 ॥
Kashika¶
सुप् सुपेति वर्तते,तस्य विशेषणमेतत्। तदिति सर्वनाम्ना चतुर्थ्यन्तस्यार्थः परामृश्यते। तस्मै इदं तदर्थम्। तदर्थ अर्थ बलि हित सुख रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति। तदर्थेन प्रकृतिविकारभावे समासोऽयमिष्यते। यूपाय दारु, यूपदारु। कुण्डलाय हिरण्यम्, कुण्डलहिरण्यम्। इह न भवति — रन्धनाय स्थाली, अवहन — नायोलूखलमिति। चतुर्थी चास्मादेव ज्ञापकात् तादर्थ्ये भवति॥ अर्थेन नित्यसमासवचनं सर्वलिङ्गता च वक्तव्या॥ ब्राह्मणार्थं पयः। ब्राह्मणार्था यवागूः। बलि — कुबेराय बलिः, कुबेरबलिः। महाराजबलिः। हित — गोहितम्। अश्वहितम्। सुख — गोसुखम्। अश्वसुखम्। रक्षित — गोरक्षितम्। अश्वरक्षितम्॥
Siddhanta Kaumudi¶
चतुर्थ्यन्तार्थाय यत्तद्वाचिनाऽर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते । बलिरक्षितग्रहणाज्ज्ञापकात् । यूपाय दारु यूपदारु । नेह । रन्धनाय स्थाली । अश्वघासादयस्तु षष्ठी समासाः ।<!अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् !> (वार्तिकम्) ॥ द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् ॥
Laghu Siddhanta Kaumudi¶
चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यंन्तं वा प्राग्वत्। यूपाय दारु यूपदारु। तदर्थेन प्रकृतिविकृतिभाव एवेष्टः (वार्त्तिकम्) । तेनेह न - रन्धनाय स्थाली। अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् (वार्त्तिकम्)। द्विजार्थः सूपः। द्विजार्था यवागूः। द्विजार्थं पयः। भूतबलिः। गोहितम्। गोसुखम्। गोरक्षितम्॥
Tattvabodhini¶
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः - चतुर्थी तदथार्थ । तच्छब्देन प्रकृता चतुर्थी परामृश्यते, प्रत्ययग्रहमम्, चतुथ्र्यन्तेन सामर्थ्यात्तदर्थो लक्ष्यते इत्याशयेनाह — चतुथ्र्यन्तार्थय यदिति । चतुथ्र्यन्तवाच्याय यूपाय यद्दार्वादि, तद्वाचिना चतुथ्र्यन्तं समस्यत इत्यर्थः । बलिरक्षितग्रहणादिति । हितसुखग्रहणं तु न ज्ञापकं, तग्योगे चतुर्थी चाशिषीत्यतादर्थ्येऽपि चतुर्थीसमभवादिति भावः । ननुचतुर्थी चाशिषी॑ति वहिता या चतुर्थी तदन्तस्य समासो न भवति, समासादाशिषोऽनवगमादिति केचिदाहुरिति कैयटेनोक्तम् ।ततश्च तत्पक्षे हितसुखग्रहणमपि बलुरक्षितग्रहणवज्ज्ञापकमेवेति चेत्, अत्र नव्याः — ॒ब्राआहृणहितम् । गोहितम् । गोसुखमित्यतादथ्र्यचतुथ्र्यन्तेनापि समा४सः स्वीक्रियते । सा चाऽतादथ्र्यचतुर्थीहितयोगे चे॑ति वार्तिकाचतुर्थी तदर्थे॑ त्यादिना हितसुओखशब्दाभ्यां समासविधानज्ज्ञापकाद्वा सम्भवतीति हितसुखग्रहणं न ज्ञापकमिति सम्यगेवेत्याहुः । यूपायेति । तादर्थ्ये चतुर्थी । एवमग्रेऽपि यथासंभवमूह्रम् । अआघासादय इति । एतच्च भाष्यकृतोक्तम् । नन्वेवंरन्धनाय स्थाली॑ त्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृति विकृतिभाव एवेति नियमो निष्पल एव । न च स्वरे विशेषः,चतुर्थी तदर्थे॑इति पूर्वपदकृतिस्वरस्यापि प्रकृति विकृतभाव एवेष्यमाणत्वात् । अत्राहुः — ॒संबन्धत्वातादथ्र्यकृतवैलक्षण्येनोक्तनियमसाफल्यान्न दोषः । अत्र च मानमेतदेव भाष्यम् ।