21030: तृतीया तत्कृतार्थेन गुणवचनेन¶
Padacheda: तृतीया | S | 1 | 1 |
तत्कृत-अर्थेन | S | 3 | 1 |
गुण-वचनेन | S | 3 | 1 |
Sutrartha¶
Vasu English Summary¶
A word ending with the Instrumental -3rd case-affix is optionally compounded with what denotes quality, the quality being that which is instrumentally caused by the thing signified by what ends with the 3rd case-affix and with the word अर्थ ‘wealth’ and the resulting compound is तत्-पुरुष ।
Vasu English Translation¶
A word ending with the Instrumental -3rd case-affix is optionally compounded with what denotes quality, the quality being that which is instrumentally caused by the thing signified by what ends with the 3rd case-affix and with the word अर्थ ‘wealth’ and the resulting compound is तत्-पुरुष । The words सुप्, सुपा are understood here: and the whole of this sutra is an epithet of those words. A noun in the instrumental case is compounded with a word expressing quality, and with the word अर्थः provided that the word expressing quality is itself the result produced by the sense of the word in the instrumental case शङ्कुलयाखण्डः शङ्कुलाखण्डः ‘cut by nipper’ किरिकाणः ‘made blind of one eye by a hog’ धान्यार्थः ‘wealth acquired by grain.’ For accent of these words see (6.2.2)
Why do we say ‘when caused by the word in the instrumental case’? Observe अक्ष्णा काणः ‘blind of one eye.’ Here अक्ष्णा in the 3rd case is not the instrumental cause that produced blindness and hence no compounding.
Why do we say ‘a word expressing quality ?’ Observe :- गोभिर्वपावान् ‘sowing with the cows.’ Here though ‘sowing’ is instrumentally caused by the Cows, yet it does not qualify cows but the sower, and hence no compounding.
Guna-vachanas are those words which, not being words formed by primary or secondary affixes, or other words entitled to the name of samkhya, or sarvanama, or jati, or compound words, are words denoting qualities and capable of being used as adjectives qualifying substantives.
Bhashya¶
