21027: सामि¶
Padacheda: सामि | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The indeclinable word सामि ‘half’ is compounded with a word ending in the affix क्त and the resulting compound is तत्-पुरुष ।
Vasu English Translation¶
The indeclinable word सामि ‘half’ is compounded with a word ending in the affix क्त and the resulting compound is तत्-पुरुष । The word सामि being an avyaya, and not denoting any substance, cannot take the affixes of the second or any case. Therefore the anuvritti of the word द्वितीया would be inapposite in this aphorism.
As सामिकृतम् ‘half-done.’ सामिपीतम् ‘half-drunk’ सामिभुक्तम् ‘half-eaten.’
The object attained by this samása is the same as in (2.1.25), namely, making them one word and taking one accent.
Kashika¶
सामीत्येतदव्ययमर्धशब्दपर्यायः, तस्यासत्त्ववाचित्वाद् द्वितीयया नास्ति संबन्धः। तत् सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। सा॒मिकृत॑म्। सा॒मिपी॑तम्। सा॒मिभु॑क्तम्। ऐकपद्यमैकस्वर्यं च समासत्वाद् भवति॥
Siddhanta Kaumudi¶
सामिकृतम् ॥
Balamanorama¶
सामि - सामि ।सामी॑त्यव्ययमर्धे वर्तते । तत्-क्तान्तप्रकृतिकसुबन्तेन समस्यत इत्यर्थः । सामिकृतमिति । समासाऽभावे तु तद्धितवृत्तौसामिकार्ति॑रिति स्यादिति भावः ।
Tattvabodhini¶
सामि - सामि । सामीत्येतदव्ययमर्धशब्दपर्यायः ।
Padamanjari¶
तस्यासत्ववाचित्वादिति। द्रव्याधारा हि कर्मशक्तिः; अतो द्रव्यवाचिन एव द्विताया भवति, नाद्रव्यवाचिन इत्यर्थः॥
Nyaas¶
असत्त्ववाचित्वात् इति। द्रव्याधारा हि कर्मशक्तिः। अतो द्रव्यवाचिन एव द्वितीयया सम्बन्धो भवति, नासत्त्ववाचिनः॥
Prakriyasarvasvam¶
अधार्थः सामिशब्दः क्तेन समस्यते । सामिभुक्तम् ॥