न माषाणामश्रीयात्,दाशरथाय मैथिली॑त्यादिप्रयोगा अपीत्थमेव विवक्षाभेदेन निर्वाह्राः । एवंचपूर्वसदृशे॑ति सूत्रे सदृशग्रहणं व्यर्थमिति कैयटहरदत्तादीनामुक्तिः प्रामादिकीत्यवधेयम् । शाब्दबोधकृतवैलक्षण्यस्य तत्रापि सत्त्वादिति ।अर्थे नित्यसमासो विश्षेयलिङ्गता चेति वक्तव्यम् । अर्थेन नित्येति । अन्यथा विभाषाधिकारात्पक्षेद्विजायार्थ॑इति प्रयोगः स्यादिति भावः । विशेष्यलिङ्गता चेति । वचनाऽभावे त्वर्थशब्दस्य नित्यपुंस्त्वात्परवल्लिङ्ग॑मिति सर्वत्र पुंलिङ्गप्रयोग एव स्यादिति भावः ।
Padamanjari¶
अर्थः पराभृश्यत इति। यद्यपि चतुर्थीति चतुर्थ्यन्तः शब्दः सन्निहितः, तथापि शब्दं प्रति तादर्थ्यासम्भावातदर्थ एव परामृश्यते इत्यर्थः। इत्येतैः शब्दैः सहेति। तत्र तदर्थेन सुबन्तेनेत्यर्थध्दरकं विशेषमम्, स्वरूपेण सुबन्तस्य तादर्थ्यासम्भवात्। द्वितीयस्त्वर्थशब्दः पृथगेव निभतम्। प्रकृतिविकारभावे समास इष्यत इति। ज्ञापकात्। यदयं बलिरक्षितग्रहणं करोति तज्ज्ञापयति - विकृतिश्चतुर्थ्यन्ता प्रकृत्या समस्यत इति; अन्यथा कुबेरबलिः, गोरक्षितमित्यत्रापि तादर्थ्यसम्भवादनर्थकं तत्स्यात्। हितसुखग्रहणं तु’हितयोगे चतुर्थी वक्तव्या’ ,’चतुर्थी चाशिषि’ इत्यतादर्थ्येऽपि चतुर्थीसम्भवान्न ज्ञापकम्। यदि विकृतिः प्रकृत्या समस्यते - अश्वेभ्यो घासः, अश्वेभ्यः सुरा ऽश्वसुरम्,’विभाषासेना’ इति नपुंसकत्वम्, हस्तिभ्यो विधा हस्तिविधा, विधा उ अन्नविशेषः; अत्र न प्राप्नोति? अश्वघासादयः षष्ठीसमासा भविष्यन्ति। ननु स्वरे विशेषो भवति चतुर्थीसमासे हि सति’चतुर्थी तदर्थ’ इति पूर्वपदप्रकृतिस्वरेण भाव्यम्, षष्ठीसमासे तु समासान्तोदातत्वेन? नैषोऽस्ति विशेषः; चतुर्थीसमासेऽपि नैव पूर्वपदप्रकृति स्वरेण भाव्यम्; ज्ञापकात्, यदयं’क्ते च’ इति चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवतित्याह, तज्ज्ञापयति - प्रकृतिविकारभावाभाव एष स्वरो न भवतीति; अन्यथा गोरक्षितमित्यत्रापि’चतुर्थी तदर्थ’ इत्येव सिध्देरनर्थकं तत्स्यात्। नैतदस्ति ज्ञापकम्; हितार्थमेतत्स्यात् - गोहितमित्यत्र हि तादर्थ्यं नास्ति। एवमपि’हिते च’ इति वक्तव्ये’क्ते च’ इति साम्न्यवचनं ज्ञापकमेव, सर्वथा कुबेरवलिरित्याद ऐ मा भूदित्येवमर्थ प्रकृतिविकारभावे स्वर एषितव्यः। अथ रन्धनाय स्थालीत्यत्र षष्ठीसमासः कस्मान्न भवति? कश्चिदाह भवत्येव, तद्यथा - गोग्रासः, लालाम्बुजम्, क्रीडासरः, वासभवनम्, नाट।