तृतीया तत्कृतार्थेन गुणवचनेन (378) (250 तत्पुरुषसंज्ञासूत्रम् ॥ 2.1.2 आ.19) (तत्कृतार्थग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) तत्कृतार्थेनेति किमर्थम्? ॥ (समाधानभाष्यम्) दध्ना पटुः। घृतेन पटुः ॥ (समाधानबाधकभाष्यम्) नैतदस्ति। असार्मथ्यादत्र न भविष्यति ॥ कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति। नहि दध्नः पटुना सामर्थ्यम् ॥ केन तर्हि?। भुजिना। दध्ना भुङ्क्ते पटुरिति ॥ (समाधानसाधकभाष्यम्) इहापि तर्हि न प्राप्नोति - शङ्कुलाखण्डः किरिकाण इति। अत्रापि न शङ्कुलायाः खण्डेन सामर्थ्यम् ॥ केन तर्हि?। करोतिना। शङ्कुलया कृतः खण्ड इति ॥ (समाधानबाधकभाष्यम्) वचनाद्भविष्यति ॥ (समाधानसाधकभाष्यम्) इहापि तर्हि वचनात्प्राप्नोति - दध्ना पटुः घृतेन पटुरिति। तस्मात्तत्कृतार्थग्रहणं कर्तव्यम् ॥ (गुणवचनग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) गुणवचनेनेति किमर्थम्? ॥ (समाधानभाष्यम्) गोभिर्वपावान्। धान्येन धनवान् ॥ (आक्षेपभाष्यम्) किं पुनरिहोदाहरणम्? ॥ (समाधानभाष्यम्) शङ्कलाखण्डो देवदत्त इति ॥ (आक्षेपभाष्यम्) कथं पुनर्गुणवचनेन समास उच्यमानो द्रव्यवचनेन स्यात्? ॥ (समाधानभाष्यम्) इह तृतीया तत्कृतार्थेन गुणेन इतीयता सिद्धम्। सोयमेवं सिद्धे सति यद्वचनग्रहणं करोति तस्यैतत्प्रयोजनम् - एवं यथा विज्ञायेत - गुणमुक्तवता गुणवचनेन इति ॥ (आक्षेपभाष्यम्) कथं पुनरयं गुणवचनः सन् द्रव्यवचनः संपद्यते? ॥ (समाधानभाष्यम्) आरभ्यते तत्र मतुब्लोपः - ।गुणवचनेभ्यो मतुपो लुग्। इति। तद्यथा - शुक्लगुणः शुक्लः, कृष्णगुणः कृष्णः। एवं खण्डगुणः खण्डः ॥ (लाघवभाष्यम्) यद्येवं, नार्थस्तत्कृतार्थग्रहणेन। भवति हि शङ्कुलायाः खण्डेन सामर्थ्यम्। असार्मथ्याच्चात्र न भविष्यति दध्ना पटुर्घृतेनं पटुरिति। तस्मान्नार्थस्तत्कृतार्थग्रहणेन ॥ (अर्थपदस्य शब्दपरत्वाधिकरणम्) (1253 आक्षेपवार्तिकम् ॥ 1 ॥) ॥ तृतीयासमासेर्थग्रहणमनर्थकमर्थगतिर्ह्यवचनात् ॥ (व्याख्याभाष्यम्) तृतीयासमासेऽर्थग्रहणमनर्थकम् ॥ किं कारणम्?। अर्थगतिर्ह्यवचनात्। अन्तरेणापि वचनमर्थगतिर्भविष्यति ॥ (1254 आक्षेपसाधकवार्तिकम् ॥ 2 ॥) ॥ निर्देश्यमिति चेत् तृतीयार्थनिर्देशोपि ॥ (व्याख्याभाष्यम्) अथैवमपि निर्देशः कर्तव्य इति चेत् तृतीयार्थनिर्देशोपि कर्तव्यः स्यात् - तृतीया तदर्थकृतार्थेन इति वक्तव्यम् ॥ (तटस्थाक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्?। (सिद्धान्तिसमाधानभाष्यम्) न वक्तव्यम् ॥ नायमर्थनिर्देशः ॥ किं तर्हि?। योगाङ्गमिदं निर्दिश्यते। सति च योगाङ्गे योगविभागः करिष्यते - तृतीया तत्कृतेन गुणवचनेन समस्यते ॥ ततः - अर्थेन अर्थशब्देन च तृतीया समस्यते। धान्यार्थः वसनार्थः हिरण्यार्थः। पूर्वसदृशसमोनार्थ इत्यर्थग्रहणं न कर्तव्यं भवतीति ॥ तृतीया ॥ 29 ॥
