21025: स्वयं क्तेन

Padacheda: स्वयम् | S | 0 | 0 |

क्तेन | S | 3 | 1 |

Sutrartha


Vasu English Summary

The indeclinable word स्वयम् ‘oneself’ is compounded with a word ending in the affix क्त and the resulting compound is तत्-पुरुष ।

Vasu English Translation

The indeclinable word स्वयम् ‘oneself’ is compounded with a word ending in the affix क्त and the resulting compound is तत्-पुरुष । The anuvritti of the word द्वितीया from the last aphorism into this, cannot take place; though, however, it is understood in the next sūtra. The word स्वयम् being an Indeclinable, cannot take any case-affix. As स्वयै धौतौ पदौ ‘feet washed by himself’ स्वयं विलीनमज्यम्.

In this compounding, the two words do not appear to have undergone any change after their composition. They are the same as they were before the composition. But by calling their juxtaposition, ‘a compound,’ two indirect advantages are gained. Namely these two words are regarded as one word, and their accent is also similarly regulated. See Rule (6.1.223).

The words ending in kta which is a Nistha. affix, are past participles.

Kashika

स्वयमेतदव्ययमात्मनेत्यस्यार्थे वर्तते, तस्य द्वितीयया सह संबन्धो नोपपद्यत इति द्वितीयाग्रहणमुत्तरार्थमनुवर्तते। स्वयमित्येतत्सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। स्व॒यंधौ॑तौ पादौ। स्व॒यंवि॑लीनमाज्यम्। ऐकपद्यमैकस्वर्यं च समासत्वाद् भवति॥

Siddhanta Kaumudi

द्वितीया - (SK686) इति न संबद्ध्यते अयोग्यत्वात् । स्वयंकृतस्यापत्यं स्वायंकृतिः ॥

Tattvabodhini

स्वयं क्तेन - स्वायंकृतिरिति । असति समासे कार्तिरिति स्यादिति भावः ।

Padamanjari

‘धावु गतिशुध्द्योः’ , ठुदितो वाऽ इति क्त्वायां विकल्पितेट्त्वात्’यस्य विभाषा’ इतीट्प्रतिषेधः,’च्छवोः शूडनुनासिके च’ इत्यूठ, ठेत्येदत्यूठसुऽ इति वृध्दिः। स्वयंविलीनमिति।’लीङ् श्लेषणे’ ,’स्वादयओदितः’ , ठोदितश्चऽ इति निष्ठानत्वम्, कृद«अहणे गतिकारकपूर्वस्यापि ग्रहणाद्विलीनशब्दः क्तान्तः। ऐकपद्यमैकस्वर्ये समासत्वादिति। समसनं समासः, संज्ञा वा, ततो हेतोरित्यर्थः ॥

Nyaas

तस्य द्वितीयया सह सम्बन्धो नोपपद्यते इति। द्वितीयार्थासम्भवात्। इतिशब्दो हेतौ। यतस्तस्य द्वितीयया सह सम्बन्धोऽनुपपन्नस्तस्माद्द्वितीयाग्रहणमुत्तरार्थमनुवर्तते, न त्वेतदर्थम्। स्वयंधौतौ पादौ इति। धावु गतिशुद्धयोः (धातुपाठः-601), अस्योदित्त्वाद्विभाषितेट्। यस्य विभाषा (7.2.15) इतीट्प्रतिषेधः। च्छवोः शूडनुनासिके चट (6.4.19) इत्यूठ्। **एत्येधत्यूठ्सु** (6.1.89) इति वृद्धिः। `स्वयंविलीनमाख्यम् इति। लीङ श्लेषणे (धातुपाठः-1139), स्वादय ओदितः (का।8.2.45) इत्योदित्त्वात् ओदितश्च (8.2.45) इति नत्वम्। कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् (व्या।प।126) इति गतिपूर्वस्यापि समासो भवति। कः पुनरत्र समासे सति विशेषः यावता विनापि तेनैतद्रूपं सिध्यतीत्याह - ऐकपद्यम् इत्यादि॥

Prakriyasarvasvam

स्वयंशब्दः क्तान्तेन समस्यते । स्वयंकृतं व्यसनम् ॥