ल्शालेति। अपर आह - रन्धनस्थाल्यादयोऽनभिधानात् षष्ठीसमास न भवन्तीति। उभावपि प्रतिब्रूमः येषु षष्ठीसमास इष्यते तेषु चतुर्थीसमास एवास्तु, येषु तु नेष्यते तेषु तु चतुर्थीसमास एवानभिधानान्नेष्यताम्, माकारिज्ञापनार्थं बलिरक्षितग्रहणम्, स्वरस्तु चतुर्थीसमासेऽपि पूर्वोक्तेन प्रकारेण प्रकृतिविकारभाव एव व्यवस्थास्यते। किं चैवं सति सूत्रेमेवैतदनर्थकम्, यूपदार्वादावपि षष्ठीसमास एवास्तु,’चतुर्थी तदर्थ’ इत्येततु’षष्ठी तदर्थ’ इति क्रियताम्, ज्ञापकाच्च स्वरस्य व्यवस्था क्रियत्म्। नन्वर्थभेद। भवति-षष्ठीसमासे सम्बन्धमात्रं गम्यते, चतुर्थीसमासे तु तादर्थ्यं सम्बन्धविशेषः? नैषोऽस्ति विशेषः, आरभ्यमाणेऽपि चतुर्थीसमासे न दण्डवारित- षष्ठीसमासः, तत्रार्थप्रकरणादिना विशेषोऽवसेयः। यद्येवम्, केवलेऽपि षष्ठीसमासे तथा विशेषोऽवसंस्यते, किञ्च सिध्दन्तेऽश्ववघासादिषु तावदर्थप्रकरणादिना तादर्थ्यविसायः सर्वत्रैव तथास्तु, नार्थौऽनेन? उच्यते-हितशब्देन तावत्षष्ठीसमासो न भवति; तद्योगे चतुर्त्या नित्यत्वादिति चतुर्थीसमास एव वक्तव्यः। ततश्च’क्ते च’ इत्यत्रापि चतुर्थीग्रहणं कर्तव्यं गोहितमित्याद्यर्थम्। एवं च गोरक्षितमित्यत्र न स्यात्, चतुर्थ्या असम्भवात्।’षष्ठी तदर्थ’ इत्यस्य चाप्रसङ्गः, प्रकृतिविकाराभावादिति रक्षितेनापि चतुर्थीसमास एव विधेयः। अर्थशब्देनापि योगे तादर्थ्यसंबव्धविशेषस्यनियमेन प्रतीयमानत्वाच्चतुर्थ्या सम्भवितव्यमिति नेनापि चतुर्थीसमास एव चर्तव्यः। बलिसुखग्रहणमपि कर्तव्यम्, तादर्थ्यस्य समासे नियमेन प्रतीतिर्यथा समयादित्येवमर्थम्। तस्मादारव्धव्यमेव सूत्रम्। प्रकृतिव्कारभाव एव समास इत्यस्य तु प्रयोजनं चिन्त्यम्। अर्थेन नित्यसमासवचनमिति। अन्था महाविभाषाधिकाराद् ब्राह्मणायार्थ इति वाक्यमपि स्यात्। सर्वेलिङ्गता चेति। परलिङ्गताया अपवादः, अभिदेयवशेन च सर्वलिङ्गता न सर्वत्रेति दर्शयति। ब्राह्मणार्थे पय इत्यादि। सर्थबिति चेत्, इत्संज्ञाभावः, इयणुवङ्प्रसङ्श्च। स्यादेतत् - तदर्थं विकृतेः प्रकृतावित्यत्र तदर्थे सर्थविति सूत्रं कर्तव्यम्, चतुर्थी वर्तते, चतुर्थसिमर्थातदर्थेऽभिधेये सर्थप्प्रत्ययो भवति, सकारः पदसंज्ञार्थः - राजार्थः, गवार्थः, पित्वादनुदातत्वम्; एवं चार्थ इति पूर्वपदप्रकृतिस्वरो न विधेयः, प्रत्ययत्वाच्च न तेन विग्रहः, तध्दितत्वाच्चाभिधेयवल्लिङ्गता सिध्द्यतीति? तन्न; सकारस्येत्संज्ञाभावप्रसङ्गात्। अथ ठादिर्ञिटुअडवःऽ’षः प्रत्ययस्य’ इति द्विषकारकनिर्देशाश्रयणेनेत्संज्ञा स्याद्? एवमपि वुञ्च्छणादिषु तृणादिभ्यः से प्रसङ्गः, र्श्यर्थम् भ्वर्थमित्यत्र चेयणुवङै स्याताम्, बहुव्रीहावात्वकपोः प्रसङ्गः। स्यैदेतत् - यद्ब्राह्मणार्थः पयस्तस्य ब्राह्मणोऽर्थः प्रयोजक इति शक्यते वक्तुम्, अतो ब्राह्मणोऽर्थोऽस्येति विगृह्य बहुव्रीहिः करिष्यते, तेन चतुर्थ्यन्तेन । विग्रहाभावः पूर्वपदप्रकृतिस्वरत्वमभिधेयवन्नङ्गता च सिध्द्यतीति? तन्न; महदर्थमित्यत्रत्वकपोः प्रसङ्गात्। तदर्थस्यार्थादेश उदभावप्रसङ्गः। स्यादेतत् -‘चतुर्थी तदर्थ’ इत्यनेन समासं विधायार्थ इत्यनेनाशेन तदर्थवाचन उतरपदस्यार्थशब्द आदेशो विधीयते, विभाषाधिकाराच्च यूपार्थं दारु यूपदार्वितुयभयं भाविष्यति, ततो बलिरक्षितयोरपि विभाषार्थशब्द आदेशो भवति कुबेरार्थो बलिः कुबेरबलिरित्यादि। किमर्थमिदम्, पूर्वेणैव