Kashika¶
सुप् सुपेति वर्तते, तस्य विशेषणमेतत्। तृतीयान्तं सुबन्तं गुणवचनेनार्थशब्देन च सह समस्यते, तत्पुरुषश्च समासो भवति। कीदृशेन गुणवचनेन? तत्कृतेन तदर्थकृतेन, तृतीयान्तार्थकृतेनेति यावत्। शङ्कुलया खण्डः, शङ्कुलाखण्डः। किरिणा काणः, किरिकाणः। अर्थशब्देन — धान्येनार्थः, धान्यार्थः। तत्कृतेनेति किम्? अक्ष्णा काणः। गुणवचनेनेति किम्? गोभिर्वपावान्॥
Siddhanta Kaumudi¶
तत्कृतेति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थो धान्यार्थः । तत्कृतेति किम् । अक्ष्णा काणः ॥
Laghu Siddhanta Kaumudi¶
तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह वा प्राग्वत्। शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थो धान्यार्थः। तत्कृतेति किम्? अक्ष्णा काणः॥
Balamanorama¶
तृतीया तत्कृतार्थेन गुणवचनेन - तृतीया तत्कृत । तत्कृतेत्यस्याऽव्यवहितमप्यर्थेनेति परित्यज्य गुणवचनेनेत्यत्रान्वयं वक्तुमाह — तत्कृतेति लुप्ततृतीयाकमिति । तत्रतृतीये॑त्यनेन तृतीयान्तं विवक्षितम् ।तत्कृते॑ति लुप्ततृतीयाकं भिन्नं पदम् । तच्छब्देन तृतीयान्तपरामर्शिना तदर्थो लक्ष्यते । तत्कृतेत्येतच्च गुणद्वारा गुणवचनेऽन्वेति । ततश्चतृतीयान्तं तृतीयान्तार्थकृतो यो गुणस्तद्वाचिना समस्यते॑अर्थशब्देन च तृतीयान्तं समस्येति॑ इति वाक्यद्वयं संपद्यत इति भाष्ये स्थितत् । तदाह — तृतीयान्तमित्यादिना ।गुणे॑त्यस्य तत्कृतत्वसापेक्षत्वेऽपि सौत्रः समासः । इदं सूत्रं कृतशब्दार्थद्वारक एव सामर्थ्ये प्रवर्तते न तु साक्षात्परस्परान्वये इति भाष्ये स्पष्टम् । नचघृतेन पाटव॑मित्यत्रातिप्रसङ्गः शङ्क्यः । गुणेनेति सिद्धे वचनग्रहणाद्गुणोपसर्जनद्रव्यवाचिशब्दो गृह्रत॑ इति व्याख्यानात् । शङ्कुलाखण्ड इति । ‘देवदत्त’ इति शेषः ।शह्कुलाखण्डो देवदत्तः॑ इत्येव भाष्ये उदाहृतम् ।खडि भेदने॑भावे घञ् । खण्डनं खण्डः । मत्वर्थीयोऽर्वाअद्यच् । शङ्कुलयेति करणे तृतीया । शङ्कुलाकृतखण्डनक्रियावानित्यर्थः । यत्त्वाकडारादिति सूत्रभाष्येसमासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दस्वरूपं गुणवचनसंज्ञं भवती॑त्युक्त, तदेतत्प्रकृते न प्रवर्तते ।गुणमुक्तवता गुणवचनेने॑ति भाष्येण यौगिकत्वावगमात् । अतोऽत्र गुणशब्देन धर्ममात्रं विवक्षितम् । एवञ्च खण्डशब्दस्य क्रियावचनत्वेऽपि न क्षतिः । तत्त्वबोधिन्यां तदुवोतो गुणवचना॑दित्यत्रसत्त्वे निविशतेऽपैती॑त्यादिलक्षणलक्षितो गुणोऽत्र गृह्रत इत्युक्तम् । तद्व्याख्यावसरे क्रियाया गुणत्वं नास्तीत्यप्युक्तम् । इह तु खण्डशब्दस्य क्रियावाचिनोऽपि गुणवचनत्वमास्थितम् । तत्तु प्रकृतसूत्रस्थभाष्यविरुद्धत्वात्पूर्वोत्तरविरुद्धत्वाच्चोपेक्ष्यम् । अर्थशब्देन समासमुदाहरति — धान्येनेति । अर्थशब्दो धनपरः । हेतौ तृतीया । धान्यहेतुकं धनमित्यर्थः । अत्र धनस्य धान्यहेतुकत्वेऽपि तत्करणकत्वाऽभावदप्राप्तौ पृथगुक्तिः ।धान्येनेति प्रकृत्यादित्वात्तृतीया, धान्याऽभिन्नं धनमित्यर्थ॑ इति केचित् । ननु ‘शङ्कुलया खण्ड’ इत्यत्रकर्तृकरणे कृता बहुल॑मित्येव सिद्धे तत्कृतेति व्यर्थमिति पृच्छति-तत्कृतेति किमिति ।गुणवचनेन चेत्तत्कृतेनैवे॑ति नियमार्थं तत्कृतग्रहणमित्यभिप्रेत्य प्रत्युदाहरति — अक्ष्णा काण इति । नह्रक्ष्णा काणत्वं कृतं, किन्तु रोगादिनेति भावः । गुणवचनेनेति किम् । गोभिर्वपावान् । गोसम्बन्धिक्षीरादिभोजनेन देवदत्तस्य वपावत्त्वमित्यस्ति तत्कृतत्वम् । किन्तु न गुणवचनोऽसौ ।
Tattvabodhini¶
तृतीया तत्कृतार्थेन गुणवचनेन - तृतीया तत्कृत । लुप्तेति । सौत्रत्वादिति भावः । तच्छब्देन तृतीयान्तपरामर्शिना तदर्थो लक्ष्यते । तदर्थकृतत्वं च गुणवाचकस्यार्थद्वारा विशेषणं — तृतीयान्तार्थकृतो यो गुणस्तद्वचनेनेति । तदेतव्द्याचष्टे — तृतीयान्तार्थेत्यादिनाष । अर्थशब्देन चेति । सोऽपि स्वतन्त्रं निमित्तमिति भावः । नन्वर्थेन समासाऽसंभवात्तद्वाची शब्दो ग्रहीष्यते किमत्र वचनग्रहणेन । अत्राहुः — गुणमुत्तवान्गुणवचनः ।कृत्यल्युटो बहुल॑ मिति भूते कर्तरि ल्युट् । गुणमुक्त्वा यो द्रव्यमुक्तवान्स गुणवचनस्तेन घृतेन पाटवमिति गुणमात्रनिष्टेन शब्देन समासो न भवति । गुणश्चात्रसत्त्वे निविशतेऽपैति॑ इत्यादिलक्षतो गृह्रते न तु प्रवृत्तिनिमित्तं घटत्वादिः, त ।]तस्य तत्त्वाऽसंभवादिति । शङ्कुलया खण्ड इति । करणेऽत्र तृतीया ।खडि भेदने॑ इत्यस्माद्भावे घञि व्युत्पादितः खण्डश्बधः क्रियारुपापन्ने गुणे वतित्वा पश्चान्मत्वर्थलक्षणया तद्वति द्रव्ये वर्तत इति गुणवचनो भवति । धान्येनेति । करणे तृतीया । अथ्र्यते इत्यर्थः — प्रयोजनम् । कर्मणि घञ् । अर्थनमर्थः — अभिलाषो वा । भावे घञ् । अर्थशब्दस्य रूढत्वे तु धान्येनेति हेतौ तृतीया ।कर्तृकरणे कृता -॑इति सिद्धमिति प्रश्नः । इतरोगुणवचनेन चेत्तत्कृतेनैवे॑ति नियमार्थमिदमित्याशयेन प्रत्युदाहरति — अक्ष्णेति । न ह्रक्ष्णा काणत्वं कृतं किंतु कर्मादिनैवेति भावः । तृतीया त्विहयेनाङ्गविकारः॑ इत्यनेन । काण इति ।कण निमीलने॑इत्यस्माद्धञ् । गुमवचनत्वं कृक्तरीत्मा खण्डशब्दस्येवास्यापि बोध्यम् । गुणवचनेनेति किम् । गोभिर्वपावान् । गोसंबन्धिदध्यादिभोजनेन देवदत्तस्य वपावत्त्वमित्यस्ति तत्कृतत्वं, न त्वसौ गुणवचनः ।