सिध्दम्? ज्ञापकार्थम्, एतज् ज्ञापयति - प्रकृतिविकाराभावादन्यत्र नित्योऽर्थादेश इति। तेन रन्धनार्था स्थालीत्यादि भवति, न तु रन्धनस्थालीत्यादि। अश्वघासादयस्तु पूर्ववत्। अत्र समासे कृते उतरपदस्य विधीयमानेनार्थशब्देन विग्रहो न भविष्यति, यस्यावस्थानेऽर्थादेशस्तल्लिङ्गता स्थानिवद्भाधेन भविष्यति, अर्त इति पूर्वप्रदप्रकृतिस्वरस्तु विधेय एवेति, तन्न; उदकार्थो वीवध इति वीवधशब्दस्यार्थादेशे कृते स्थानिवद्भावेन मन्थौदनादिसूत्रेणोदभावप्रसङ्गात्। अतश्चतुर्थीसमास एव विधयः। तथा चार्तेन नित्यसमासः सर्वलिङ्गता च वक्तव्या? न वक्तव्या, ब्राह्मणायेति चतुर्थ्या तादर्थ्यस्योक्तत्वादर्थशब्देन विग्ररो न भविष्यति।’लिङ्गमशैष्यं लोकाश्रयत्वाल्लिङ्गस्य’ इति कर्वलिङ्गता च सिध्दा। तदेतत्प्रतिपद्यन्तां भाष्ये कृतपरिश्रमाः। नान्ये सहस्त्रमप्यन्धाः सूर्यं पश्यन्ति नाञ्जसा॥
Nyaas¶
तदर्थेन इत्यादि। यदि तादथ्र्यमात्रे समासः स्यात्, बलिरक्षितग्रहणमनर्थकं स्यात्। तथा हि - कुबेरबलिः,गोरक्षितमित्यत्रापि तादथ्र्यं गम्यतत एव। तसमाद्बलिरक्षितग्रहणाल्लिङ्गात् तादर्थ्ये प्रकृतिविकारभावे समासो भवति इति विज्ञायते। ननु च सम्प्रदाने चतुथ्र्यर्थं बलिरक्षितग्रहणं स्यात्, नैतदस्ति; ददातिकर्मणा हि अभिप्रेयमाणस्य क्रियया वा सम्प्रदानसंज्ञेष्यते, न चेह ददातिकर्मणा क्रियया वाऽभिप्रेयमाणताऽस्ति, तत्कुतः सम्प्रदाने चतुर्थी? केन पुनस्तादर्थ्ये चतुर्थी भवतीत्याह - अस्मादेव इत्यादि। यदि तादर्थ्ये चतुर्थी न स्यात्, तदा तदर्थग्रहणमनर्थकं स्यात्। तस्माद्यदेतत्, तदर्थेन चतुथ्र्यन्तस्य समासविधानं तदेव ज्ञापकम् - तादर्थ्ये चतुर्थी भवतीति।अर्थेन इत्यादि। कर्तव्यमिति शेषः। नित्यसमास उच्यते = कथ्यते, येन तन्नित्यसमासवचनं व्याख्यातव्यम्। एतदुक्तं भवति - येनार्थशब्देन नित्यसमासः प्रत्याय्यते तद्वयाख्यानं कर्तव्यमिति। तत्रेदं व्याख्यानम् - विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनार्थशब्देन नित्यसमासो भविष्यति, सर्वलिङ्गता चेति। परवल्ललिङ्गं द्वन्द्वतत्पुरुषयोः (2.4.26) इति परवल्लिङ्गतायां प्राप्तायां सर्वलिङ्गता विधीयते। एषा तु लोकाश्रयत्वाल्लिङ्गस्येति सिद्धा। अथ वा - बहुलग्रहणानुवृत्तेः सर्वमेतत् सिद्धम्। गोहितम्, गोसुखमिति चतुर्थी चाशिष्यायुष्य (2.3.73) इत्यादिना चतुर्थी। हितयोगे त्वनाशिष्यपि चतुर्थी भवति। तथा हि वक्ष्यति - हितयोगे चतुर्थी वक्तव्या (वा। 123) इति।
Vartika¶
अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् ।
Sutra Prayogas¶
त्यागाय (रघुवंशम्): चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति तादर्थ्ये चतुर्थी।
भूत्यर्थं (रघुवंशम्): अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या इति वार्तिकेन नित्यसमासः।
विविधकामहिता (किरातार्जुनीयम्): चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति समासः।