Padamanjari¶
तृतीयायाश्च्छन्दसे लुकि’गूणवचनेन’ इत्यनेन सामानाधिकरण्यम्। अर्थेनेति पृथक् पदम्, अत एव गुणवचनेनार्थशब्देन चेति। कीदृशेन गुणवचनेन? तत्कृतेनेति। तदिति सर्वनाम्ना प्रकृतस्य तृतीयान्तस्य प्रत्यवमर्शः, स च शब्दः। न च शब्देन गुणवचनस्य करणं सम्भवतीत्यतः सामर्थ्यातदर्थकृतेनेति विज्ञायत इत्याह - तृतीयान्तार्थकृतेनेति। यावदिति। यावच्छबदो निपातस्तात्पर्यपर्यायतां दर्शयति। अर्थद्वारकं चेदं गुणवचनस्य विशेषयणम्, अर्थ एव हि तृतीयार्थेन क्रियते, न गुणवचनः शब्दः। वचनग्रहणं किम्, यावार्थेन समासासम्भवाद् गुणवचनेवैव भविष्यति? एवं यथा विज्ञायेतगुणमुक्तवान् गुणवचनः,’कृत्यल्युटडो बहुलम्’ इति लक्षितो गृह्यते, न तु यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेश इति तच्छब्दप्रवृत्तिनिमितम्; तृतायान्तार्थकृते सर्वत्रैव तस्य भावात्। शंकुलाखण्डः, किरिकाण इति।’खडि भेदने’ ,’कण निमीलने’ इत्याभ्यां घञि व्युत्पादितावेतौ क्रियारूपापन्ने गणे वर्तित्वान्मतुब्लोपादभेदोपचाराद्वा त्दवति द्रव्ये वर्तेत इति गुणवचनौ भवतः। धान्येनार्थ इति। अर्थ्यत इत्यर्थः उ प्रयोजनम्, अर्थनं वार्थः उ प्रार्थना, अभिलाषः। सर्वत्र करणे तृतीयायअः समासः। अक्ष्णा काण इति। नात्राक्ष्णत्म्, किं तर्हि? अन्येनैव केनापि किर्यादिना, अक्ष्णा तु केवलं काणो लक्ष्यत इति तत्कृतत्वाभावः। किंच दघ्ना पटुअनित्यत्र मा भूदित्येवमर्थमपि तत्कृतग्रहणं कर्तव्यम्। ननु यदि दधिकृतं पाटवं विवक्षितम् - दध्ना कृतः पटुअरिति, ततो भवितव्यमेव समासेन; अथ भोजनाद्यपेक्षो दध्नः करणभावः - दध्ना भुङ्क्ते पटुअरिति, ततोऽसामर्थ्यादेव न भविष्यति? इहापि तर्हि न स्यात् - कुअंकुमेन लोहितं कोपेनं मुखमिति, अत्रापि हि कोरोतिक्रियया करण्सय सम्बन्धः - कुअंकुमेन कृतं लोहितामिति। क्व तर्हि स्यात्? शंकुलया खण्ड इत्यादावेव तु स्यात्, यत्र पूर्वोतरपदयोः क्रियाकारकलक्षणः सम्बन्धः। तस्माद्यत्रोतरपदे क्रिया न गम्यते तत्रापि तत्कृतत्वे सति यथा स्याद्भोजनादिद्वारके सामर्थ्ये मा भूदिति तत्कृतग्रहणम्। गुणवचनेनेति किमिति। जातिवचनेषु जातेर्नित्यत्वातत्कृतस्यासम्भवः। क्रियावचने त्विष्यत एव।’कर्तृकरणे कृता बहुलम्’ इति द्रव्यवाचिष्वपि तत्कृतस्यासम्भव एव। न ह्याकाशस्य तत्वं केनचित् क्रियते, अतो गुणवचनेनैव भविष्यतीति प्रश्नः। गोभिर्वपावानिति। गोसम्बन्धिदध्याद्यौपयोगादेव तस्य वपावत्वं पूवरत्वमित्यस्ति तत्कृतत्वम्, न त्वसौ गुणवचनः॥
Nyaas¶
तत्कृत इति। एतदर्थशब्देनासमस्तमेव, अविभक्तिञ्च। तृतीयाविभक्तेः सुपां सुलुक् (7.1.39) इति लुप्तत्वात्। एतच्च गुणवचनेनेत्यस्य समानाधिकरणं विशेषणम्। अत एव कीदृशेनेति पृष्टः सन्नाह - तत्कृतेन इति। तदिति सर्वनाम्ना प्रकृतस्य तृतीयान्तस्य प्रत्यवमर्श इति तृतीयान्तकृतेनेति दर्शयति। तृतीयान्तेन गुणवचनस्य करणत्वं न सम्भवतीत्यतः सामर्थ्यात् तदर्थकृतेनेति विज्ञायत इत्यत आह - तृतीयान्तार्थकृतेनेति यावत् इति। अर्थद्वारेण चेदं गुणवचनस्य विशेषणं वेदितव्यम्- तृतीयान्तार्थकृतो गुणवचनार्थ इति। सोऽपि तथोच्यते। एतदुक्तं भवति - तृतीयान्तार्थकृतेन गुणवचनार्थेनेति। अर्थ एव हि तृतीयान्तार्थेन क्रियते, न च गुणवचनशब्दः। गुणमुक्तवान् = गुणवचनः। कृत्यल्युटो बहुलम् (3.3.113) इति कर्तरि ल्युट्। अथ वा - करणे, गुण उक्तोऽनेनेति गुणवचनः। यश्च पूर्व गुणे वर्तित्वा पश्चात् तद्वति द्रव्ये वर्तते स गुणवचनः। गुणेनेत्युच्यमाने घृतेन पाटवमित्यादौ प्रसङ्गः, अतस्तन्निवृत्त्यर्थं वचनग्रहणम्। तस्मश्च सति गुणे वर्तित्वा तद्वति द्रव्ये यो वर्तते तेनैव समासो भवति, न तु गुण एव यो वर्तते तेन सह। न च पाटवादयः शब्दाः पूर्वं गुणे वर्तित्वा पश्चात् तद्वति द्रव्ये वर्तन्ते, अपि तु गुण एव। वचनग्रहणात् तैः सह समासो न भवति। शङ्कुलाखण्डः, गिरिकाणः इति। खण्डकाणशब्दावत्र खण्डनेन निमीलने च क्रियारूपापन्ने गुणे वर्तित्वा पश्चान्मतुब्लोपादभेदोपचाराद्वा तद्वति द्रव्ये वर्तते इति गुणवचनौ भवतः। धान्यार्थः इति। भवुत्ययमर्थशब्दस्तत्कृतः, तथा हि स गोभिर्वपावान् कृतः। न तु वपावानित्ययं शब्दो गुणमुक्तवामिति न गुणवचनः, ततस्तेन सह समासो न भवति॥
Praudhamanorama¶
तृतीया तत्कृतार्थेन गुणवचनेन ॥ तच्छब्देन तृतीयान्तपरामर्शिना तदर्थो लक्ष्यते । तदर्थकृतत्वञ्च गुणवचनस्याऽर्थद्वारकं विशेषणम् । एवं स्थिते फलितमर्थमाह - तृतीयान्तार्थेत्यादि । कृतो यो गुणस्तद्वचनेनेत्यर्थः । धान्येनेति करणे तृतीया । अर्थ्यते इति अर्थः, प्रयोजनम् । अर्थनमर्थः, अभिलाषो वा । अर्थशब्दस्य रूढत्वे तु ‘धान्येने’ति हेतौ तृतीया ।
Prakriyasarvasvam¶
तृतीयान्तं तत्कृतगुणवचनेनार्थशब्देन च समस्यते । कुङ्कुमेन शोणः कृतः कुङ्कुमशोणः । नासिकया क्षुद्रः कृतो नःक्षुद्रः ।<!–य क्षुद्रेषु!> (वा० ६–१–६३) इति नस्भावः । अक्ष्णा काण इत्यादौ काणत्वस्य रोगादिकृतत्वादसमासः । अर्थशब्देन तु—धान्येन प्रयोजनं धान्यार्थः ॥
Sutra Prayogas¶
महेन्द्र-लोक-प्रतिमां (भट्टिकाव्यम्): तृतीया इति योगविभागात्समा- सः ।